Home » Example for the day » इयाय 3As-लिँट्

इयाय 3As-लिँट्

Today we will look at the form इयाय 3As-लिँट् from श्रीमद्भागवतम् 6.3.24.

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ।। ६-३-२३ ।।
एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ।। ६-३-२४ ।।

श्रीधर-स्वामि-टीका
न चात्र प्रमाणं वक्तव्यं दृष्टत्वादित्याह – नामोच्चारणेति । येनैव केवलेन सकृदुच्चारितेन ।। २३ ।। ननु नामाभासेन कथं सर्वपापक्षयः स्यात् । श्रद्धाभक्त्यावृत्त्यादेरपि विधानात् । तथाहि ‘सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते’ इति, ‘अनुदिनमिदमादरेण शृण्वन्’ इति, ‘श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।। जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ।।’ इत्याद्यस्मिन्नेव पुराणे तत्र तत्र पठ्यते । पुराणान्तरे च ‘पापक्षयश्च भवति स्मरतां तमहर्निशम्’ इति । अत्रैव च ‘तस्मात्संकीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।। महतामपि कौरव्य विद्ध्येकान्तिकनिष्कृतम् ।।’ इत्यादिना सम्यक्कीर्तनादेव मुच्यते । किंच तथा सति किमिति मन्वादयो द्वादशाब्दादीनि स्मरेयुः । तस्मादिदमनुपपन्नमिव तत्राह – एतावतेति । भगवतो गुणानां कर्मणां च नाम्नां च सम्यक्कीर्तनमिति यदेतावता पुंसामघनिर्हरणाय पापक्षयमात्रायालमुपयोगो नास्ति । अलंशब्दोऽत्र वारणे । यथाहामरसिंहः – ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इति । उपयोगाभावमेवाह । अजामिलो महापातक्यपि नारायणेति विक्रुश्य नतु सम्यक्कीर्तयित्वा । तच्च पुत्रं विक्रुश्य नतु हरिम् । अघवानशुचिरपि म्रियमाणोऽस्वस्थचित्तोऽपि मुक्तिमवाप न त्वघनिर्हरणमात्रम्, अतो नामाभासेनापि सर्वपापक्षय इत्येव तत्त्वम् । आवृत्तिश्रद्धादिविधयस्तु पापवासनाक्षयार्था इत्युक्तमेव ‘हरेर्गुणानुवादः खलु सत्त्वभावनः’ इत्यत्र ।। २४ ।।

Gita Press translation “Realize, my boys, the glory of uttering the name of Śrī Hari, by which alone (pronounced unintentionally once only) even (a vile sinner like) Ajāmila was liberated from the noose of Death! (23) To celebrate duly the virtues and exploits of the Lord and to chant His name – this much is not needed for (merely) wiping out the sins of men! For even the (most) sinful Ajāmila attained liberation by (simply) calling his son at the pitch of his voice (and not with proper intonation) as Nārāyaṇa (and that too) while on the verge of death (when neither his body nor his mind was in a sound condition).(24) “

इयाय is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) इ इ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-115 अचो ञ्णिति

(7) इ ऐ + अ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(8) इयँङ् ऐ + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: The resulting meaning is that if the इवर्ण: (इकार:/ईकार:) belonging to a अभ्यास: is followed by any vowel other than a इवर्ण: (इकार:/ईकार:) it gets substituted by “इयँङ्”। Similarly, if the उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास: is followed by any vowel other than a उवर्ण: (उकार:/ऊकार:) it gets substituted by “उवँङ्”।
See question 2.

(9) इयै + अ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) इयाय । By 6-1-78 एचोऽयवायावः

Questions:

1. In the first ten verses of Chapter 4 of the गीता can you spot a तिङन्तं पदम् derived from the verbal root √इ (इण् गतौ #२. ४०)?

2. In step 8 why is 6-4-78 अभ्यासस्यासवर्णे required? (Why cannot 6-4-77 अचि श्नुधातुभ्रुवां be used?)

3. Where has लोँट् been used in the verses?

4. Which सूत्रम् is used for the substitution “धि” in the form विद्धि in the commentary?

5. Where has 3-4-108 झेर्जुस् been used in the commentary?

6. How would you say this in Sanskrit?
“Śrī Hanumān went to Lañkā to search for Sītā.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for.”

Easy Questions:

1. Where in the verses has the सूत्रम् 6-4-134 अल्लोपोऽनः been used?

2. Which प्रातिपदिकम् has been used in the word अस्मिन् in the commentary?


1 Comment

  1. 1. In the first ten verses of Chapter 4 of the गीता can you spot a तिङन्तं पदम् derived from the verbal root √इ (इण् गतौ #२. ४०)?
    Answer: √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) has been used with लँट् in verse 9 of chapter 4 of गीता in the form एति।
    जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
    त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ।। 4-9 ।। Note: न + एति = नैति।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    इ + लँट् । By 3-2-123 वर्तमाने लट् ।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = इ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = एति । By 7-3-84 सार्वधातुकार्धधातुकयोः।

    2. In step 8 why is 6-4-78 अभ्यासस्यासवर्णे required? (Why cannot 6-4-77 अचि श्नुधातुभ्रुवां be used?)
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ states – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”
    In the present case, the इकार: (in the अभ्यास:) is not at the end of the अङ्गम्। The अङ्गम् for the प्रत्यय: “अ” is “इ ऐ”। For 6-4-77 to apply the इवर्ण:/उवर्ण: has to be immediately followed by a प्रत्यय: beginning with a अच् (vowel.) Since this condition is not satisfied here, 6-4-77 does not apply.

    3. Where has लोँट् been used in the verses?
    Answer: लोँट् been used in the form पश्यत derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    दृश् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् is prescribed after a धातुः when used in the sense of command/request.
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दृश् + त । By 3-4-85 लोटो लङ्वत्‌, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = दृश् + शप् + त । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पश्य + अ + त । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः।
    = पश्यत । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

    4. Which सूत्रम् is used for the substitution “धि” in the form विद्धि in the commentary?
    Answer: The सूत्रम् 6-4-101 हुझल्भ्यो हेर्धिः is used for the substitution “धि” in the form विद्धि derived from √विद् (विदँ ज्ञाने २. ५९).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    विद् + लोँट् । By 3-3-162 लोट् च।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = विद् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = विद् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: As per 3-4-87 सेर्ह्यपिच्च, the सार्वधातुकम् affix “हि” is अपित्। Hence by 1-2-4 सार्वधातुकमपित्, the affix “हि” is ङिद्वत् (behaves as if it has ङकारः as a इत्।) Therefore 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = विद्धि । By 6-4-101 हुझल्भ्यो हेर्धिः, the “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।

    5. Where has 3-4-108 झेर्जुस् been used in the commentary?
    Answer: The सूत्रम् 3-4-108 झेर्जुस् been used in the form स्मरेयु: derived from √स्मृ (स्मृ चिन्तायाम् १. १०८२).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    स्मृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्मृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्मृ + जुस् । By 3-4-108 झेर्जुस् – The affix “झि” of लिङ् is replaced by “जुस्”।
    = स्मृ + उस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जुस्” from getting the इत्-सञ्ज्ञा ।
    = स्मृ + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = स्मृ + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = स्मृ + शप् + यास् उस् । By 3-1-68 कर्तरि शप्।
    = स्मृ + अ + यास् उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्मर् + अ + यास् उस् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = स्मर् + अ + इय् उस् । By 7-2-80 अतो येयः।
    = स्मरेयुस् । By 6-1-87 आद्गुणः।
    = स्मरेयु: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Śrī Hanumān went to Lañkā to search for Sītā.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for.”
    Answer: श्रीहनुमान् सीताम् अन्वेष्टुम् लङ्काम् इयाय = श्रीहनुमान् सीतामन्वेष्टुं लङ्कामियाय।

    Easy Questions:

    1. Where in the verses has the सूत्रम् 6-4-134 अल्लोपोऽनः been used?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः is used for the अकार-लोप: in the form गुणकर्मनाम्नाम् (नपुंसकलिङ्ग-प्रातिपदिकम् “गुणकर्मनामन्”, षष्ठी-बहुवचनम्)।

    गुणकर्मनामन् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा। The अङ्गम् “गुणकर्मनामन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = गुणकर्मनाम्न् + आम् । By 6-4-134 अल्लोपोऽनः, the अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.
    = गुणकर्मनाम्नाम् ।

    2. Which प्रातिपदिकम् has been used in the word अस्मिन् in the commentary?
    Answer: The सर्वनाम-प्रातिपदिकम् “इदम्” has been used in the form अस्मिन् (नपुंसकलिङ्गे सप्तमी-एकवचनम्)।
    इदम् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘इदम्’ has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = इद अ + ङि । By 7-2-102 त्यदादीनामः।
    = इद + ङि । By 6-1-97 अतो गुणे।
    = इद + स्मिन् । By 7-1-15 ङसिङ्योः समात्स्मिनौ।
    = अस्मिन् । By 7-2-113 हलि लोपः – The ‘इद्’ of ‘इदम्’ that is without the ककारः takes लोपः, when the विभक्तिः affixes of the ‘आप्’-प्रत्याहारः, which begin with a consonant, follow. (‘आप्’ is the प्रत्याहारः made of the ‘सुँप्’ affixes from ‘टा’ until ‘सुप्’)। This rule is an अपवाद: (exception) to the prior rule 7-2-112 अनाप्यकः।
    Note: Only the दकारः of ‘इद्’ would take लोपः as per 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect: नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
    This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:। In this example, the entire term ‘इदम्’ has meaning but the ‘इद्’ part doesn’t. So 1-1-52 does not apply when it comes to operating on the ‘इद्’ part. Therefore, the “इद्” part completely takes लोपः by 7-2-113.

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics