Home » Articles posted by rparimi

Author Archives: rparimi

कुरूणाम् mGp

Today we will look at the form कुरूणाम् mGp from किरातार्जुनीयम् 1.1.

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ 1.1 ॥

मल्लिनाथ-टीका
श्रिय इति । आदितः श्रीशब्दप्रयोगाद् वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम् – ‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥’ इति । कुरूणां निवासा: कुरवो जनपदाः । ‘तस्य निवासः’ इत्यण्प्रत्ययः । ‘जनपदे लुप्’ । तेषामधिपस्य दुर्योधनस्य सम्बन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्सम्पद इति भावः । ‘करणाधिकरणयोश्च’ इति करणे ल्युट् । ‘टिड्ढाणञ्-‘ इत्यादिना ङीप् । प्रजासु जनेषु विषये । ‘प्रजा स्यात्संततौ जने’ इत्यमरः । वृत्तिं व्यवहारं वेदितुम् ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी । तदुक्तम् ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥’ एतदष्टविधमैथुनाभावः प्रशस्तिः । ‘वर्णाद् ब्रह्मचारिणि’ इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः । ‘भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः’ इत्यमरः । ‘चरेष्टः’ इति टप्रत्ययः । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः। परवृत्तान्तज्ञानवानित्यर्थः । ‘अर्श आदिभ्योऽच्’ इत्यच्प्रत्ययः । अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते । उभयत्रापि ‘पीता गावः’, ‘भुक्ता ब्राह्मणाः’, ‘विभक्ता भ्रातरः’ इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः, सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकारः ‘अकारो मत्वर्थीयः । विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः’ इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयटः – ‘गम्यार्थस्याप्रयोग एव लोपोऽभिमतः’ । ‘विभक्ता भ्रातरः’ इत्यत्र च धनस्य यद्विभक्तत्वं तद् भ्रातृषूपचरितम् । ‘पीतोदका गावः’ इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते’ इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन ‘वनाय पीतप्रतिबद्धवत्साम्’, ‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु’ एवमादयो व्यख्याताः । अथवा विदितः विदितवान् । सकर्मादप्यविवक्षिते कर्मणि कर्तरि क्तः । यथा ‘आशितः कर्ता’ इत्यादौ । यथाहुः -‘धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥’ इति । द्वैतवने द्वैताख्यवने । यद्वा द्वे इते गते यस्मात्तद् द्वीतम् । द्वीतमेव द्वैतं । तच्च तद्वनं च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । ‘हलदन्तात्सप्तम्याः संज्ञायाम्’ इत्यलुक् । ‘गवियुधिभ्यां स्थिरः’ इति षत्वम् । समाययौ सम्प्राप्तः । अत्र ‘वने वनेचरः’ इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालङ्कारः । अस्मिन् सर्गे वंशस्थवृत्तम् । तल्लक्षणम् – ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति ।

Translation – The forester, whom Yudhiṣṭhira had appointed to know (ascertain) the behavior of the lord of the Kingdom of Kurus, towards his subjects, on which depended the stability of (or, the safeguard of) his royalty, came, in the disguise of a religious student, to him (Yudhiṣṭhira who was) in the Dvaita forrest, after having gathered the (desired) information.

कुरूणां निवासो जनपदः = कुरवः – a kingdom which is the place of residence of (kṣatriyas named) Kuru

In the verses the विवक्षा is षष्ठी-बहुवचनम् । Hence the form is कुरूणाम्।

(1) कुरु आम् + अण् । By 4-2-69 तस्य निवासः – To denote the proper name of a place of residence, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the sixth case affix and has a base that denotes the residents.

Note: ‘कुरु आम् + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) कुरु + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Since a kingdom is to be denoted, the सूत्रम् 4-2-81 जनपदे लुप् applies in the next step.

(3) कुरु । By 4-2-81 जनपदे लुप् – A चातुरर्थिकः affix takes the लुप् elision when a kingdom is to be denoted (by the derived form).
Note: The affixes prescribed by the four rules starting from 4-2-67 तदस्मिन्नस्तीति देशे तन्नाम्नि through 4-2-70 अदूरभवश्च are called चातुरर्थिकाः affixes.

As per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने – When an affix takes the लुप् elision, then the gender and number of the derived form follows that of the base.

Therefore, the derived प्रातिपदिकम् ‘कुरु’ is declined in the masculine plural, complying with the gender and number of the base ‘कुरु + आम्’। Hence the form is कुरवः।

मीमांसकाः mNp

Today we will look at the form मीमांसकाः mNp from सुभाषितरत्नभाण्डागारम्।

मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥

Translation – A few Mīmāṃsakas are assembled here. Even though they have made the authority of the Vedas as their means, they are not worthy of respect because the Supreme Being, Brahma itself – Who remains after everything else – has not been realized by them, even though He has been proclaimed by the Upaniṣads.

The प्रातिपदिकम् ‘मीमांसक’ used in the verse is derived as follows –
मीमांसामधीते वेद वा = मीमांसकः – a person who studies or knows Mīmāṃsā (a system of philosophy)
In the verse, the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is मीमांसकाः।

(1) मीमांसा अम् + वुन् । By 4-2-61 क्रमादिभ्यो वुन् – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘वुन्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has as its base ‘क्रम’ etc (listed in the क्रमादि-गण:) which denotes that (subject matter).
Note: The affix ‘वुन्’ prescribed by the सूत्रम् 4-2-61 is a अपवादः to the affix ‘अण्’ prescribed by 4-2-59 तदधीते तद्वेद।

(2) मीमांसा अम् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

Note: ‘मीमांसा अम् + वु’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) मीमांसा + वु । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) मीमांसा + अक । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘वु’ is replaced by ‘अक’।

Note: The अङ्गम् ‘मीमांसा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) मीमांस् + अक । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= मीमांसक । Note: The प्रातिपदिकम् ‘मीमांसक’ declines like राम-शब्दः।

वैयाकरणकिराताद् m-Ab-s

Today we will look at the form वैयाकरणकिराताद् m-Ab-s from सुभाषितरत्नभाण्डागारम्।

वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति संत्रस्ताः ।
ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥

Translation – Terrified by the hunter in the form of a grammarian, where would the deer in the form of corrupted words go if there were no caves in the form of the mouths of astrologers, actors, paramours, singers and physicians.

Note: The gist of the verse is that astrologers, actors, etc., keep using corrupted words, in spite of the grammarians pointing them out.

The प्रातिपदिकम् ‘वैयाकरण’ used in the compound form वैयाकरणकिराताद् is derived as follows –
व्याकरणमधीते वेद वा = वैयाकरणः – a person who studies or knows grammar

(1) व्याकरण अम् + अण् । By 4-2-59 तदधीते तद्वेद – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘अण्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has a base which denotes that (subject matter).

(2) व्याकरण अम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

‘व्याकरण अम् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) व्याकरण + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to come for application to perform the वृद्धिः substitution in place of the letter ’आ’, which is the first vowel of the अङ्गम् ‘व्याकरण’। Even though the vowel ‘आ’ is already a वृद्धिः letter, the सूत्रम् 7-2-117 तद्धितेष्वचामादेः still comes for application as per the न्यायः ‘पर्जन्यवल्लक्षणप्रवृत्तिः’ – Just as rain falls equally on land as well as sea, similarly a rule is applied whether or not there is a net effect.
Since the letter ‘य्’ (which has come in place of the letter ‘इ’ as per the सूत्रम् 6-1-77 इको यणचि) in the अङ्गम् ‘व्याकरण’ (= ‘वि + आ + करण’) is at the end of a पदम्, the सूत्रम् 7-3-3 stops 7-2-117 here. And simultaneously, the augment ‘ऐ’ attaches prior to the letter ‘य्’।

(4) वै याकरण + अ । By 7-3-3 न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् – A vowel that follows the letter ‘य्’ / ‘व्’ situated at the end of a पदम् does not take the वृद्धिः substitution (which would have been prescribed by 7-2-117 तद्धितेष्वचामादेः, 7-2-118 किति च), instead the augment ऐच् (letter ‘ऐ’ or ‘औ’) attaches prior to such a letter (‘य्’ or ‘व्’)।
Note: As per the परिभाषा-सूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम् the augment ‘ऐ’ attaches prior to the letter ‘य्’ and the augment ‘औ’ attaches prior to the letter ‘व्’, as the case may be.

Note: The अङ्गम् ‘वैयाकरण’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) वैयाकरण् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= वैयाकरण ।

The compound ‘वैयाकरणकिरात’ is a कर्मधारयः compound which may be explained as a शाकपार्थिवादिसमासः as follows –
वैयाकरणरूपः किरातः = वैयाकरणकिरातः – a hunter in the form of a grammarian

धैनुकपालने nLs

Today we will look at the form धैनुकपालने nLs from नारायणीयम् 53.5.

समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ∥ ५३-५ ∥

टीका
त्वम् अग्रजेन तं सुरौघयोद्धारम् अजीघतःत्वं श्रीकृष्णः प्रयोजकः । अग्रजेन ज्येष्ठेन बलभद्रेण प्रयोजनेन । तम् आपतन्तम् । सुरौघयोद्धारं धेनुकाख्यमसुरम् । अत्र सुरौघयोद्धारमित्युक्त्या देवानामपि दुर्जयत्वं तस्य ध्वन्यते । अजीघतः घातितवानसि । बलभद्रेण धेनुकासुरघातने हेतुमुत्प्रेक्षते – इति मत्वा इति । इति एवम् । मत्वा निश्चित्य । इवेति संभावनायाम् । मननप्रकारमाह – अहम् अद्य धैनुकं वधं कथं कुर्वे ध्रुवमिति । अद्य अधुना । धैनुकं धेनुकासुरसम्बन्धिनम् । वधं निग्रहम् । कथं कुर्वे न करोमीत्यर्थः । ध्रुवं निश्चितम् । ननु का क्षतिः धेनुकवधे इत्याशङ्कायामाह – धैनुकपालने समुद्यत इति । धैनुकपालने धैनुकस्य धेनुसमूहस्य पालने रक्षणे । समुद्यतः सम्यगुद्यतः उद्युक्तः । धैनुकपालनोद्युक्तस्य सतो धैनुकवधस्यायुक्तत्वादिति भावः । अत्र धेनुसमूहधेनुकासुरसम्बधिनोः श्लेषभित्तिकाभेदाध्यवसायः ।

Translation – “How can I can perform the killing of Dhenuka now, engaged as I am in the protection of the herd of cows.” As though having thought thus, you certainly had that demon Dhenuka, who battled with hordes of Gods, killed by your elder brother.

Note: There is a pun on the word ‘धैनुक’, which means ‘a herd of cows’, as well as ‘of Dhenuka (the demon)’.

The प्रातिपदिकम् ‘धैनुक’ used in the form धैनुकपालने is derived as follows –
धेनूनां समूहः = धैनुकम् – a herd of cows

(1) धेनु आम् + ठक् । By 4-2-47 अचित्तहस्तिधेनोष्ठक् – To denote a collection/group, the तद्धित: affix ‘ठक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a genitive case affix and has as its base a term denoting an inanimate object, or the term ‘हस्तिन्’ or धेनु

(2) धेनु आम् + ठ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The letter ‘अ’ in the affix ‘ठक्’ is is only for the sake of pronunciation (उच्चारणार्थ:)।
Note: The fact that 7-3-50 ठस्येकः and 7-3-51 इसुसुक्तान्तात्कः (used in step 4) specifically prescribe the substitutions ‘इक’ and ‘क’ respectively in place of the letter ‘ठ्’ occurring in the beginning of an affix, obviously implies that this letter ‘ठ्’ does not get the इत्-सञ्ज्ञा by 1-3-7 चुटू‌। Because, otherwise the letter ‘ठ्’ would be elided by 1-3-9 तस्य लोपः।

Note: ‘धेनु आम् + ठ्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) धेनु + ठ् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) धेनु + क । By 7-3-51 इसुसुक्तान्तात्कः – ‘क’ is substituted in place of the letter ‘ठ्’, when it follows a अङ्गम् ending in ‘इस्’ or ‘उस्’ or a letter of the उक्-प्रत्याहारः or the letter ‘त्’।

Note: The affix ‘ठक्’ is a कित् (has the letter ‘क्’ as इत्)। This allows 7-2-118 किति च to apply in the next step.

(5) धैनु + क । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

= धैनुक । Note: Words ending in तद्धिताः affixes denoting a collection are used in the language in the neuter gender. Hence the प्रातिपदिकम् ‘धैनुक’ declines like वन-शब्दः।

Note: ‘धैनुकपालन’ is a षष्ठी-तत्पुरुष-समासः explained as –
धैनुकस्य पालनम् = धैनुकपालनम् – protection of a herd of cows.

अलौकिक-विग्रह: –
(6) धैनुक ङस् + पालन सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘धैनुक ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘धैनुक ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘धैनुक ङस् + पालन सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(7) धैनुक + पालन । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= धैनुकपालन ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘धैनुकपालन’ is neuter since the latter member ‘पालन’ of the compound is neuter. The compound declines like वन-शब्द:। सप्तमी-एकवचनम् is धैनुकपालने।

हास्तिकानि

Today we will look at the form हास्तिकानि nNp from शिशुपालवधम् 5.30.

आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षाम्बभूवुरभितो वपुरम्बुवर्षैः ।
खेदायतश्वसितवेगनिरस्तमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ∥ ५-३० ∥

मल्लिनाथ-टीका
आलोलेति । हस्तिनां समूहा हास्तिकानि । ‘अचित्तहस्तिधेनोष्ठक्’ । आलोलानि यानि पुष्कराणि हस्ताग्राणि । ‘पुष्करं करिहस्ताग्रे’ इत्यमरः । तेषां मुखै रन्ध्रैरुल्लसितान्युत्क्षिप्तानि तैरम्बुवर्षैः खेदेनाध्वश्रमेणायतेन द्राघीयसा श्वसितस्योच्छ्वासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दरा मूर्धन्या मूर्धनि भवाः । ‘शरीरावयवयाच्च’ इति यत्प्रत्ययः । ‘ये चाभावकर्मणोः’ इति प्रकृतिभावात् ‘नस्तद्धिते’ इति टिलोपाभावः । रत्ननिकरा मुक्ताफलप्रकरास्तैरिवेत्युत्प्रेक्षा । वपुरभीक्ष्णमुक्षांबभूवुः सिषिचुः। ‘उक्ष सेचने’ ‘इजादेश्च गुरुमतोऽनृच्छः’ इत्याम्प्रत्ययः । ‘गजेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ∥’ इति गजानां मुक्ताकरत्वे प्रमाणम् ∥ ३० ∥

Translation – The herds of elephants repeatedly sprinkled (their) body with showers of water that were tossed up by the snouts at the tips of (their) swinging trunks, as though with heaps of beautiful pearls on their foreheads that were thrown out by the force of long drawn exhalation resulting from exhaustion.

हस्तिनां समूहः = हास्तिकम् – a herd of elephants
In the verses the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is हास्तिकानि।

(1) हस्तिन् आम् + ठक् । By 4-2-47 अचित्तहस्तिधेनोष्ठक् – To denote a collection/group, the तद्धित: affix ‘ठक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a genitive case affix and has as its base a term denoting an inanimate object, or the term हस्तिन् or ‘धेनु’।

(2) हस्तिन् आम् + ठ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः । The letter ‘अ’ in the affix ‘ठक्’ is is only for the sake of pronunciation (उच्चारणार्थ:)।
Note: The fact that the सूत्रम् 7-3-50 ठस्येकः (used in step 4) specifically prescribes the substitution ‘इक’ in place of the letter ‘ठ्’ occurring in the beginning of an affix, obviously implies that this letter ‘ठ्’ does not get the इत्-सञ्ज्ञा by 1-3-7 चुटू‌। Because, otherwise the letter ‘ठ्’ would be elided by 1-3-9 तस्य लोपः।
Note: ‘हस्तिन् आम् + ठ्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) हस्तिन् + ठ् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) हस्तिन् + इक । By 7-3-50 ठस्येकः – ‘इक’ is substituted in place of the letter ‘ठ्’, when it follows a अङ्गम्।

Note: The affix ‘ठक्’ is a कित् (has the letter ‘क्’ as इत्)। This allows 7-2-118 किति च to apply in the next step.

(5) हास्तिन् + इक । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a कित् (has the letter ‘क्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘हास्तिन्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-144 नस्तद्धिते to apply in the next step.

(6) हास्त् + इक । By 6-4-144 नस्तद्धिते – The ‘टि’ portion (ref. 1-1-64 अचोऽन्त्यादि टि) of a अङ्गम् (base) is elided provided the अङ्गम् –
i) has the designation ‘भ’ (ref. 1-4-18 यचि भम्)
ii) ends in the letter ‘न्’ and
iii) is followed by a तद्धित: affix
Note: The ‘इन्’ part of the अङ्गम् ‘हास्तिन्’ has the designation ‘टि’ by the सूत्रम् 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

= हास्तिक । Note: Words ending in तद्धिताः affixes denoting a collection are used in the language in the neuter gender. Hence the प्रातिपदिकम् ‘हास्तिक’ declines like वन-शब्दः।

गतः mNs

Today we will look at the form गतः mNs from श्रीमद्भागवतम् 7.5.5.

एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ।। ७-५-४ ।।
श्रीप्रह्लाद उवाच
तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ।। ७-५-५ ।।

श्रीधर-स्वामि-टीका
हे असुरवर्य, असद्ग्रहादहंममेति मिथाभिनिवेशाद्धेतोः सम्यगुद्विग्ना विषण्णा धीर्येषां ते । वनं गतः सन्हरिमाश्रयेतेति यत्तदेवाहं साधु मन्ये । कथंभूतं गृहम्आत्मपातमात्मनोऽधःपातनिमित्तम् । कुतः । अन्धकूपवन्मोहावहम् ।। ५ ।।

Gita Press translation – Placing his son (Prahrāda) on his lap, one day, Hiraṇyakaśipu (the ruler of the Asuras,) O Yudhiṣṭhira (son of Pāṇḍu,) addressed him :- “Tell me, my child, what you regard as good (for you.)” (4) Prahrāda replied : For (all) embodied souls whose mind is ever disturbed with the false ideas of ‘I’ and ‘mine’, I hold this to be good, O chief of demons, that having abandoned one’s home, which degrades one’s soul, and is just like well whose mouth is hidden, one should go to the woods and take refuge in Śrī Hari.

“गत” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) .

(1) गम् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) गम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix “क्त” is a कित्। This allows 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति to apply in the next step. Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) ग + त । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।

Note: * सिद्धान्त-कौमुदी – “यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।” The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

“गत” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) गत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) गत + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) गतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix ‘क्त’ been used in the very first verse of the गीता?

2. How would you say this in Sanskrit?
“Śrī Rama went to the forest.” Use the affix ‘क्त’ कर्तरि (in the in the sense of the agent.)

3. Translate the same sentence (given in #2) – this time use the affix ‘क्त’ कर्मणि (in the sense of the object.) Paraphrase the sentence to “The forest was gone to by Śrī Rama.”

4. Translate the same sentence (given in #2) – this time use the affix ‘क्तवतुँ’।

5. Translate the same sentence (given in #2) – this time use लिँट्।

6. Translate the same sentence (given in #2) – this time use लँट् with ‘स्म’ (ref. 3-2-118 लट् स्मे)।

Easy questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Can you spot the affix ‘श्यन्’ in the verses?

अब्जम् nAs

Today we will look at the form अब्जम् nAs from श्रीमद्भागवतम् 10.23.22.

यमुनोपवनेऽशोकनवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ।। १०-२३-२१ ।।
श्यामं हिरण्यपरिधिं वनमाल्यबर्हधातुप्रवालनटवेषमनुव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ।। १०-२३-२२ ।।

श्रीधर-स्वामि-टीका
तथागताः सत्यो ददृशुः ।। २१ ।। हिरण्यवत्परिधिः परिधानं यस्य तं पीताम्बरमित्यर्थः । वनमाल्यैर्बर्हैर्धातुभिः प्रवालैश्च नटवद्वेषो यस्य तम् । अनुव्रतस्य सख्युरंसे विन्यस्तो निहितो हस्तो येन तम् । इतरेण हस्तेन लीलयाऽब्जं धुनानं भ्रामयन्तम् । कर्णयोरुत्पले यस्य, अलकाः कपोलयोर्यस्य मुखाब्जे हासो यस्य तं च तं च तं च ।। २२ ।।

Gita Press translation – The ladies (presently) beheld Śrī Kṛṣṇa sauntering in a grove on the bank of the Yamunā – beautified by fresh leaves of Aśoka trees – surrounded by (other) cowherd boys and accompanied by His elder brother (21). Dark-brown of hue He had about his loins a golden piece of silk; adorned with a garland of sylvan flowers, peacock feathers and tender leaves and painted with minerals, He presented the appearance of an actor (on the stage); He rested one hand on the shoulder of a devoted companion and was swinging a lotus with the other; He wore a pair of water-lilies on His ears and a smile on His lotus-face, His curly locks hanging on His cheeks (22).


अप्सु जातमिति अब्जम् ।

“ज” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

The (compound) प्रातिपदिकम् “अब्ज” is derived as follows:

(1) अप् + सुप् + जन् + ड । By the 3-2-97 सप्तम्यां जनेर्डः – When in composition with a पदम् which ends in the seventh (locative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix “ड” provided the verbal root is used to denote an action in the past tense.
Note: In the सूत्रम् 3-2-97, the term सप्तम्याम् ends in the seventh (locative) case. Hence “अप् + सुप्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) अप् + सुप् + जन् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) अप् + सुप् + ज् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

= अप् + सुप् + ज ।

Now we form a compound between “अप् + सुप्” (which is the उपपदम्) and “ज” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “अप् + सुप्”) invariably compounds with a syntactically related term (in this case “ज”) as long as the compound does not end in a तिङ् affix.

In the compound, “अप् + सुप्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “अप् + सुप्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“अप् + सुप् + ज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) अप् + ज । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। ‘अप्’ now has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-39 झलां जशोऽन्ते to apply in the next step.

(5) अब्ज । By 8-2-39 झलां जशोऽन्ते – When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(6) अब्ज + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) अब्ज + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(8) अब्जम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In which verse has the affix ‘ड’ been used with the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) for the last time in the गीता?

2. In which other प्रातिपदिकम् (used as part of a compound) in the verses has the सूत्रम् 3-2-97 सप्तम्यां जनेर्डः been used?

3. Can you spot an affix ‘क’ in the verses?

4. Which सूत्रम् is used for the ‘उस्’ substitution in the word ददृशुः?

5. Can you recall a गण-सूत्रम् (which we have studied) which specifically mentions the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४)?

6. How would you say this in Sanskrit?
“My elder brother has three sons.” Use a उपपद-समास: for ‘elder brother’ (अग्रे जात:) as well as for ‘son’ (आत्मनो जात:)।

Easy questions:

1. Which सूत्रम् is used for the ‘इयँङ्’ substitution in the word स्त्रियः?

2. Where has the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य been used in the commentary?

बालघातिनी fNs

Today we will look at the form बालघातिनी fNs from श्रीमद्भागवतम् 10.6.2

कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ।। १०-६-२ ।।
न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ।। १०-६-३ ।।

श्रीधर-स्वामि-टीका
कृष्णविषये शङ्कमानं राजानं प्रत्यविषये प्रवृत्ता सैव मरिष्यतीति सूचयन्नाह – न यत्रेति । यत्र श्रीकृष्णस्य श्रवणादीनि न सन्ति तत्रैव तासां शक्तिः, साक्षात्तस्मिन्नेव सति का शङ्केति भावः ।। ३ ।।

Gita Press translation – Despatched by Kaṁsa, the terrible demoness Pūtanā, who was given to (the practice of) killing infants, moved about in towns, villages, cowherdstations etc., killing infants (wherever she went) (2). Ogresses and others find their way only there where people, though devoted to their duties, do not practice the hearing etc., of the names and stories of Lord Viṣṇu (the Protector of devotees,) capable of exterminating the ogres (3).

बालान् हन्ति तच्छीला = बालघातिनी।

“घातिन्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

The (compound) प्रातिपदिकम् “बालघातिनी” is derived as follows:

(1) बाल + आम् + हन् + णिनिँ । By the 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix “णिनिँ” to express the meaning of a habitual/natural action.

Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence “बाल + आम्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) बाल + आम् + हन् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) बाल + आम् + घन् + इन् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।

(4) बाल + आम् + घत् + इन् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।

(5) बाल + आम् + घात् + इन् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is either ञित् or णित्।

We form a compound between “बाल आम्” (which is the उपपदम्) and “घातिन्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “बाल आम्”) invariably compounds with a syntactically related term (in this case “घातिन्”) as long as the compound does not end in a तिङ् affix.

In the compound, “बाल आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “बाल आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।

“बाल आम् + घातिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) बाल + घातिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= बालघातिन् ।

Now we form the feminine प्रातिपदिकम् “बालघातिनी”

(7) बालघातिन् + ङीप् । By 4-1-5 ऋन्नेभ्यो ङीप्‌ – The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender.

(8) बालघातिनी । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(9) बालघातिनी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) बालघातिनी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(11) बालघातिनी । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. In the गीता can you find a तिङन्तं पदम् in which the following three सूत्राणि have been used – 7-3-54 हो हन्तेर्ञ्णिन्नेषु (used in step 3), 7-3-32 हनस्तोऽचिण्णलोः (used in step 4) and 7-2-116 अत उपधायाः (used in step 5)?

2. In which word in the verses, would the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः find application?

3. Which सूत्रम् is used to justify the use of a परस्मैपदम् affix in the form मरिष्यति (used in the commentary)?

4. Where has the सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके been used in the verses?

5. Can you spot the affix तृच् in the verses?

6. How would you say this in Sanskrit?
“I hope that you are a vegetarian.” Paraphrase ‘vegetarian’ to ‘one who eats vegetables habitually’ (शाकानाहरति तच्छील:)। Use the अव्ययम् “कच्चित्” to express the meaning “I hope that.”

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. What is the पदच्छेद: of शिशूंश्चचार?

वार्मुचाम् mGp

Today we will look at the form वार्मुचाम् mGp from श्रीमद्भागवतम् 10.24.9

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ।। १०-२४-९ ।।
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ।। १०-२४-१० ।।

श्रीधर-स्वामि-टीका
ततः किमित्यत आह – तमिति । तमिन्द्रं वार्मुचां मेघानां पतिं स्वामिनमीश्वरं नियन्तारम् । तद्रेतसा तद्वृष्टिपयसा ।। ९ ।। उपजीवन्त्युपजीविकां कल्पयन्ति । धर्मार्थकामसिद्धये । ननु कृष्यादिभिर्जीवन्ति, किमिन्द्रेण तत्राह – पुंसामिति । फलभावनः फलसाधकः । पर्जन्यं विना कृष्यादिवैफल्यादित्यर्थः ।। १० ।।

Gita Press translation – We and other men, O darling, worship the aforesaid almighty ruler of the clouds through sacrificial performances conducted by means of substances produced with the water discharged by him, and subsist on the remains of such sacrifices for the attainment of the threefold reward in the shape of religious merit, enjoyment and worldly possessions. (In this way) it is Indra who yields the fruit (in the shape of a bumper crop) of men’s efforts (in the form of agriculture) (9-10).

वारि मुञ्चतीति वार्मुक् । Note: वारि is the द्वितीया-बहुवचनम् of the neuter प्रातिपदिकम् “वार्”।

“मुच्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The (compound) प्रातिपदिकम् “वार्मुच्” is derived as follows:

(1) वार् + आम् + मुच् + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “वार् + आम्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) वार् + आम् + मुच् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वार् + आम् + मुच् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

We form a compound between “वार् आम्” (which is the उपपदम्) and “मुच्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “वार् आम्”) invariably compounds with a syntactically related term (in this case “मुच्”) as long as the compound does not end in a तिङ् affix.

In the compound, “वार् आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “वार् आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“वार् आम् + मुच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) वार् + मुच् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वार्मुच् ।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(5) वार्मुच् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

= वार्मुचाम्

Questions:

1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last fifteen verses of Chapter Four of the गीता?

2. Which कृत्-प्रत्यय: is used to derive the प्रातिपदिकम् “साधक” (used in the commentary)?

3. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?

4. Can you spot the affix “तृच्” in the commentary?

5. How would you say this in Sanskrit?
“All the clouds were dispersed by the powerful wind.” Use a causative form of the verbal root √द्रु (द्रु गतौ १. १०९५) with the उपसर्ग: “वि” for “disperse.” Use the adjective प्रातिपदिकम् “प्रबल” for “powerful.”

6. How would you say this in Sanskrit?
“One who knows the Self knows everything.” Use a उपपद-समास: for “one who knows the Self” (आत्मानं वेत्ति) and for “one who knows everything” (सर्वं वेत्ति)।

Easy questions:

1. Where has the सूत्रम् 7-1-17 जसः शी been used in the verses?

2. In which two words in the verses has लँट् been used?

सुस्थिरंमन्यः mNs

Today we will look at the form सुस्थिरंमन्यः mNs from शिशुपालवधम् 2.32.

संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। २-३२ ।।

मल्लिनाथ-टीका
यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । “आत्ममाने खश्च” इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिर्दैवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनाद्दैवमपि जुगुप्सते, तत्प्रवृत्तेः परमर्द्धिप्राप्तिरिति भावः ।।

Translation – I feel that ‘For one who considers himself very stable with even a small amount of wealth, fate – having satisfied its object – does not increase that wealth of his.’

सुस्थिरमात्मानं मन्यते = सुस्थिरंमन्यः।

“मन्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मन् (मनँ ज्ञाने ४. ७३).

The (compound) प्रातिपदिकम् “सुस्थिरंमन्य” is derived as follows:

(1) सुस्थिर + ङस् + मन् + खश् । By the 3-2-83 आत्ममाने खश्च – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the the affix “खश्” – as well as the affix “णिनिँ” – provided the agent of the verbal root is also its object.

Note: In the सूत्रम् 3-2-83, the term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) ends in the seventh (locative) case. Hence “सुस्थिर + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) सुस्थिर + ङस् + मन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-69 दिवादिभ्यः श्यन् to apply in the next step.

(3) सुस्थिर + ङस् + मन् + श्यन् + अ । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(4) सुस्थिर + ङस् + मन् + य + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सुस्थिर + ङस् + मन् + य । By 6-1-97 अतो गुणे

We form a compound between “सुस्थिर ङस्” (which is the उपपदम्) and “मन्य” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “सुस्थिर ङस्”) invariably compounds with a syntactically related term (in this case “मन्य”) as long as the compound does not end in a तिङ् affix.

In the compound, “सुस्थिर ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “सुस्थिर ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“सुस्थिर ङस् + मन्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) सुस्थिर + मन्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(7) सुस्थिर मुँम् + मन्य । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्।
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “सुस्थिर”।

(8) सुस्थिरम् + मन्य । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) सुस्थिरंमन्य । By 8-3-23 मोऽनुस्वारः

(10) सुस्थिरम्मन्य/सुस्थिरंमन्य । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(11) सुस्थिरंमन्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) सुस्थिरंमन्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(13) सुस्थिरंमन्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् (used in step 7) been used for the first time in the गीता?

2. Where else (besides in सुस्थिरंमन्यः) has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the commentary?

3. Which सूत्रम् is used to prescribe the affix  ‘सन्’ in the form जुगुप्सते?

4. Can you spot an affix ‘क्यप्’ in the verses?

5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the first line of the commentary?

6. How would you say this in Sanskrit?
“I consider myself to be self-dependent.” Use the compound प्रातिपदिकम् “स्वस्थ” (used in the commentary) for “self-dependent.”

Easy questions:

1. Derive the form मन्ये from the verbal root √मन् (मनँ ज्ञाने ४. ७३). (Use 3-1-69 दिवादिभ्यः श्यन्)।

2. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

 

Recent Posts

October 2020
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics