Home » Example for the day » मा गृधः 2As-लुँङ्

मा गृधः 2As-लुँङ्

Today we will look at the form मा गृधः 2As-लुँङ् from श्रीमद्भागवतम् 8.1.10.

आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। ८-१-१० ।।
यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ।। ८-१-११ ।।

श्रीधर-स्वामि-टीका
तस्येश्वरत्वं दर्शयन् लोकस्य हितमुपदिशति – आत्मना ईश्वरेणावास्यं सत्ताचैतन्याभ्यां संव्याप्यं विश्वं सर्वं जगत्यां लोके यत्किंचिज्जगद्भूतजातं अतस्तेनैवेश्वरेण यत्किंचित्त्यक्तं दत्तं धनं तेनैभुञ्जीथाः भागान्भुङ्क्ष्व । यद्वा तेन हेतुना त्यक्तेनेश्वरार्पणेन भुञ्जीथा न स्वार्थम् । कस्यस्वित्कस्यचिदपि धनं मा गृधो माऽभिकाङ्क्षीः। यद्वा कस्यस्विदिति कस्यान्यस्य धनमस्ति, यतो धनकाङ्क्षा क्रियेतेत्यर्थः । तथा च श्रुतिः – ‘ईशावास्यम्’ इति यथाश्लोकमेव ।। १० ।। ननु यदि सर्वं व्याप्नोति तर्हि चक्षुरादिभिः किं न प्रतीयते तत्राह – यं पश्यन्तं जनश्चक्षुर्वा न पश्यति, चक्षुराद्यविषयत्वात् । नहि प्रमातारं प्रमाणं विषयीकरोतीति भावः । तथा च श्रुतिः – ‘चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्’ इत्यादि । ननु तर्हि घटनाशे देवदत्तस्य तद्विषयं चाक्षुषं ज्ञानमिवेश्वरस्यापि स्वरूपभूतं तद्विषयं ज्ञानं नश्येत्तत्राह – यस्य तु पश्यतश्चक्षुर्ज्ञानं न रिष्यति न नश्यति ।तत्तदाकारेणोत्पन्नाया वृत्तेरेव नाशो न स्वतःसिद्धज्ञानस्य । नहि सवितृप्रकाशः प्रकाश्यनाशे नश्यतीति भावः । भूतानि निलयो यस्य तं सर्वान्तर्यामिणं, तथापि सुपर्णं शोभनपतनमसङ्गमुपधावत भजध्वम् ।। ११ ।।

Gita Press translation – Whatever animate (or inanimate) creation there exists in the world, all that is pervaded by the (cosmic) Spirit (who not only sustains it but also enlivens it.) (Therefore,) live upon what has been assigned (to you) by Him (or what has been consecrated to Him); do not covet the wealth of anyone (else) (10). Flee (for protection) to that self-effulgent Lord, the abode (Inner Controller) of (all) created beings, (and who has been figuratively depicted in the Upaniṣads as) a bird with beautiful wings (dwelling on the tree of this body as an unconcerned witness along with the Jīva, represented as its companion attached to the tree,) whom, as the Perceiver (of all,) the world (or the sense of sight) cannot perceive (because He is above sense-perception and because the knower cannot be known by means of knowledge) and whose perception (knowledge) never fails (inasmuch as it constitutes His very being, unlike the consciousness of the finite Jīva, which disappears with the disappearance of its object) (11).

गृधः is derived from the धातुः √गृध् (गृधुँ अभिकाङ्क्षायाम्, दिवादि-गणः, धातु-पाठः #४. १६१)

In the धातु-पाठः, “गृधुँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the उकार: following the धकार:। This इत् letter has a उदात्त-स्वर:। Thus √गृध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √गृध् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) माङ् गृध् + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा गृध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा गृध् + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) मा गृध् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मा गृध् + स् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) मा गृध् + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) मा गृध् + अङ् + स् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

Note: 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) मा गृध् + अ + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(9) मा गृधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter 16 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?

2. Can you recall a सूत्रम् which justifies the use of आत्मनेपदम् in the form भुञ्जीथा:?

3. Where has लोँट् been used in the verses?

4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the commentary?

5. In which तिङन्तं पदम् in the commentary has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
“Do not covet anyone’s wife.”

Easy Questions:

1. Where has the सूत्रम् 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?

2. Which सूत्रम् has been used for the “ना”-आदेशः in the form हेतुना (पुंलिङ्ग-प्रातिपदिकम् “हेतु”, तृतीया-एकवचनम्)?


1 Comment

  1. 1. In Chapter 16 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?
    Answer: In verse 5 of Chapter 16, the affix “च्लि” has taken the substitution “अङ्” in the form मा शुचः derived from √शुच् (ईँशुचिँर् पूतीभावे ४. ६१).
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ।। 16-5 ।।

    The “इर्” in “ईँशुचिँर्” gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः। Therefore this धातुः is an इरित्।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् शुच् + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा शुच् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा शुच् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा शुच् + स् । By 3-4-100 इतश्‍च।
    = मा शुच् + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा शुच् + अङ् + स् । By 3-1-57 इरितो वा – When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)
    = मा शुच् + अ + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा शुचः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you recall a सूत्रम् which justifies the use of आत्मनेपदम् in the form भुञ्जीथा:?
    Answer: As per the सूत्रम् 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. In the present verse, √भुज् has not been used in the sense of protecting and hence आत्मनेपदम् has been used.

    भुञ्जीथा: is derived from the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    भुज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-66 भुजोऽनवने। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “थास्” from getting the इत्-सञ्ज्ञा।
    = भुज् + सीयुट् थास् । By 3-4-102 लिङस्सीयुट्।
    = भुज् + सीय् थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = भु श्नम् ज् + सीय् थास् । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात् परः।
    = भु न ज् + सीय् थास् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भु न् ज् + सीय् थास् । By 6-4-111 श्नसोरल्लोपः । Note: Since the सार्वधातुक-प्रत्यय: “सीय् थास्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
    = भु न् ज् + ईय् थास् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = भु न् ज् + ई थास् । By 6-1-66 लोपो व्योर्वलि।
    = भु न् ज् + ई थाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = भुं ज् + ई थाः । By 8-3-24 नश्चापदान्तस्य झलि।
    = भुञ्जीथाः । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    3. Where has लोँट् been used in the verses?
    Answer: लोँट् been used in the form उपधावत derived from √धाव् (धावुँ गतिशुद्ध्योः १. ६८५).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    धाव् + लोँट् । By 3-3-162 लोट् च – The affix लोँट् follows a धातुः when used in the sense of command/request.
    = धाव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धाव् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धाव् + त । By 3-4-85 लोटो लङ्वत्‌, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = धाव् + शप् + त । By 3-1-68 कर्तरि शप्।
    = धावत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + धावत = उपधावत ।

    4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the commentary?
    Answer: The सूत्रम् 8-2-28 इट ईटि has been used in the form माऽभिकाङ्क्षीः derived from √काङ्क्ष् (काक्षिँ काङ्क्षायाम् १. ७६०).

    The इकारः at the end of “काक्षिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः।

    का नुँम् क्ष् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
    As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (आकार:) of “काक्ष्”।
    = का न् क्ष् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कांक्ष् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
    = काङ्क्ष् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् काङ्क्ष् + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा काङ्क्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा काङ्क्ष् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा काङ्क्ष् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा काङ्क्ष् + स् । By 3-4-100 इतश्‍च।
    = मा काङ्क्ष् + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा काङ्क्ष् + सिँच् + स् । By 3-1-44 च्लेः सिच्।
    = मा काङ्क्ष् + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा काङ्क्ष् + इट् स् + स् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मा काङ्क्ष् + इ स् + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा काङ्क्ष् + इस् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = मा काङ्क्ष् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा काङ्क्ष् + इ + ईस् । By 8-2-28 इट ईटि – A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.
    = मा काङ्क्षीस् । By 6-1-01 अकः सवर्णे दीर्घः। Note: By the वार्त्तिकम् (under 8-2-3) सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply in spite of 8-2-1 पूर्वत्रासिद्धम्।
    = मा काङ्क्षीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
    मा अभि + काङ्क्षीः = माऽभिकाङ्क्षीः । By 6-1-01 अकः सवर्णे दीर्घः।

    5. In which तिङन्तं पदम् in the commentary has the verbal root √इ (इण् गतौ २. ४०) been used?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in the form प्रतीयते।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    इ + लँट् । By 3-2-123 वर्तमाने लट्।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = इ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = इ + यक् + ते । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = इ + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ई + य + ते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।
    Note: According to 3-1-93 कृदतिङ् in the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्। But 3-1-67 सार्वधातुके यक् (which comes before 3-1-91) doesn’t belong to 3-1-91 धातोः अधिकारः, so यक्-प्रत्यय: doesn’t get the कृत्-सञ्ज्ञा। And the यक्-प्रत्यय: does not get the सार्वधातुक-सञ्ज्ञा (by 3-4-113 तिङ्शित्सार्वधातुकम्) either because यक् does not belong to the तिङ्-प्रत्याहारः nor is it a शित् affix.
    = ईयते ।

    Note: “प्रति” is the  उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्रति + ईयते = प्रतीयते । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “Do not covet anyone’s wife.”
    Answer: कस्यस्वित्/कस्यचित् पत्नीम्/भार्याम् मा गृधः = कस्यस्वित्/कस्यचित् पत्नीं मा गृधः – अथवा – कस्यस्विद्/कस्यचिद् भार्यां मा गृधः।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?
    Answer: The सूत्रम् 7-3-116 ङेराम्नद्याम्नीभ्यः has been used in the form जगत्याम् (स्त्रीलिङ्ग-प्रातिपदिकम् “जगती”, सप्तमी-एकवचनम्।)

    जगती + ङि । By 4-1-2 स्वौजसमौट्…। “जगती” gets the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = जगती + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in a “नदी” term or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = जगती + आट् आम् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “आट्” joins at the beginning of the प्रत्यय: “आम्”। Note: 7-3-112 आण्नद्याः applies here because as per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the affix “आम्” (which came in place of “ङि”) is ङित्।
    = जगती + आम् । By 6-1-90 आटश्च।
    = जगत्याम् । By 6-1-77 इको यणचि।

    2. Which सूत्रम् has been used for the “ना”-आदेशः in the form हेतुना (पुंलिङ्ग-प्रातिपदिकम् “हेतु”, तृतीया-एकवचनम्)?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used for the “ना”-आदेशः in the form हेतुना।

    हेतु + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “हेतु” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = हेतु + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हेतुना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics