Home » Example for the day » दिदृक्षूणाम् mGp

दिदृक्षूणाम् mGp

Today we will look at the form दिदृक्षूणाम् mGp from श्रीमद्भागवतम् Sb4.24.44.

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४-२४-४३ ॥
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४-२४-४४ ॥

श्रीधर-स्वामि-टीका
रुद्ररूपेण प्रणमति । मीढुषे रुद्राय । अहंकृतमहंकारस्तदात्मने । स च कर्तृकरणकर्मशक्तित्रयसमेतस्तस्मै । ब्रह्मत्वेन प्रणमति । चेतो ज्ञानमाकूतिः क्रिया तद्रूपाय । वाचो विविधा भूतिः सृष्टिर्यस्मात्तस्मै ॥ ४३ ॥ एवं नमस्कृत्य दर्शनं प्रार्थयते – दर्शनमिति नवभिः । भागवतैः सत्कृतं दर्शनं देहीत्यस्य विवरणं रूपमित्यादि प्रदर्शयेत्यन्तम् । स्वानां भक्तानां प्रियतमं रूपं प्रदर्शयेति नवमेनान्वयः । सर्वेषामिन्द्रियाणां ये गुणा विषयास्तेषामञ्जनं व्यञ्जकम् । सर्वेन्द्रियविषयविषयिरूपमित्यर्थः । सर्वेन्द्रियाणि स्वगुणैरनक्ति रञ्जयतीति वा ॥ ४४ ॥

Gita Press translation – Hail to You, who as Rudra (the god of destruction) preside over the ego and are endowed with the three potencies (in the form of doership, instrumentality and activity.) Obeisance to You, who (as Brahmā, the creator) are knowledge and activity personified, and from whom proceeds the vast wealth of speech (43). Pray, bless us – who are keen to behold You – with Your sight, which is held in such great esteem by Your devotees. Be pleased to reveal to us Your beautiful form, the most beloved of Your votaries, which delights all the senses by its (numerous) excellences (44).

“दिदृक्ष” is a सन्नन्त-धातुः derived from the verbal root √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) This “इर्” takes लोपः by 1-3-9 तस्य लोपः

(1) दृश् + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) दृश् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः
By 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।

(3) दृश्स् दृश्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) दर् श्स् दृश्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(5) द दृश्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(6) दि दृश्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(7) दि दृ ष् स । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(8) दि दृ क् स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(9) दिदृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“दिदृक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “दिदृक्षु” from the सन्नन्त-धातुः “दिदृक्ष”।

(10) दिदृक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(11) दिदृक्ष् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= दिदृक्षु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “दिदृक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “दिदृक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(12) दिदृक्षु + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

(13) दिदृक्षु + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: joins at the beginning of “आम्”।

(14) दिदृक्षु + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(15) दिदृक्षूनाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।

(16) दिदृक्षूणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Where has the सूत्रम् 1-2-10 हलन्ताच्च (used in step two) been used in Chapter Six of the गीता?

2. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step eight) the काशिका says सीति किम्? लेढि। Please Explain.

3. Can you spot an affix “श्नम्” in the commentary?

4. Where has the सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य been used in the commentary?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form मीढुषे (प्रातिपदिकम् “मीढ्वस्”, चतुर्थी-एकवचनम्।) Note: The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।)

6.How would you say this in Sanskrit?
“We want to see an end to (of) this war.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. How would you say this in Sanskrit?
“Whose book (is) this?”


1 Comment

  1. 1. Where has the सूत्रम् 1-2-10 हलन्ताच्च (used in step two) been used in Chapter Six of the गीता?
    Answer: The सूत्रम् 1-2-10 हलन्ताच्च has been used in the form आरुरुक्षोः (प्रातिपदिकम् “आरुरुक्षु”, पुँलिङ्गे षष्ठी-एकवचनम्।)
    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
    योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 6-3 ॥

    The सन्नन्त-धातुः “रुरुक्ष” is derived from the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५).
    रुह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = रुह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = रुह्स् रुह्स । By 6-1-9 सन्यङोः।
    = रु रुह्स । By 7-4-60 हलादिः शेषः।
    = रु रुढ्स । By 8-2-31 हो ढः।
    = रु रुक्स । । By 8-2-41 षढोः कः सि।
    = रुरुक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “रुरुक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “रुरुक्षु” from the सन्नन्त-धातुः “रुरुक्ष”।

    रुरुक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = रुरुक्ष् + उ । By 6-4-48 अतो लोपः।
    = रुरुक्षु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रुरुक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    “आरुरुक्षु” is a गति-समास: (ref: 2-2-18 कुगतिप्रादयः।) Note: We have not discussed 2-2-18 in the class yet.
    आङ् + रुरुक्षु = आरुरुक्षु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “आरुरुक्षु” also gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।
    आरुरुक्षु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आरुरुक्षु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = आरुरुक्षो + अस् । By 7-3-111 घेर्ङिति, 1-1-52 अलोऽन्त्यस्य।
    = आरुरुक्षोस् । By 6-1-110 ङसिङसोश्च।
    = आरुरुक्षोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step eight) the काशिका says सीति किम्? लेढि। Please Explain.
    Answer: The form लेढि is derived from the verbal root √लिह् (लिहँ आस्वादने २. ६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    लिह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लिह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लिह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = लिह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लिह् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = लिह् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = लेह् + ति । By 7-3-86 पुगन्तलघूपधस्य च।
    = लेढ् + ति । By 8-2-31 हो ढः।
    = लेढ् + धि । By 8-2-40 झषस्तथोर्धोऽधः।
    Note: As per the सूत्रम् 8-2-41 षढोः कः सि – A षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः। In this example the ढकारः of “लेढ्” is not replaced by a ककारः because we do not have a सकारः following instead we have a धकारः following. Therefore 8-2-41 does not apply here.
    = लेढ् + ढि । By 8-4-41 ष्टुना ष्टुः।
    = लेढि । By 8-3-13 ढो ढे लोपः – A ढकारः is elided if followed by a ढकारः। Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41. So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the त्रिपादी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.

    3. Can you spot an affix “श्नम्” in the commentary?
    Answer: An affix “श्नम्” can be seen in the form अनक्ति derived from अन्ज् (अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्तिमर्षणकान्तिगतिषु) ७. २१).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अन्ज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अन्ज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अन्ज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अन्ज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अ श्नम् न्ज् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (अकार:) of the अङ्गम् “अन्ज्”।
    This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌ ।
    = अन न्ज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अनज् + ति । By 6-4-23 श्नान्नलोपः।
    = अनग् + ति । By 8-2-30 चोः कुः।
    = अनक्ति । By 8-4-55 खरि च।

    4. Where has the सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य been used in the commentary?
    Answer: The सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य has been used in the form प्रणमति derived from नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६).
    The initial णकार: of “णमँ” is replaced by a नकार: by 6-1-65 णो नः।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नम् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = नम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नमति ।

    “प्र” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + नमति = प्रणमति । By 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य – The नकारः of the धातुः that is णोपदेशः (begins with a णकार: in the धातुपाठ:), gets णकारः as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

    5. Which सूत्रम् is used for the सम्प्रसारणम् in the form मीढुषे (प्रातिपदिकम् “मीढ्वस्”, चतुर्थी-एकवचनम्।) Note: The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।)
    Answer: The सूत्रम् 6-4-131 वसोः सम्प्रसारणम् is used for the सम्प्रसारणम् in the form मीढुषे।

    ‘मीढ्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्।
    मीढ्वस् + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = मीढ् व् अस् + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। The अङ्गम् “मीढ्वस्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = मीढ् उ अस् + ए । By 6-4-131 वसोः सम्प्रसारणम् – A अङ्गम् that ends in the वसुँ-प्रत्यय: and has the भ-सञ्ज्ञा takes सम्प्रसारणम्।
    = मीढुस् + ए । By 6-1-108 सम्प्रसारणाच्च।
    = मीढुषे । By 8-3-59 आदेशप्रत्यययोः।

    6.How would you say this in Sanskrit?
    “We want to see an end to (of) this war.”
    Answer: अस्य युद्धस्य अन्तम् दिदृक्षामहे = अस्य युद्धस्यान्तं दिदृक्षामहे।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?
    Answer: The प्रातिपदिकम् “अस्मद्” has been used in the form नः which is an alternate form for अस्माकम् (प्रातिपदिकम् “अस्मद्”, षष्ठी-बहुवचनम्।)

    As per 8-1-21 बहुवचनस्य वस्नसौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the two conditions mentioned below are satisfied:
    i) There is a पदम् (in this case दर्शनम्) in the same sentence preceding “युष्मद्”/”अस्मद्”।
    ii) “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।

    2. How would you say this in Sanskrit?
    “Whose book (is) this?”
    Answer: कस्य इदम् पुस्तकम् = कस्येदं पुस्तकम्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics