Home » Example for the day » अद्राक्षम् 1As-लुँङ्

अद्राक्षम् 1As-लुँङ्

Today we will look at the form अद्राक्षम् 1As-लुँङ् from श्रीमद्भागवतम् 7.3.18.

अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ।। ७-३-१८ ।।
नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् ।। ७-३-१९ ।।

श्रीधर-स्वामि-टीका
हृत्सारं धैर्यम् । दंशैर्मक्षिकादिविशेषैर्भक्षितो देहो यस्य ।। १८ ।। निरम्बुः निषिद्धमम्बु येन सः । त्यक्तोदक इत्यर्थः ।। १९ ।।

Gita Press translation – I have witnessed this extraordinary and marvelous stamina of yours, that your body having been eaten away by gnats, your life actually hangs on your bones (alone) (18). Neither did the former sages practice such asceticism nor will the coming ones do it. Indeed, who can support life without water for a hundred celestial years (or 36,000 human years)? (19)

अद्राक्षम् is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) दृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मिप्” as the substitute for the लकारः।

(4) दृश् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः – The तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively. 1-3-4 न विभक्तौ तुस्माः prevents ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा।

(5) दृश् + च्लि + अम् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) दृश् + सिँच् + अम् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”। See question 2.

(7) दृश् + स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) दृ अम् श् + स् + अम् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(9) दृ अ श् + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) द्रश् + स् + अम् । By 6-1-77 इको यणचि

(11) द्राश् + स् + अम् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(14) अट् द्राश् + स् + अम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ द्राश् + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ द्राष् + स् + अम् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(17) अद्राक् + स् + अम् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(18) अद्राक्षम् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 17) been used in Chapter 16 of the गीता?

2. Why doesn’t the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः apply (instead of 3-1-44 च्लेः सिच्) in step 6?

3. What would be an alternate final form in this example?

4. Where has the augment “रुँट्” been used in the verses?

5. In which word used in the verses does the सूत्रम् 1-1-59 द्विर्वचनेऽचि find application?

6. How would you say this in Sanskrit?
“I did not see any error in this text.” Use the masculine प्रातिपदिकम् “दोष” for “error” and the masculine प्रातिपदिकम् “ग्रन्थ” for “text.”

Easy Questions:

1. The word अस्थिषु used in the verses is सप्तमी-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अस्थि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?

2. Use this सूत्रम् (answer to question 1 above) to derive the तृतीया-एकवचनम् of “अस्थि”।


1 Comment

  1. 1. Where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 17) been used in Chapter 16 of the गीता?
    Answer: The सूत्रम् 8-2-41 षढोः कः सि has been used in the form यक्ष्ये derived from √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).
    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 16-15 ॥

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    यज् + लृँट् । By 3-3-13 लृट् शेषे च।
    = यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = यज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = यज् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the इडागम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यज् स्ये । By 6-1-97 अतो गुणे।
    = यष् स्ये । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = यक् स्ये । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
    = यक्ष्ये । By 8-3-59 आदेशप्रत्यययो:।

    2. Why doesn’t the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः apply (instead of 3-1-44 च्लेः सिच्) in step 6?
    Answer: 3-1-45 शल इगुपधादनिटः क्सः does not apply in step 6 because of 3-1-47 न दृशः – The affix “च्लि” does not take the substitute “क्स” when following the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    Note: 3-1-47 is a निषेध-सूत्रम् (prohibition rule) which stops 3-1-45 शल इगुपधादनिटः क्सः।

    3. What would be an alternate final form in this example?
    Answer: The alternate final form would be अदर्शम्

    The “इर्” in “दृशिँर्” gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः। Therefore this धातुः is an इरित्।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दृश् + लुँङ् । By 3-2-110 लुङ्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = दृश् + च्लि + अम् । By 3-1-43 च्लि लुङि।
    = दृश् + अङ् + अम् । By 3-1-57 इरितो वा – When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)
    = दृश् + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च, but the special सूत्रम् 7-4-16 prescribes गुणः in the next step.
    = दर्श् + अ + अम् । By 7-4-16 ऋदृशोऽङि गुणः – A अङ्गम् ending in the ऋ-वर्णः (ऋकारः/ॠकारः) or consisting of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) takes the गुणः substitute when followed by the affix “अङ्”। By 1-1-51 उरण् रपरः – In the place of ऋवर्ण: if an अण् letter comes as a substitute, it is always followed by a “रँ” letter.
    = दर्शम् । By 6-1-97 अतो गुणे।
    = अट् दर्शम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अदर्शम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Where has the augment “रुँट्” been used in the verses?
    Answer: The augment “रुँट्”-आगम: is seen in the form शेरते derived from √शी (शीङ् स्वप्ने २. २६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    शी + लँट् । By 3-2-123 वर्तमाने लट्।
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शी + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शी + शप् + झे । By 3-1-68 कर्तरि शप्।
    = शी + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = शे + झे । By 7-4-21 शीङः सार्वधातुके गुणः।
    = शे + अते । By 7-1-5 आत्मनेपदेष्वनतः।
    = शे + रुँट् अते । By 7-1-6 शीङो रुट् , when following the verbal root √शी (शीङ् स्वप्ने २. २६), the “अत्” which comes in the place of the झकारः of a प्रत्ययः takes the augment रुँट्। As per 1-1-46 आद्यन्तौ टकितौ, the रुँट्-आगमः is placed at the beginning of the “अते”-प्रत्ययः।
    = शेरते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. In which word used in the verses does the सूत्रम् 1-1-59 द्विर्वचनेऽचि find application?
    Answer: The सूत्रम् 1-1-59 द्विर्वचनेऽचि finds application in the derivation of the form चक्रुः derived from √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “उस्” is कित् here. Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कृ कृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि – While reduplication is yet to be done, a substitution shall not be made in the place of a vowel on the basis of a vowel that is the cause for reduplication. Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + उस् । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + उस् । By 7-4-60 हलादिः शेषः।
    = चक्रुस् । By 6-1-77 इको यणचि।
    = चक्रुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “I did not see any error in this text.” Use the masculine प्रातिपदिकम् “दोष” for “error” and the masculine प्रातिपदिकम् “ग्रन्थ” for “text.”
    Answer: अस्मिन् ग्रन्थे न कम् चन दोषम् अद्राक्षम्/अदर्शम् = अस्मिन् ग्रन्थे न कञ्चन दोषमद्राक्षम्/दोषमदर्शम्।

    Easy Questions:

    1. The word अस्थिषु used in the verses is सप्तमी-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अस्थि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?
    Answer: पाणिनिः specifically mentions this प्रातिपदिकम् “अस्थि” in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः – When a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases “अस्थि”, “दधि”, “सक्थि” and “अक्षि” get the अनँङ् replacement, which has the उदात्तः accent.

    2. Use this सूत्रम् (answer to question 1 above) to derive the तृतीया-एकवचनम् of “अस्थि”।
    Answer: अस्थि + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अस्थि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अस्थ् अनँङ् + आ । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः, 1-1-53 ङिच्च।
    = अस्थ् अन् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस्थ्ना । By 6-4-134 अल्लोपोऽनः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics