Today we will look at the form उदनीनमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.42.7.
प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन्दर्शने फलम् ।। १०-४२-६ ।।
पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना । प्रगृह्य चुबुकेऽध्यात्ममुदनीनमदच्युतः ।। १०-४२-७ ।।
श्रीधर-स्वामि-टीका –
स्वदर्शने सद्यः फलं दर्शयन् ।। ६ ।। तस्याः प्रपदे पादाग्रद्वयं पद्भ्यामापीड्य द्वे अङ्गुल्यावुत्ताने उन्नते यस्मिन्पाणौ तेन चुबुके मुखस्याधोभागे धृत्वाऽध्यात्मं देहमुन्नमयामास ।। ७ ।।
Gita Press translation – The propitious Lord made up His mind to straighten the hunchback – who was curved at three places, though possessed of a charming countenance – (thereby) showing (to the world) the (immediate) reward of His sight (6). Pressing the forepart of her feet with His own feet and supporting her chin on the two (viz., the index and middle) fingers, raised upwards, of His open (right) hand, Śrī Kṛṣṇa (the infallible Lord) straightened up her body (7).
अनीनमत् is a causative form derived from the धातुः √नम् (भ्वादि-गणः, णमँ प्रह्वत्वे शब्दे च, धातु-पाठः #१. ११३६)
The धातुः “णमँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नमँ”।
The ending अकार: at the end of “नमँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
नम् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= नम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= नाम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
= नमि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
“नमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “नमि” has taken a परस्मैपद-प्रत्ययः।
(1) नमि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) नमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) नमि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।
(4) नमि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) नमि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(6) नमि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(7) नमि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).
Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्।
(8) नमि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) नम् नमि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(10) न नमि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “नमि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
(11) नि नमि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
(12) नी नमि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “नि”) of the अभ्यासः (reduplicate) is elongated.
(13) नी नम् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।
Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
(14) अट् नी नम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
(15) अनीनमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
“उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उद् + अनीनमत् = उदनीनमत् ।
Questions:
1. Where has the सूत्रम् 3-1-26 हेतुमति च been used in a तिङन्तं पदम् for the first time in the गीता?
2. Commenting on the affix चङ् prescribed by the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (used in step 7), the काशिका says – ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः “चङि” 6-1-11 इति विशेषणार्थः। Please explain.
3. Further commenting on the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्, the काशिका says “कर्तरीति किम्? अकारयिषातां कटौ देवदत्तेन।” Please explain.
4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the काशिका says “अनग्लोप इत्येव – अचकथत्।” Please explain.
5. How would you say this in Sanskrit?
“The teacher subdued my ego.” Use the masculine प्रातिपदिकम् “अहङ्कार” for “ego” and use a causative form of √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to subdue.”
6. How would you say this in Sanskrit?
“Śrī Hanumān made up his mind to cross the ocean.” Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross” and use some words from the verses for “made up his mind.”
Easy Questions:
1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the commentary?
2. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form अङ्गुल्यौ (स्त्रीलिङ्ग-प्रातिपदिकम् “अङ्गुली”, प्रथमा-द्विवचनम्)?
1. Where has the सूत्रम् 3-1-26 हेतुमति च been used in a तिङन्तं पदम् for the first time in the गीता?
Answer: The सूत्रम् 3-1-26 हेतुमति च has been used in a तिङन्तं पदम् for the first time in the गीता in the causative form व्यदारयत् derived from the धातुः √दॄ (दॄ विदारणे ९. २६)
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ 1-19 ॥
दॄ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= दॄ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= दर् इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= दारि । By 7-2-116 अत उपधायाः। “दारि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
दारि + लँङ् । By 3-2-111 अनद्यतने लङ्।
= दारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दारि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= दारि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दारि + त् । By 3-4-100 इतश्च।
= दारि + शप् + त् । By 3-1-68 कर्तरि शप्।
= दारि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= दारे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= दारयत् । By 6-1-78 एचोऽयवायावः।
= अट् दारयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
= अदारयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अदारयत् = व्यदारयत् । By 6-1-77 इको यणचि।
2. Commenting on the affix चङ् prescribed by the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (used in step 7), the काशिका says – ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः “चङि” 6-1-11 इति विशेषणार्थः। Please explain.
Answer: The purpose of having ङकारः as a इत् in the affix “चङ्” is to prevent गुणः or वृद्धिः on the अङ्गम्। (Since the affix “चङ्” is a ङित्, 1-1-5 क्क्ङिति च prevents गुणः or वृद्धिः।) And the purpose of having चकारः as a इत् in the affix “चङ्” is to differentiate it from “अङ्” in the सूत्रम् 6-1-11 चङि।
3. Further commenting on the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्, the काशिका says “कर्तरीति किम्? अकारयिषातां कटौ देवदत्तेन।” Please explain.
Answer: The form अकारयिषाताम् is a causative passive form derived from √कृ (डुकृञ् करणे ८. १०).
The विवक्षा is लुँङ्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, द्विवचनम्।
कृ + णिच् । By 3-1-26 हेतुमति च।
= कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= कारि । By 7-2-116 अत उपधायाः। “कारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
कारि + लुँङ् । By 3-2-110 लुङ्।
= कारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कारि + आताम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आताम्” from getting the इत्-सञ्ज्ञा।
= कारि + च्लि + आताम् । By 3-1-43 च्लि लुङि।
= कारि + सिँच् + आताम् । By 3-1-44 च्लेः सिच्।
Note: As per 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” (“णिच्” or ”णिञ्”) or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०). In the present example the विवक्षा is कर्मणि प्रयोगः। Therefore 3-1-48 does not apply here.
= कारि + स् + आताम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कारि + इट् स् + आताम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= कारि + इ स् + आताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कारे + इ स् + आताम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= कारयिसाताम् । By 6-1-78 एचोऽयवायावः।
= अट् कारयिसाताम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अकारयिसाताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अकारयिषाताम् । By 8-3-59 आदेशप्रत्यययोः।
4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the काशिका says “अनग्लोप इत्येव – अचकथत्।” Please explain.
Answer: The form अचकथत् is derived from √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने)१०. ३८९). The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कथ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
= कथ् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् “कथ्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
= कथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कथि । “कथि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Note: By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first (because the conditions for getting the सन्वद्भावः have been stated in 7-4-93.)
As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
Here condition i) is satisfied but ii) is not because अकार-लोपः has been done (based on the affix “णि”) by 6-4-48 अतो लोपः। Therefore 7-4-93 (and hence 7-4-94) does not apply here.
कथि + लुँङ् । By 3-2-110 लुङ्।
= कथि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कथि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कथि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कथि + त् । By 3-4-100 इतश्च।
= कथि + च्लि + त् । By 3-1-43 च्लि लुङि।
= कथि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
= कथि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कथ् कथि + अ + त् । By 6-1-11 चङि।
= क कथि + अ + त् । By 7-4-60 हलादिः शेषः।
= च कथि + अ + त् । By 7-4-62 कुहोश्चुः। Note: As explained above 7-4-93 (and hence 7-4-79 and 7-4-94) does not apply here.
= च कथ् + अ + त् । By 6-4-51 णेरनिटि।
= अट् च कथ् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अचकथत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
5. How would you say this in Sanskrit?
“The teacher subdued my ego.” Use the masculine प्रातिपदिकम् “अहङ्कार” for “ego” and use a causative form of √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to subdue.”
Answer: अध्यापकः/गुरुः मम अहङ्कारम् अनीनमत् = अध्यापको ममाहङ्कारमनीनमत् – अथवा – गुरुर्ममाहङ्कारमनीनमत्।
6. How would you say this in Sanskrit?
“Śrī Hanumān made up his mind to cross the ocean.” Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross” and use some words from the verses for “made up his mind.”
Answer: श्रीहनुमान् सागरम् तरितुम्/तरीतुम् मनः चक्रे = श्रीहनुमान् सागरं तरितुं/तरीतुं मनश्चक्रे।
Easy Questions:
1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the commentary?
Answer: The सूत्रम् 7-3-119 अच्च घेः has been used in the form पाणौ (पुंलिङ्ग-प्रातिपदिकम् “पाणि”, सप्तमी-एकवचनम्)।
पाणि + ङि । By 4-1-2 स्वौजसमौट्छष्टा………..। The अङ्गम् “पाणि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
= पाण + औ । By 7-3-119 अच्च घेः – following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् is replaced by short “अ”।
= पाणौ । By 6-1-88 वृद्धिरेचि।
2. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form अङ्गुल्यौ (स्त्रीलिङ्ग-प्रातिपदिकम् “अङ्गुली”, प्रथमा-द्विवचनम्)?
Answer: 6-1-105 दीर्घाज्जसि च blocks the application of 6-1-102 प्रथमयोः पूर्वसवर्णः in the word अङ्गुल्यौ।
अङ्गुली + औ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= अङ्गुल्यौ । By 6-1-77 इको यणचि । Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is blocked by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) shall not take place when the “जस्” affix or a “इच्” letter (a letter belonging to the प्रत्याहार: “इच्”) follows a long vowel.