Today we will look at the form बुभुत्सया fIs from श्रीमद्भागवतम् 10.84.30.
श्रीवसुदेव उवाच
नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ १०-८४-२९ ॥
श्रीनारद उवाच
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ १०-८४-३० ॥
श्रीधर-स्वामि-टीका –
सर्वे देवा येषु तेभ्यः – ‘यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति’ इति श्रुतेः । येन कर्मणा यथाकृतेन वा कर्मणां निर्हारो निरासो भवति तदुच्यताम् ॥ २९ ॥ श्रीकृष्णं हित्वास्मान् पृच्छतीति विस्मितान्प्रत्याह – नातीति । बुभुत्सया बोद्धुमिच्छया ॥ ३० ॥
Gita Press translation – Vasudeva submitted : Sages, in you reside all the gods, I offer my salutations to you. Kindly listen to me. (Pray) tell us by what sort of activity one may be able to rid oneself of all Karma and (the desire of Karma) (29). Devarṣi Nārada replied : O sages, it is no great wonder that regarding Śrī Kṛṣṇa as his child, Vasudeva should inquire of us with a view to his enlightenment, the road to his spiritual welfare (30).
“बुभुत्स” is a सन्नन्त-धातुः derived from the verbal root √बुध् (दिवादि-गणः, बुधँ अवगमने, धातु-पाठः # ४. ६८).
(1) बुध् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
(2) बुध् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: By 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।।
(3) बुध्स् बुध्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(4) बु बुध्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(5) बुभुध्स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part (in this case “बुध्”) of a धातुः (in this case “बुबुध्स”,) which ends in a झष् letter (in this case धकारः) and has only one vowel (in this case उकारः,) gets its बश् letter (in this case बकारः) replaced by the corresponding भष् letter (in this case भकारः) when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।
(6) बुभुत्स । By 8-4-55 खरि च।
“बुभुत्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we form the feminine प्रातिपदिकम् “बुभुत्सा” from the सन्नन्त-धातुः “बुभुत्स”।
(7) बुभुत्स + अ । By 3-3-102 अ प्रत्ययात् – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(8) बुभुत्स् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
= बुभुत्स । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “बुभुत्स” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
(9) बुभुत्स + टाप् । By 4-1-4 अजाद्यतष्टाप् – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.
(10) बुभुत्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
(11) बुभुत्सा । By 6-1-101 अकः सवर्णे दीर्घः।
The विवक्षा is तृतीया-एकवचनम्।
(12) बुभुत्सा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(13) बुभुत्सा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
(14) बुभुत्से + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।
(15) बुभुत्सया । By 6-1-78 एचोऽयवायावः।
Questions:
1. Consider the form निबोध used in the following verse in the गीता। From which verbal root is निबोध derived?
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 18-13 ॥
2. What would be the final form(s) in this example if the verbal root √बुध् (बुधँ अवगमने १. ९९४) were to be used (instead of बुधँ अवगमने ४. ६८)?
3. Which सूत्रम् is used for the सम्प्रसारणम् in the form पृच्छति? Which one is used in the form उच्यताम्?
4. How would you say this in Sanskrit?
“I want to wake up before sunrise.” Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्गः “प्र” for “to wake up.”
5. Consider the following verse of the गीता –
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 1-35 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of हन्तुमिच्छामि?
6. Consider the following verse of the गीता –
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 18-60 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of कर्तुमिच्छसि?
Easy Questions:
1. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?
2. What is the विवक्षा in the form अर्हथ?
i) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, द्विवचनम्
ii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, द्विवचनम्
iii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, बहुवचनम्
iv) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्
1. Consider the form निबोध used in the following verse in the गीता। From which verbal root is निबोध derived?
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 18-13 ॥
Answer: The form निबोध is derived from the verbal root √बुध् (बुधँ अवगमने १. ९९४) or √बुध् (बुधिँर् बोधने १. १०१६) and not from √बुध् (बुधँ अवगमने ४. ६८).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
बुध् + लोँट् । By 3-3-162 लोट् च।
= बुध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बुध् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= बुध् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बुध् + हि । By 3-4-87 सेर्ह्यपिच्च।
= बुध् + शप् + हि । By 3-1-68 कर्तरि शप्।
= बुध् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= बोध् + अ + हि । By 7-3-86 पुगन्तलघूपधस्य च।
= बोध । By 6-4-105 अतो हेः।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + बोध = निबोध ।
Note: If the verbal root √बुध् (बुधँ अवगमने ४. ६८) were to be used the form would have been निबुध्यस्व।
2. What would be the final form(s) in this example if the verbal root √बुध् (बुधँ अवगमने १. ९९४) were to be used (instead of बुधँ अवगमने ४. ६८)?
Answer: The final form would be बुबुधिषया/बुबोधिषया।
The सन्नन्त-धातुः “बुबुधिष”/”बुबोधिष” is derived as follows:
बुध् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= बुध् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बुध् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= बुध् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: By 1-2-26 रलो व्युपधाद्धलादेः संश्च -When used with the augment “इट्”, the affixes “क्त्वा” and “सन्” are optionally treated as “कित्” (having ककारः as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.
Let us first consider the case when the affix सन् is treated as a कित्। This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।।
= बुध् बुधिस । By 6-1-9 सन्यङोः।
= बु बुधिस । By 7-4-60 हलादिः शेषः।
= बुबुधिष । By 8-3-59 आदेशप्रत्यययोः।
“बुबुधिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now let us consider the case when the affix सन् is not treated as a कित्।
= बोध् + इस । By 7-3-86 पुगन्तलघूपधस्य च।
= बोध् बोधिस । By 6-1-9 सन्यङोः।
= बो बोधिस । By 7-4-60 हलादिः शेषः।
= बु बोधिस । By 7-4-59 ह्रस्वः, 1-1-48 एच इग्घ्रस्वादेशे।
= बुबोधिष । By 8-3-59 आदेशप्रत्यययोः।
“बुबोधिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
The rest of the derivation is similar to that shown in the example.
3. Which सूत्रम् is used for the सम्प्रसारणम् in the form पृच्छति? Which one is used in the form उच्यताम्?
Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च is used for the सम्प्रसारणम् in the form पृच्छति derived from √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
= प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= प्रच्छ् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= प्रच्छ् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= प्रच्छ् + श + ति । By 3-1-77 तुदादिभ्यः शः।
= प्रच्छ् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= प् र् अच्छ् + अ + ति = प् ऋ अच्छ् + अ + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
= पृच्छति । By 6-1-108 सम्प्रसारणाच्च।
The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति is used for the सम्प्रसारणम् in the form उच्यताम् derived from √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).
The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
वच् + लोँट् । By 3-3-162 लोट् च।
= वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्म्मणोः।
= वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= वच् + ताम् । By 3-4-90 आमेतः।
= वच् + यक् + ताम् । By 3-1-67 सार्वधातुके यक्।
= वच् + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= व् अ च् + य + ताम् = उ अ च् + य + ताम् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
= उच्यताम् । By 6-1-108 सम्प्रसारणाच्च।
4. How would you say this in Sanskrit?
“I want to wake up before sunrise.” Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्गः “प्र” for “to wake up.”
Answer: सूर्योदयात् पूर्वम् प्रबुभुत्से/प्रबुबुधिषामि/प्रबुबोधिषामि = सूर्योदयात् पूर्वं प्रबुभुत्से/प्रबुबुधिषामि/प्रबुबोधिषामि।
5. Consider the following verse of the गीता –
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 1-35 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of हन्तुमिच्छामि?
Answer: The equivalent सन्नन्त-प्रयोगः in place of हन्तुमिच्छामि would be जिघांसामि।
The सन्नन्त-धातुः “जिघांस” is derived from √हन् (हनँ हिंसागत्योः २. २). The derivation is as follows:
हन् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= हन् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= हान् + स । By 6-4-16 अज्झनगमां सनि।
= हान्स् हान्स । By 6-1-9 सन्यङोः।
= झान्स् हान्स । By 7-4-62 कुहोश्चुः।
= झा हान्स । By 7-4-60 हलादिः शेषः।
= झ हान्स । By 7-4-59 ह्रस्वः।
= झि हान्स । By 7-4-79 सन्यतः।
= झि घान्स । By 7-3-55 अभ्यासाच्च – The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।
= झि घांस । By 8-3-24 नश्चापदान्तस्य झलि।
= जिघांस । By 8-4-54 अभ्यासे चर्च।
“जिघांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
जिघांस + लँट् । By 3-2-123 वर्तमाने लट्।
= जिघांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जिघांस + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= जिघांस + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जिघांस + शप् + मि । By 3-1-68 कर्तरि शप्।
= जिघांस + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= जिघांस + मि । By 6-1-97 अतो गुणे।
= जिघांसामि । By 7-3-101 अतो दीर्घो यञि ।
6. Consider the following verse of the गीता –
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 18-60 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of कर्तुमिच्छसि?
Answer: The equivalent सन्नन्त-प्रयोगः in place of कर्तुमिच्छसि would be चिकीर्षसे/चिकीर्षसि ।
The सन्नन्त-धातुः “चिकीर्ष” is derived from √कृ (डुकृञ् करणे ८. १०).
कृ + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= कृ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= कॄ + स । By 6-4-16 अज्झनगमां सनि।
Note: The affix “स” is a कित् here by 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
= किर् + स । By 7-1-100 ॠत इद्धातोः।
= किर् स् किर् स । By 6-1-9 सन्यङोः।
= चिर् स् किर् स । By 7-4-62 कुहोश्चुः।
= चि किर् स । By 7-4-60 हलादिः शेषः।
= चि कीर् स । By 8-2-77 हलि च।
= चिकीर्ष । By 8-3-59 आदेशप्रत्यययो:।
“चिकीर्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
चिकीर्ष + लँट् । By 3-2-123 वर्तमाने लट्।
= चिकीर्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चिकीर्ष + थास्/सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले/1-3-78 शेषात् कर्तरि परस्मैपदम्।
= चिकीर्ष + थास्/सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “थास्” from getting the इत्-सञ्ज्ञा।
= चिकीर्ष + से/सि । By 3-4-80 थासस्से।
= चिकीर्ष + शप् + से/सि । By 3-1-68 कर्तरि शप्।
= चिकीर्ष + अ + से/सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= चिकीर्षसे/चिकीर्षसि । By 6-1-97 अतो गुणे।
Easy Questions:
1. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?
Answer: The सूत्रम् 7-1-3 झोऽन्तः has been used in the form वसन्ति derived from √वस् (वसँ निवासे १. ११६०).
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
वस् + लँट् । By 3-2-123 वर्तमाने लट्।
= वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= वस् + शप् + झि । By 3-1-68 कर्तरि शप्।
= वस् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= वस् + अ + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
= वसन्ति । By 6-1-97 अतो गुणे।
2. What is the विवक्षा in the form अर्हथ?
i) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, द्विवचनम्
ii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, द्विवचनम्
iii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, बहुवचनम्
iv) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्
Answer: The विवक्षा in the form अर्हथ is लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
The form अर्हथ is derived from अर्ह् (अर्हँ पूजायाम् १. ८४१).
अर्ह् + लँट् । By 3-2-123 वर्तमाने लट्।
= अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अर्ह् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अर्ह् + शप् + थ । By 3-1-68 कर्तरि शप्।
= अर्हथ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।