अरोदीः 2As-लुँङ्
Today we will look at the form अरोदीः 2As-लुँङ् from श्रीमद्भागवतम् 3.12.10.
इति तस्य वचः पाद्मो भगवान्परिपालयन् । अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ।। ३-१२-९ ।।
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः । ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ।। ३-१२-१० ।।
श्रीधर-स्वामि-टीका –
बालक इव ।। १० ।।
Gita Press translation – Intending to comply with this prayer of the boy, the worshipful Brahmā (who was born of the lotus) replied in kind tones: “Do not cry, I shall presently do it for you (9). Since you wept as a frightened child, O chief of the gods, hence people will call you by the name of Rudra (lit., one who weeps)” (10).
अरोदीः is derived from the धातुः √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२)
In the धातु-पाठः, √रुद् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √रुद् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √रुद् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √रुद् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
(1) रुद् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) रुद् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।
(4) रुद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) रुद् + स् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(6) रुद् + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(7) रुद् + सिँच् + स् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।
(8) रुद् + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) रुद् + इट् स् + स् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।
(10) रुद् + इ स् + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(11) रुद् + इस् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
As per 1-1-46 आद्यन्तौ टकितौ the “ईट्”-आगमः attaches to the beginning of the प्रत्ययः।
(12) रुद् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(13) रोद् + इस् + ईस् । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
(14) अट् रोद् + इस् + ईस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।
(15) अ रोद् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(16) अ रोद् + इ + ईस् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.
(17) अरोदीस् । By the वार्त्तिकम् under 8-2-3 सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.
(18) अरोदीः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
Questions:
1. Where has लुँङ् been used in Chapter 16 of the गीता?
2. Commenting on the सूत्रम् 8-2-28 इट ईटि (used in step 16) the तत्त्वबोधिनी says – इटः किम्? अहार्षीत्। Please explain.
3. In the verses can you spot a word in which 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been prohibited?
4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?
5. The word करोमि is derived from the धातुः √कृ (डुकृञ् करणे ८. १०). The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ is उभयपदी। A परस्मैपदम् affix has been used in the form करोमि। What would be the form if आत्मनेपदम् were to be used?
6. How would you say this in Sanskrit?
“Why did you cry?”
Easy Questions:
1. Which सूत्रम् is used for the अकार-लोपः in the form नाम्ना?
2. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात् been used in the verses?
Recent Comments