Home » Example for the day » करिष्यति 3As-लृँट्

करिष्यति 3As-लृँट्

Today we will look at the form करिष्यति 3As-लृँट् from श्रीमद्भागवतम् 12.1.36.

मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्यपरो वर्णान्पुलिन्दयदुमद्रकान् ।। १२-१-३६ ।।
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान्क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।
अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ।। १२-१-३७ ।।

श्रीधर-स्वामि-टीका
ततश्च मागधानां तु राजा विश्वस्फूर्जिर्नाभविता । स च पूर्वोक्तात् पुरञ्जयादपर: पुरञ्जय इति प्रसिद्ध: सन्वर्णान्ब्राह्मणादीन्पुलिन्दयदुमद्रकसञ्ज्ञान्म्लेच्छप्रायान्करिष्यति । अपरानिति पाठे अन्यान्पुलिन्दादीन्सञ्ज्ञान्करिष्यतीत्यर्थ: ।। ३६ ।। किञ्चैवं कृत्वाऽब्रह्मभूयिष्ठा अत्रैवर्ण्यप्रचुरा: सती: प्रजा: स्थापयिष्यति पालयिष्यति । पद्मवत्यां पुरि वसन् अनुगङ्गां गङ्गाद्वारमारभ्य प्रयागपर्यन्तं गुप्तां पालितां मेदिनीं भोक्ष्यति ।। ३७ ।।

Gita Press translation “Among the rulers of Magadha there will be one Viśwasphūrji, (also) known as Purañjaya the second, who will convert the higher castes into Pulindas, Yadus and Madrakas (tribes that will be no better than Mlecchas.)(36) Being evil-minded and powerful, he will exterminate the Kṣatriya race and settle in the city of Padmāvatī (his capital) a population consisting mostly of caste-less people, ruling over the well-guarded tract of land extending along the banks of the Gaṅgā up to Prayāga (from Haridwāra.)”

करिष्यति is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) कृ + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः

(7) कृ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) कर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(9) करिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In Chapter Sixteen of the गीता, can you spot a आर्षप्रयोग: in which 7-2-70 ऋद्धनोः स्ये (used in step 6 of the example) has been used? (It is a आर्षप्रयोग: because आत्मनेपदम् has been irregularly used.)

2. Can you find a धातु: from the तुदादि-गण: which can also be used to derive the same form करिष्यति?

3. Which सूत्रम् is used for the “पुक्”-आगम: in the form स्थापयिष्यति?

4. The form भोक्ष्यति used in the verses is derived from the धातुः √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७). Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √भुज्?

5. Where has लुँट् been used in the verses?

6. How would you say this in Sanskrit?
“What will you do with this cow?”

Easy questions:

1. The form पुरि used in the verses is सप्तमी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “पुर्”। What would be the form in सप्तमी-बहुवचनम्?
i. पुरिषु
ii. पुस्सु
iii. पु:सु
iv. पूर्षु

2. Where has 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?


1 Comment

  1. Questions:
    1. In Chapter Sixteen of the गीता, can you spot a आर्षप्रयोग: in which 7-2-70 ऋद्धनोः स्ये (used in step 6 of the example) has been used? (It is a आर्षप्रयोग: because आत्मनेपदम् has been irregularly used.)
    Answer: A आर्षप्रयोग: in which 7-2-70 ऋद्धनोः स्ये has been used is the form हनिष्ये derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

    असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 16-14||

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    हन् + लृँट् । By 3-3-13 लृट् शेषे च ।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, a परस्मैपद-प्रत्यय: should be used here. But instead a आत्मनेपद-प्रत्यय: has been used irregularly.
    = हन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हन् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः।
    = हन् + इट् स्य + ए । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।
    = हन् + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हनिस्ये । By 6-1-97 अतो गुणे।
    = हनिष्ये। By 8-3-59 आदेशप्रत्यययो:।

    2. Can you find a धातु: from the तुदादि-गण: which can also be used to derive the same form करिष्यति?
    Answer: √कॄ (तुदादि-गणः, कॄ विक्षेपे (निक्षेपे), धातु-पाठः #६. १४५) from the तुदादि-गण: can also be used to derive the same form करिष्यति ।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    = कॄ + लृँट् । By 3-3-13 लृट् शेषे च।
    = कॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कॄ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कॄ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कॄ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
    = कॄ + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = कॄ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = करिष्यति । By 8-3-59 आदेशप्रत्यययो:।

    3. Which सूत्रम् is used for the “पुक्”-आगम: in the form स्थापयिष्यति?
    Answer: 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ is used for the “पुक्”-आगम: in the form स्थापयिष्यति which is a causative from derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७). The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
    The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।।
    स्था + णिच् । By 3-1-26 हेतुमति च।
    = स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम्
    = स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
    = स्थापि।
    “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्थापि + लृँट् । By 3-3-13 लृट् शेषे च।
    = स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
    = स्थापि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
    = स्थापि + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = स्थापि + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापे + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्थापय् + इस्य + ति । By 6-1-78 एचोऽयवायावः।
    = स्थापयिष्यति । By 8-3-59 आदेशप्रत्यययो:।

    4. The form भोक्ष्यति used in the verses is derived from the धातुः √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७). Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √भुज्?
    Answer: पाणिनि: specifically mentions √भुज् in the सूत्रम् 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. In the present verse, √भुज् has been used in the sense of protecting and hence परस्मैपदम् has been used.

    5. Where has लुँट् been used in the verses?
    Answer: लुँट् been used in the verses in the form भविता derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
    The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लुँट् । By 3-3-15 अनद्यतने लुट्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः।
    = भू + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भू + इट् तास् + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = भू + इतास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भो + इतास् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भवितास् + ति । By 6-1-78 एचोऽयवायावः।
    = भवितास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः।
    = भवितास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भविता । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

    6. How would you say this in Sanskrit?
    “What will you do with this cow?”
    Answer: अनया गवा/धेन्वा किम् करिष्यसि = अनया गवा/धेन्वा किं करिष्यसि ।

    Easy questions:
    1. The form पुरि used in the verses is सप्तमी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “पुर्”। What would be the form in सप्तमी-बहुवचनम्?
    i. पुरिषु
    ii. पुस्सु
    iii. पु:सु
    iv. पूर्षु
    Answer: iv. पूर्षु
    = पुर् + सुप् । By 4-1-2 स्वौजसमौट्…। Note: The प्रातिपदिकम् “पुर्” is derived from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४). As part of the derivation, the ending ॠकार: of “पॄ” takes the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Thus the ending रेफ: of the प्रातिपदिकम् “पुर्” belongs to a धातु:।
    = पुर् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The अङ्गम् “पुर्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = पूर् + सु । By 8-2-76 र्वोरुपधाया दीर्घ इकः – The penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:। Note: 8-3-15 खरवसानयोर्विसर्जनीयः does not apply here because of the नियम-सूत्रम् 8-3-16 रोः सुपि – When सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only “रुँ” gets विसर्गः as a replacement, not any other रेफ:।
    = पूर्षु । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

    2. Where has 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?
    Answer: 7-3-116 ङेराम्नद्याम्नीभ्यः has been used in the verses in the form पद्मवत्याम् – स्त्रीलिङ्ग-प्रातिपदिकम् “पद्मवती”, सप्तमी-एकवचनम्।
    पद्मवती + ङि । By 4-1-2 स्वौजसमौट्…। “पद्मवती” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = पद्मवती + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in a “नदी” term (ref. 1-4-3) or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute.
    = पद्मवती + आट् आम् । By 7-3-112 आण्नद्याः, 1-1-46 आद्यन्तौ टकितौ। Note: 7-3-112 आण्नद्याः applies here because as per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the affix “आम्” (which came in place of “ङि”) is ङित्।
    = पद्मवती + आम् । By 6-1-90 आटश्च।
    = पद्मवत्याम् । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics