Home » Example for the day » सुषुप्सुः mNs

सुषुप्सुः mNs

Today we will look at the form सुषुप्सुः mNs from श्रीमद्भागवतम् 3.13.30.

स वज्रकूटाङ्गनिपातवेगविशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति ॥ ३-१३-२९ ॥
खुरैः क्षुरप्रैर्दरयंस्तदाऽऽप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३-१३-३० ॥

श्रीधर-स्वामि-टीका
तदानींतनसमुद्रध्वनिमुत्प्रेक्षते । स उदन्वान्समुद्र आर्त इव स्तनयन् शब्दं कुर्वन् भो यज्ञेश्वर, मा मां पाहि मामवेत्येवं चुक्रोश । आर्तसादृश्यमाह । उत्सृष्टाः प्रसारिता दीर्घा ऊर्मय एव भुजास्तैर्विशिष्टः । आर्तत्वे हेतुः – वज्रकूटो वज्रमयः पर्वतस्तद्वदङ्गं यद्भगवतस्तस्य निपातवेगेन विशीर्णा कुक्षिर्यस्य ॥ २९ ॥ तदा रसायां रसातले गां पृथ्वीं ददर्श । कः । त्रिपरुः त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य । यज्ञमूर्तिरित्यर्थः । किं कुर्वन् । क्षुरप्रा आयताग्राः शरास्तत्सदृशैः खुरैरपो दरयन् । कथम् । उत्पारपारं उत्पाराणां पारशून्यानामप्यपां पारमवसानं यथा भवति तथा विदारयन् । कथंभूतः । अग्रे प्रलयसमये तत्र तास्वप्सु सुषुप्सुः शिशयिषुः सन् जीवा धीयन्ते यस्यां सर्वजीवाधारभूतां यां स्वयमभ्यधत्त आभिमुख्येन दधार । जठरे धृतवानित्यर्थः । अनेन तदुद्धरणेऽनायासं द्योतयति ॥ ३० ॥

GitaPress translation – With its bowels torn open by the headlong plunge taken by His body, which resembled a mountain of adamant, the ocean thundered aloud and, tossing up its high waves like so many arms, cried as it were in distress: “Protect me, O Lord of sacrifices!” (29) Cleaving the waters with His hoofs, which were sharp as arrows, the Lord, who represents all the sacrifices in His person, then reached the other end of that fathomless ocean and discovered in the depths of it the terrestrial globe, which is the abode of all living beings, and which the Lord had absorbed into His body while about to retire at the end of the previous Kalpa (30).

The सन्नन्त-धातुः “सुषुप्स” is derived from √स्वप् (ञिष्वपँ शये २. ६३).

The beginning “ञि” as well as the ending अकार: of the धातु: “ञिष्वपँ” gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and 1-3-2 उपदेशेऽजनुनासिक इत् respectively. Both take लोप: by 1-3-9 तस्य लोपः। After अनुबन्ध-लोप:, only “ष्वप्” remains. The beginning षकार: is replaced by सकार: as per 6-1-64 धात्वादेः षः सः। So now we have “स्वप्”।

स्वप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= स्वप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९). Hence 6-1-15 वचिस्वपियजादीनां किति applies in the next step.

= स् उ अ प् + स । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।

= सुप् + स । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= सुप्स् सुप्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= सु सुप्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: In this case the सकारः (following the उकारः of the अभ्यासः) is a आदेशः which came in place of the षकारः of “ञिष्वपँ” by 6-1-64 धात्वादेः षः सः। Since it is a आदेशः, 8-3-59 applies in the next step.

= सुषुप्स । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सुषुप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “सुषुप्सु” from the सन्नन्त-धातुः “सुषुप्स”।

सुषुप्स + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= सुषुप्स् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= सुषुप्सु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सुषुप्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “सुषुप्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) सुषुप्सु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) सुषुप्सु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(3) सुषुप्सुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix सन् been used in the first five verses of the Chapter Six of the गीता?

2. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the तत्त्वबोधिनी says रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। Please explain.

3. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the काशिका says रुदविदमुषीणां ‘1-2-26 रलो व्युपधाद्धलादेः संश्च’ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। Please explain.

4. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

5. Why doesn’t the सूत्रम् 1-2-9 इको झल् apply in the form शिशयिषुः? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“Today the guests want to sleep (rest) in my house.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Where has the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः been used in the verses?

 


1 Comment

  1. 1. Where has the affix सन् been used in the first five verses of the Chapter Six of the गीता?
    Answer: The affix सन् has been used in the form आरुरुक्षोः (प्रातिपदिकम् “आरुरुक्षु”, पुँलिङ्गे षष्ठी-एकवचनम्।)
    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
    योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 6-3 ॥

    The सन्नन्त-धातुः “रुरुक्ष” is derived from the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५).
    रुह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = रुह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = रुह्स् रुह्स । By 6-1-9 सन्यङोः।
    = रु रुह्स । By 7-4-60 हलादिः शेषः।
    = रु रुढ्स । By 8-2-31 हो ढः।
    = रु रुक्स । By 8-2-41 षढोः कः सि।
    = रुरुक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “रुरुक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “रुरुक्षु” from the सन्नन्त-धातुः “रुरुक्ष”।

    रुरुक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = रुरुक्ष् + उ । By 6-4-48 अतो लोपः।
    = रुरुक्षु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रुरुक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    “आरुरुक्षु” is a गति-समास: (ref: 2-2-18 कुगतिप्रादयः।) Note: We have not discussed 2-2-18 in the class yet.
    आङ् + रुरुक्षु = आरुरुक्षु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “आरुरुक्षु” also gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।
    आरुरुक्षु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आरुरुक्षु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = आरुरुक्षो + अस् । By 7-3-111 घेर्ङिति, 1-1-52 अलोऽन्त्यस्य।
    = आरुरुक्षोस् । By 6-1-110 ङसिङसोश्च।
    = आरुरुक्षोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the तत्त्वबोधिनी says रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। Please explain.
    Answer: In the धातु-पाठः, the verbal root √विद् occurs in more than one गणः – विदँ ज्ञाने २. ५९, विदँ सत्तायाम् ४. ६७, विदॢँ लाभे ६. १६८, विदँ विचारणे ७. १३ and विदँ चेतनाख्याननिवासेषु १०. २३२.
    In the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च, the verbal root √विद् is mentioned alongside the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२) which belongs to the अदादि-गणः। From this association (साहचर्यात्) we can deduce that in this सूत्रम् 1-2-8, the verbal root √विद् refers only to विदँ ज्ञाने २. ५९ of the अदादि-गणः। This is what is explained by “रुदसाहचर्याद्वेत्तेरेव ग्रहणम्।”

    3. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the काशिका says रुदविदमुषीणां ‘1-2-26 रलो व्युपधाद्धलादेः संश्च’ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। Please explain.
    Answer: As per 1-2-26 रलो व्युपधाद्धलादेः संश्च – When used with the augment “इट्”, the affixes “क्त्वा” and “सन्” are optionally treated as “कित्” (having ककारः as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.
    Hence as per 1-1-26, when following the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ) or √मुष् (मुषँ स्तेये ९. ६६) the affixes “क्त्वा” and “सन्” would be optionally treated as कित्।
    But now by the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च when following the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ) or √मुष् (मुषँ स्तेये ९. ६६) , the affixes “क्त्वा” and “सन्” are always treated as कित्। The purpose of including these three verbal roots in 1-2-8 is to override the optionality prescribed by 1-2-26 and instead make the affixes “क्त्वा” and “सन्” invariably कित् when following one of these three verbal roots. This is what is explained by रुदविदमुषीणां ‘1-2-26 रलो व्युपधाद्धलादेः संश्च’ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्।

    4. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?
    Answer: The सू्त्रम् 8-2-38 दधस्तथोश्च has been used in the verse in the form अभ्यधत्त derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    धा + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = धा + शप् + त । By 3-1-68 कर्तरि शप्।
    = धा + त । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + त । By 6-1-10 श्लौ ।
    = ध + धा + त । By 7-4-59 ह्रस्वः।
    = ध + ध् + त । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: “त” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.
    = अट् धध् त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ धध् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The सूत्रम् 8-2-40 झषस्तथोर्धोऽधः does not apply here because of the exclusion “अधः”।
    = अ दध् त । By 8-4-54 अभ्यासे चर्च ।
    = अ धध् त । By 8-2-38 दधस्तथोश्च, a letter of the बश्-प्रत्याहारः of the reduplicated verbal root √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) ending in a letter of the झष्-प्रत्याहारः, is substituted by a letter of the भष्-प्रत्याहारः, when followed by an affix beginning with a तकारः, थकारः, सकारः or the term “ध्व”।
    = अधत्त । By 8-4-55 खरि च।

    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अधत्त = अभ्यधत्त । By 6-1-77 इको यणचि।

    5. Why doesn’t the सूत्रम् 1-2-9 इको झल् apply in the form शिशयिषुः? (Which condition is not satisfied?)
    Answer: The form शिशयिषुः is a desiderative form derived from the verbal root √शी (शीङ् स्वप्ने २. २६).

    The सन्नन्त-धातुः “शिशयिष” is derived as follows:
    शी + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = शी + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = शी + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: As per 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Here the verbal root √शी ends in a ईकारः which is a letter of the इक्-प्रत्याहारः, but the affix “इस” does not begin with a letter of the झल्-प्रत्याहारः। Therefore 1-2-9 does not apply here. Hence 1-1-5 क्क्ङिति च cannot prevent 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शे + इस । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शय् इस । By 6-1-78 एचोऽयवायावः।
    = शय् शयिस । By 6-1-9 सन्यङोः।
    = श शयिस । By 7-4-60 हलादिः शेषः।
    = शि शयिस । By By 7-4-79 सन्यतः।
    = शिशयिष । By 8-3-59 आदेशप्रत्यययो:।
    “शिशयिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “शिशयिषु” from the सन्नन्त-धातुः “शिशयिष”।

    शिशयिष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = शिशयिष् + उ । By 6-4-48 अतो लोपः।
    = शिशयिषु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “शिशयिषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “शिशयिषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    शिशयिषु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = शिशयिषु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = शिशयिषुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Today the guests want to sleep (rest) in my house.”
    Answer: अद्य अतिथयः मम/मे गृहे सुषुप्सन्ति/शिशयिषन्ते = अद्यातिथयो मम/मे गृहे सुषुप्सन्ति/शिशयिषन्ते।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?
    Answer: The प्रातिपदिकम् “अस्मद्” has been used in the form मा which is the alternate form for माम् (प्रातिपदिकम् “अस्मद्”, द्वितीया-एकवचनम्।)
    As per 8-1-23 त्वामौ द्वितीयायाः – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a singular affix of the second case, get “त्वा” and “मा” as replacements respectively when the two conditions mentioned below are satisfied:
    i) There is a पदम् (in this case पाहि) in the same sentence preceding “युष्मद्”/”अस्मद्”।
    ii) “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।

    Note: मा + इति = मेति । By 6-1-87 आद्गुणः।

    2. Where has the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः been used in the verses?
    Answer: The सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः been used in the verse in the सन्धि-कार्यम् between त्रिपरुः + रसायाम् = त्रिपरू रसायाम्।
    त्रिपरुस् रसायाम् ।
    = त्रिपरुरुँ रसायाम् । By 8-2-66 ससजुषो रुः।
    = त्रिपरुर् रसायाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = त्रिपरु रसायाम् । By 8-3-14 रो रि – The letter “र्” (referred to as रेफ:) is dropped when followed by the letter “र्”।
    = त्रिपरू रसायाम् । By 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः – When the letter “ढ्” or “र्” is dropped then the prior अण् letter gets elongated.

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics