Home » Example for the day » अभूत् 3As-लुँङ्

अभूत् 3As-लुँङ्

Today we will look at the form अभूत् 3As-लुँङ् from श्रीमद्भागवतम् 2.7.5.

तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्स्वतपसः स चतुःसनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग्जगाद मुनयो यदचक्षतात्मन् ।। २-७-५ ।।
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतपःप्रभावः ।
दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ।। २-७-६ ।।

श्रीधर-स्वामि-टीका
कुमारावतारमाह । मे मया आदौत्तपस्तप्तं तस्मात्स्वतपसो मत्तपसो हेतोः हरिश्चतुःसनोऽभूत् । सनत्कुमारः सनकः सनन्दनः सनातन इति चत्वारः सनशब्दा नाम्नि यस्य सः । कथंभूतात्स्वतपसः सनादखण्डितात् । यद्वा स्वतपसः सनाद्दानात् समर्पणादित्यर्थः । षणु दाने । स च पूर्वकल्पस्य संप्लवे प्रलये विनष्टमुच्छिन्नसंप्रदायमात्मतत्त्वमिहास्मिन्कल्पे सम्यग्जगादोक्तवान् । सम्यक्त्वं दर्शयति । यद्गदितमात्रमेव मुनय आत्मन् आत्मनि मनस्यचक्षत साक्षादपश्यन् ।। ५ ।। नरनारयणावतारमाह । धर्मस्य पत्न्यां दक्षदुहितरि मूर्तिसंज्ञायां नारायणो नर इति मूर्तिद्वयेन जातः । कथंभूतः । स्वोऽसाधारस्तपःप्रभावो यस्य । तदेवाह । अनङ्गस्य पृतनाः देव्योऽप्सरसो भगवतः सकाशादात्मनः स्वप्रतिरूपा उर्वश्याद्याः स्त्रीर्दृष्ट्वा तस्य नियमावलोपं व्रतभङ्गं घटितुं साधयितुं शेकुरिति । एतच्चाख्यानमेकादशे भविष्यति ।। ६ ।।

Gita Press translation “At the dawn of creation I (Brahmā) practiced austerity for the purpose of creating the various worlds. As a result of that penance of mine the eternal Lord appeared in the form of the four brothers (Sanatkumāra, Sanaka, Sanandana and Sanātana), all of whom bear the word ‘Sana’ as a part of their names, and fully expounded in the present Kalpa the truth of the Spirit, which had been lost during the Dissolution at the end of the preceding Kalpa, and which the sages forthwith perceived in their heart (as a result of that exposition). (5) Of Mūrti, a daughter of Dakṣa and the wife of Dharma (the god of virtue), He was born as the twin sages Nārāyaṇa and Nara, who were unequalled in the glory of their austere penance. The celestial nymphs who accompanied the god of love as his army to conquer them beheld there other nymphs, as charming as themselves, evolved by dint of their Yogic power, and could not violate the sanctity of their vow.(6)”

अभूत् is derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, there are no इत् letters with the verbal root √भू. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्,  in कर्तरि प्रयोग: this verbal root takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) भू + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

See question 2.

(9) अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has लुँङ् been used in the last ten verses of the गीता?

2. After step 8, why doesn’t the अङ्गम् “भू” take the गुणादेशः by 7-3-84 सार्वधातुकार्धधातुकयोः?

3. Can you identify another लुँङ् form in the verses?

4. Which सूत्रम् is used for the जकारादेशः in the form जगाद?

5. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

6. How would you say this in Sanskrit?
“The teacher was amazed to hear my answer.” Paraphrase this to “Having heard my answer, the teacher was amazed.” Use the अव्ययम् “श्रुत्वा” for “having heard” and the adjective प्रातिपदिकम् “विस्मित” for “amazed.”

Easy Questions :

1. Can you spot a “आम्” augment in a सुबन्तं पदम् in the commentary?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?


1 Comment

  1. 1. Where has लुँङ् been used in the last ten verses of the गीता?
    Answer: लुँङ् has been used in verse 74 of Chapter 18 in the form अश्रौषम् derived from √श्रु (श्रु श्रवणे १. १०९२).
    सञ्जय उवाच
    इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
    संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ ।। 18-74 ।।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    श्रु + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = श्रु + च्लि + अम् । By 3-1-43 च्लि लुङि।
    = श्रु + सिँच् + अम् । By 3-1-44 च्लेः सिच्।
    = श्रु + स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = श्रौ + स् + अम् । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
    = अट् श्रौ + स् + अम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ श्रौ + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अश्रौषम् । By 8-3-59 आदेशप्रत्यययो:।

    2. After step 8, why doesn’t the अङ्गम् “भू” take the गुणादेशः by 7-3-84 सार्वधातुकार्धधातुकयोः?
    Answer:  The अङ्गम् “भू” does not take the गुणादेशः by 7-3-84 सार्वधातुकार्धधातुकयोः because of the prohibition rule (निषेध-सूत्रम्) 7-3-88 भूसुवोस्तिङि – “भू” and “सू” do not take the गुण: substitution when followed by a “तिङ्”-प्रत्यय: which has the designation सार्वधातुकम्।

    3. Can you identify another लुँङ् form in the verses?
    Answer: लुँङ् has also been used in the form अजनिष्ट derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लुँङ् । By 3-2-110 लुङ्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + च्लि + त । By 3-1-43 च्लि लुङि।
    = जन् + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = जन् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + इट् स् + त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = जन् + इ स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अट् जन् + इ स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ जन् + इ स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ जन् + इ ष् + त । By 8-3-59 आदेशप्रत्यययो:।
    = अजनिष्ट । By 8-4-41 ष्टुना ष्टुः।

    4. Which सूत्रम् is used for the जकारादेशः in the form जगाद?
    Answer: 7-4-62 कुहोश्चुः is used for the जकारादेशः in the form जगाद derived from √गद् (गदँ व्यक्तायां वाचि १. ५४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गद् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गद् गद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = ग गद् + अ । By 7-4-60 हलादिः शेषः।
    = ज गद् + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = जगाद । By 7-2-116 अत उपधायाः।

    5. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?
    Answer: 7-1-5 आत्मनेपदेष्वनतः has been used in the form अचक्षत derived from √चक्ष् (चक्षिङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    चक्ष् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = चक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चक्ष् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = चक्ष् + शप् + झ । By 3-1-68 कर्तरि शप्‌।
    = चक्ष् + झ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = चक्ष् + अत । By 7-1-5 आत्मनेपदेष्वनतः – The झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
    Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।
    = अट् चक्ष् + अत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अचक्षत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “The teacher was amazed to hear my answer.” Paraphrase this to “Having heard my answer, the teacher was amazed.” Use the अव्ययम् “श्रुत्वा” for “having heard” and the adjective प्रातिपदिकम् “विस्मित” for “amazed.”
    Answer: मम उत्तरम् श्रुत्वा अध्यापकः/शिक्षकः विस्मितः अभूत् = ममोत्तरं श्रुत्वाध्यापको विस्मितोऽभूत् / ममोत्तरं श्रुत्वा शिक्षको विस्मितोऽभूत्।

    Easy Questions :

    1. Can you spot a “आम्” augment in a सुबन्तं पदम् in the commentary?
    Answer: A “आम्” augment is used in the form चत्वारः (प्रतिपदिकम् “चतुर्”, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    चतुर् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per 1-1-43 सुडनपुंसकस्य, the affix जस् has the designation सर्वनामस्थानम् here. This allows 7-1-98 to apply below.
    = चतुर् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of affix जस् from getting the इत्-सञ्ज्ञा।
    = चतु आम् र् + अस् । By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, “चतुर्” and “अनडुह्” get the “आम्” augment. (This “आम्” augment has a उदात्तः accent.) As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “आम्” attaches after the last vowel in “चतुर्” which is the उकार:।
    = चतु आ र् + अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = चत्वारस् । By 6-1-77 इको यणचि।
    = चत्वारः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?
    Answer: 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in the form दक्षदुहितरि (स्त्रीलिङ्ग-प्रातिपदिकम् “दक्षदुहितृ”, सप्तमी-एकवचनम्)।

    The प्रातिपदिकम् “दक्षदुहितृ” used in the word दक्षदुहितरि does not take the feminine affix “ङीप्” (prescribed by the सूत्रम् 4-1-5 ऋन्नेभ्यो ङीप्) because of the prohibition rule निषेध-सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः – The feminine affixes do not come after words that have the षट्-सञ्ज्ञा and “स्वसृ” etc. (“स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” )

    दक्षदुहितृ + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = दक्षदुहितृ + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दक्षदुहितर् + इ | By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रँपरः – In the place of ऋवर्ण: if an अण् letter comes as a substitute, it is always followed by a “रँ” letter.
    = दक्षदुहितरि।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics