Today we will look at the form विस्तरिष्यते 3Ps-लृँट् from श्रीमद्भागवतम् 5.24.27
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ।। ५-२४-२७ ।।
श्रीधर-स्वामि-टीका –
अथ शुकोक्तिः । नन्वेवंभूतश्चेद्बलिस्तर्हि तस्यैव चरितं विस्तरेण कथ्यतां तत्राह । तस्य बलेरनुचरितमुपरिष्टादष्टमे विस्तरिष्यते । यस्य द्वार्यवतिष्ठते निजजनेष्वनुकम्पितं कृतानुकम्पं हृदयं यस्य । द्वारपालकर्म दर्शयति । येन श्रीनारायणेन बलेर्द्वारि विशन्दशकन्धर उच्चाटितः । केन पदा । तत्राप्यङ्गुष्ठेनैव ।। ५-२४-२७ ।।
Gita Press translation “The narrative of Bali will be told at length later on (in Book Eight), at whose door stays, mace in hand, the divine Nārāyaṇa Himself, the adored of the whole universe – Nārāyaṇa, whose heart is full of compassion for His own devotees and by whom Rāvaṇa (the ten-headed monster) was thrown a hundred million Yojanas away with His toe (when he appeared there) in the course of his (expedition for the) conquest of the quarters.”
विस्तरिष्यते is a passive form that can be derived from the धातुः √स्तृ (स्तृञ् आच्छादने ५. ६) or √स्तॄ (स्तॄञ् आच्छादने ९. १७) .
The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।
(1) स्तृ/स्तॄ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) स्तृ/स्तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) स्तृ/स्तॄ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।
(4) स्तृ/स्तॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) स्तृ/स्तॄ + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(6) स्तृ/स्तॄ + इट् स्य + ते । In the case of √स्तृ, we apply 7-2-70 ऋद्धनोः स्ये – the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). Note: √स्तृ is अनुदात्तोपदेश:। So in the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात् would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः।
√स्तॄ on the other hand is not अनुदात्तोपदेश: and hence 7-2-10 cannot block 7-2-35. So we apply 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”।
As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।
(7) स्तृ/स्तॄ + इस्य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) स्तर् + इस्य + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
(9) स्तरिष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्तरिष्यते = विस्तरिष्यते ।
Questions:
1. In Chapter Four of the गीता can you spot a word in which a धातु: ending in a ॠकार: has been used with लृँट् (as in this example)?
2. What would be an alternate final form (other than स्तरिष्यते) in this example?
3. The form अवतिष्ठते used in the verse is derived from the धातु: √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with “अव” as the उपसर्ग:। In the धातु-पाठः, √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्था takes the परस्मैपद-प्रत्यया: by default. But in the form अवतिष्ठते we can see that आत्मनेपदम् has been used. Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which the आत्मनेपदम् in अवतिष्ठते can be justified?
4. In the commentary, can you spot a word wherein the “णिच्”-प्रत्यय: has taken लोप:?
5. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the word दर्शयति used in the commentary? (Which condition is not satisfied?)
6. How would you say this in Sanskrit?
“This topic will be described at length in the sixth chapter.” Use the neuter प्रातिपदिकम् “प्रकरण” for “topic”, the adjective प्रातिपदिकम् “षष्ठ” for “sixth” and the masculine प्रातिपदिकम् “अध्याय” for “chapter.”
Easy questions:
1. Where has 7-3-111 घेर्ङिति been used in the commentary?
2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (प्रातिपदिकम् “विशत्”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।
1. In Chapter Four of the गीता can you spot a word in which a धातु: ending in a ॠकार: has been used with लृँट् (as in this example)?
Answer: A धातु: ending in a ॠकार: is used with लृँट् in the form सन्तरिष्यसि in verse 36 of Chapter 4.
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ।। 4-36 ।।
सन्तरिष्यसि is derived from the धातुः √तॄ (तॄ प्लवनतरणयोः १. ११२४)।
The विवक्षा here is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
= तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तॄ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= तॄ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तॄ + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
= तॄ + इट् स्य + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= तॄ + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तर् + इस्य + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= तरिष्यसि । By 8-3-59 आदेशप्रत्यययो:।
“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + तरिष्यसि = संतरिष्यसि । By 8-3-23 मोऽनुस्वारः।
= संतरिष्यसि/ सन्तरिष्यसि । By 8-4-59 वा पदान्तस्य।
2. What would be an alternate final form (other than स्तरिष्यते) in this example?
Answer: The alternate final form (when derived from the धातुः √स्तॄ (स्तॄञ् आच्छादने ९. १७)) in this example would be विस्तरीष्यते। There is no alternate form when derived from the धातुः √स्तृ (स्तृञ् आच्छादने ५. ६)। This is due to the fact that elongation of the “इट्”-आगमः by 7-2-38 वॄतो वा is only for the the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।
स्तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
= स्तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्तॄ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= स्तॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= स्तॄ + स्य + ते । By 3-1-33 स्यतासी लृलुटोः।
= स्तॄ + इट् स्य + ते । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= स्तॄ + इ स्य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्तॄ + ई स्य + ते । By 7-2-38 वॄतो वा – As long as a लिँट् affix doesn’t follow, the augment इट् is optionally elongated when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।
= स्तर् + ईस्य + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= स्तरीष्यते । By 8-3-59 आदेशप्रत्यययो:।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्तरीष्यते = विस्तरीष्यते ।
3. The form अवतिष्ठते used in the verse is derived from the धातु: √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with “अव” as the उपसर्ग:। In the धातु-पाठः, √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्था takes the परस्मैपद-प्रत्यया: by default. But in the form अवतिष्ठते we can see that आत्मनेपदम् has been used. Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which the आत्मनेपदम् in अवतिष्ठते can be justified?
Answer: The सूत्रम् is 1-3-22 समवप्रविभ्यः स्थः – The verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), takes आत्मनेपद-प्रत्ययाः, when preceded by the उपसर्गः “सम्”, “अव”, “प्र” or “वि”। The अनुवृत्तिः of आत्मनेपदम् comes in to 1-3-22 from 1-3-12 अनुदात्तङित आत्मनेपदम्।
4. In the commentary, can you spot a word wherein the “णिच्”-प्रत्यय: has taken लोप:?
Answer: The ‘णिच्’ affix has taken लोप: in the form कथ्यताम् derived from the धातुः √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) # १०. ३८९).
The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कथ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= कथ् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the ‘णिच्’ affix would do a वृद्धि: substitution in place of the letter ‘अ’ of the अङ्गम् ‘कथ्’। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – letter ‘अ’) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the penultimate letter of the अङ्गम् is the letter ‘थ्’ and hence it cannot apply.
= कथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कथि । ‘कथि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
कथि + लोँट् । By 3-3-162 लोट् च।
= कथि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कथि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= कथि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= कथि + ताम् । By 3-4-90 आमेतः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘ताम्’ from getting the इत्-सञ्ज्ञा।
= कथि + यक् + ताम् । By 3-1-67 सार्वधातुके यक्। Note: The प्रत्यय: ‘यक्’ is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35.
= कथि + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कथ्यताम् । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुकम् affix which does not have the augment इट्।
5. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the word दर्शयति used in the commentary? (Which condition is not satisfied?)
Answer: The form दर्शयति is derived from the धातुः √दृश् (दृशिर् प्रेक्षणे #१. ११४३)।
The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
दृश् + णिच् । By 3-1-26 हेतुमति च।
= दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= दर्शि । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
“दर्शि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Note: By 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्।
In order for 6-1-58 सृजिदृशोर्झल्यमकिति to apply, √दृश् has to be followed by a अकित्-झलादि-प्रत्ययः। Here it is followed by the “णिच्”-प्रत्ययः, which is अकित् but not झलादिः (णिच् is अजादि-प्रत्ययः)। Therefore 6-1-58 does not apply.
दर्शि + लँट् । By 3-2-123 वर्तमाने लट्।
= दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दर्शि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= दर्शि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दर्शि + शप् + ति । By 3-1-68 कर्तरि शप्।
= दर्शि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= दर्शे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= दर्शयति । By 6-1-78 एचोऽयवायावः।
6. How would you say this in Sanskrit?
“This topic will be described at length in the sixth chapter.” Use the neuter प्रातिपदिकम् “प्रकरण” for “topic”, the adjective प्रातिपदिकम् “षष्ठ” for “sixth” and the masculine प्रातिपदिकम् “अध्याय” for “chapter.”
Answer: इदम् प्रकरणम् षष्ठे अध्याये विस्तरिष्यते/विस्तरीष्यते = इदं प्रकरणं षष्ठेऽध्याये विस्तरिष्यते/विस्तरीष्यते।
Easy questions:
1. Where has 7-3-111 घेर्ङिति been used in the commentary?
Answer: 7-3-111 घेर्ङिति has been used in the form बलेः (प्रातिपदिकम् “बलि”, षष्ठी-एकवचनम्)।
बलि + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “बलि” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
= बले + ङस् । By 7-3-111 घेर्ङिति – When a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place for the ending letter (in this case “इ”) of the अङ्गम् “बलि”।
= बल् ए + अ स् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= बलेस् । By 6-1-110 ङसिँङसोश्च।
= बलेः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (प्रातिपदिकम् “विशत्”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।
Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the “नुँम्”-आगम: in the form विशन्।
विशत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= विशत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= विश नुँम् त् + स्। By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel in the अङ्गम् “विशत्”।
= विशन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= विशन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
= विशन् । By 8-2-23 संयोगान्तस्य लोपः।
Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।