Today we will look at the form अकारि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.27.15.
श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १०-२७-१५ ॥
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १०-२७-१६ ॥
श्रीधर-स्वामि-टीका –
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ॥ १५ ॥ १६ ॥
Gita Press translation – The glorious Lord said : It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who weild the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).
अकारि is a passive form derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)
The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and the ञकारः gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः।
Since this is a कर्मणि प्रयोग: (passive usage), the verbal root √कृ takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः।
The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) कृ + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
(4) कृ + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the affix ‘च्लि’ is prescribed after a verbal root.
(5) कृ + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of ‘चिण्’ in place of ‘च्लि’ when followed by the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)
(6) कृ + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(7) कर् + इ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.
(8) कार् + इ + त । By 7-2-116 अत उपधायाः – A penultimate (उपधा) letter ‘अ’ of a अङ्गम् gets वृद्धिः as the substitute when followed by a affix which is a ञित् or a णित्।
(9) कारि । By 6-4-104 चिणो लुक् – When following the affix ‘चिण्’, the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire term ‘त’ is elided.
(10) अट् कारि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’ augment which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the ‘अट्’ augment at the beginning of the अङ्गम्।
(11) अकारि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
Questions:
1. Has “चिण्” (used in step 5) been used in the गीता?
2. Commenting on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says “च्लेः सिच्” इत्यतश्च्लेरिति “चिण्ते पदः” इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्ग्रहणं “न रुधः” इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। Please explain.
3. Commenting further on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says तशब्दे किम्? अभाविषाताम्। Please explain.
4. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?
5. How would you say this in Sanskrit?
“Why did you commit this offense?” Paraphrase this to “Why was this offense committed by you?” Use the masculine प्रातिपदिकम् “अपराध” for “offense”.
6. How would you say this in Sanskrit?
“This heavy load was carried by me alone.” Used the masculine प्रातिपदिकम् “भार” for “load” and the adjective प्रातिपदिकम् “गुरु” for “heavy”. Use a passive लुँङ् form of the verbal root √वह् (वहँ प्रापणे १. ११५९) for “carried by”.
Easy Questions:
1. The form (हे) मघवन् (seen in the verses) is derived from the पुंलिङ्ग-प्रातिपदिकम् “मघवन्”। In which two सूत्रे (which we have studied) does पाणिनिः mention the प्रातिपदिकम् “मघवन्”?
2. Why doesn’t the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between भगवान् + अपि = भगवानपि (used in the commentary)? Which condition is not satisfied?
1. Has “चिण्” (used in step 5) been used in the गीता?
Answer: No. The affix “चिण्” has not been used in the गीता। लुँङ् has been used only a few times in the गीता and in none of those instances has “चिण्” been used.
2. Commenting on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says “च्लेः सिच्” इत्यतश्च्लेरिति “चिण्ते पदः” इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्ग्रहणं “न रुधः” इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। Please explain.
Answer: The अनुवृत्तिः of च्लेः comes down from 3-1-44 च्लेः सिच् into 3-1-66 चिण् भावकर्मणोः। The अनुवृत्तिः of चिण् is coming down from 3-1-60 चिण् ते पदः but it has been stopped by the सूत्रम् 3-1-64 न रुधः। This is the reason why पाणिनिः has specified चिण् again in the सूत्रम् 3-1-66 चिण् भावकर्मणोः।
3. Commenting further on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says तशब्दे किम्? अभाविषाताम्। Please explain.
Answer: The form अभाविषाताम् is a causative passive form derived from √भू (भू सत्तायाम् १.१). The विवक्षा is लुँङ्, कर्मणि प्रयोग: (हेतुमति), प्रथम-पुरुषः, द्विवचनम्।
भू + णिच् । By 3-1-26 हेतुमति च।
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= भौ + इ । By 7-2-115 अचो ञ्णिति।
= भावि । By 6-1-78 एचोऽयवायावः। “भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
भावि + लुँङ् । By 3-2-110 लुङ्।
= भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भावि + आताम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= भावि + च्लि + आताम् । By 3-1-43 च्लि लुङि।
= भावि + सिँच् + आताम् । By 3-1-44 च्लेः सिच्। Note: Since “आताम्” is not “त” (आत्मनेपदप्रथमपुरुषैकवचनम्), 3-1-66 चिण् भावकर्मणोः does not apply here.
= भावि + स् + आताम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: 6-4-62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च applies optionally here. Let us consider the case when 6-4-62 applies.
= भावि + इट् स् + आताम् । By 6-4-62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च, 1-1-46 आद्यन्तौ टकितौ।
= भावि + इस् + आताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भाव् + इस् + आताम् । By 6-4-51 णेरनिटि। Note: Since both 6-4-62 and 6-4-51 belong to the अधिकारः of 6-4-22 असिद्धवदत्राभात्, the augment इट् that is prescribed by 6-4-62 is not seen by 6-4-51. This allows 6-4-51 to apply.
= अट् भाविसाताम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अभाविसाताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अभाविषाताम् । By 8-3-59 आदेशप्रत्यययोः।
Now let us consider the case when 6-4-62 is not applied.
= भावि + इट् स् + आताम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= भावि + इस् + आताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भावे + इस् + आताम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भावयिसाताम् । By 6-1-78 एचोऽयवायावः।
= अट् भावयिसाताम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अभावयिसाताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अभावयिषाताम् । By 8-3-59 आदेशप्रत्यययोः।
Thus there are two optional forms अभाविषाताम्/अभावयिषाताम्।
4. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?
Answer: The affix “णिच्” is seen in a तिङन्तं पदम् in the form भ्रंशयामि derived from √भ्रंश् (भ्रंशुँ अधःपतने ४. १३८).
The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), उत्तम-पुरुषः, एकवचनम्।
भ्रंश् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भ्रंश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= भ्रंशि । “भ्रंशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
भ्रंशि + लँट् । By 3-2-123 वर्तमाने लट्।
= भ्रंशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रंशि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्।
= भ्रंशि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रंशि + शप् + मि । By 3-1-68 कर्तरि शप्।
= भ्रंशि + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= भ्रंशे + अ + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भ्रंशय + मि । By 6-1-78 एचोऽयवायावः।
= भ्रंशयामि । By 7-3-101 अतो दीर्घो यञि।
5. How would you say this in Sanskrit?
“Why did you commit this offense?” Paraphrase this to “Why was this offense committed by you?” Use the masculine प्रातिपदिकम् “अपराध” for “offense”.
Answer: कस्मात् त्वया अयम् अपराधः अकारि = कस्मात् त्वयायमपराधोऽकारि।
6. How would you say this in Sanskrit?
“This heavy load was carried by me alone.” Used the masculine प्रातिपदिकम् “भार” for “load” and the adjective प्रातिपदिकम् “गुरु” for “heavy”. Use a passive लुँङ् form of the verbal root √वह् (वहँ प्रापणे १. ११५९) for “carried by”.
Answer: मया एकेन अयम् गुरुः भारः अवाहि = मयैकेनायं गुरुर्भारोऽवाहि।
Easy Questions:
1. The form (हे) मघवन् (seen in the verses) is derived from the पुंलिङ्ग-प्रातिपदिकम् “मघवन्”। In which two सूत्रे (which we have studied) does पाणिनिः mention the प्रातिपदिकम् “मघवन्”?
Answer: पाणिनिः mentions the प्रातिपदिकम् “मघवन्” in
i) 6-4-128 मघवा बहुलम् – “मघवन्” gets “तृँ” as a replacement optionally.
ii) 6-4-133 श्वयुवमघोनामतद्धिते – The “अन्” ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः।
2. Why doesn’t the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between भगवान् + अपि = भगवानपि (used in the commentary)? Which condition is not satisfied?
Answer: As per 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।
Here the vowel preceding the ङम् letter (in this case the नकारः at the end of भगवान्) is आकारः which is not a short vowel. Therefore, 8-3-32 does not apply here.