Today we will look at the form गोप्तास्मि 1As-लुँट् from श्रीमद्भागवतम् 8.17.18.
त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान्गोप्तास्मि मारीचतपस्यधिष्ठितः ।। ८-१७-१८ ।।
उपधाव पतिं भद्रे प्रजापतिमकल्मषम् । मां च भावयती पत्यावेवंरूपमवस्थितम् ।। ८-१७-१९ ।।
श्रीधर-स्वामि-टीका –
मारीचस्य तपस्यधिष्ठाय स्थितः सन् गोप्तास्मि पालयिष्यामि ।। १८ ।। अतः पतिमुपधाव भजस्व ।। १९ ।।
Gita Press translation “Worshipped in the proper way for the protection of your sons through (the observance of the vow called) Payovrata and duly extolled by you, I shall assume the role of a son to you, entering by a part of My Being the procreative energy of the sage Kaśyapa (a son of Marīcī), and protect your progeny.(18) (Therefore,) seek your consort, the faultless Kaśyapa (a lord of created beings), O blessed lady, visualizing Me as present in this (very) form (standing before you) in the person of your husband.(19)”
गोप्तास्मि is derived from the धातुः √गुप् (गुपूँ रक्षणे, भ्वादि-गणः, धातु-पाठः #१. ४६१)
The ending ऊकारः (which is an इत्) of “गुपूँ” has a उदात्त-स्वरः। Thus √गुप् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गुप् takes परस्मैपद-प्रत्यया: by default.
By 3-1-31 आयादय आर्धधातुके वा – When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally.
In the present example the affix “आय” (which is optional by 3-1-31) has not been added to √गुप्। See question 2.
The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
(1) गुप् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
(2) गुप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) गुप् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।
(4) गुप् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) गुप् + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) गुप् + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
Note: “गुपूँ” is an ऊदित् (has ऊकारः as a इत्)। By 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०).
In the present example the augment “इट्” has not been added. See question 3.
(7) गोप्तास्मि । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
Questions:
1. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5 of the example) been used for the last time in the गीता?
2. What would be the final form in this example if the optional affix “आय” were to be added to √गुप्?
3. What would be the final form in this example if the optional augment “इट्” were to be added to the affix “तास्” after step 6?
4. Which सूत्रम् has been used for the elision of the affix “हि” in the form उपधाव used in the verses?
5. Where has 3-4-91 सवाभ्यां वामौ been used in the commentary?
6. How would you say this in Sanskrit?
“Dharma alone will protect you.”
Easy Questions:
1. Where has the सूत्रम् 7-3-118 औत् been used in the verses?
2. Which term used in the verses has the नदी-सञ्ज्ञा?
1. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5 of the example) been used for the last time in the गीता?
Answer: The the सूत्रम् 3-1-33 स्यतासी लृलुटोः has been used for the last time in the गीता in verse 73 of Chapter 18 in the form करिष्ये derived from √कृ (डुकृञ् करणे ८. १०).
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।। 18-73 ।।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
कृ + लृँट् । By 3-3-13 लृट् शेषे च।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= कृ + स्य + ए । By 3-1-33 स्यतासी लृलुटोः – The affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
= कृ + इट् स्य + ए । By 7-2-70 ऋद्धनोः स्ये, 1-1-46 आद्यन्तौ टकितौ ।
= कृ + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर् + इस्य + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= करिस्ये । By 6-1-97 अतो गुणे।
= करिष्ये । By 8-3-59 आदेशप्रत्यययो:।
2. What would be the final form in this example if the optional affix “आय” were to be added to √गुप्?
Answer: The final form would be गोपायितास्मि। As per 3-1-31 आयादय आर्धधातुके वा – When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally. In the example the optional affix “आय” has not been used. In the case where the affix “आय” is used the derivation is as follows:
गुप् + आय । By 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः – The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.
= गोप् + आय । By 7-3-86 पुगन्तलघूपधस्य च।
= गोपाय । “गोपाय” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
गोपाय + लुँट् । By 3-3-15 अनद्यतने लुट्।
= गोपाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गोपाय + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= गोपाय + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गोपाय + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः।
= गोपाय + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= गोपाय + इट् तास् + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= गोपाय + इ तास् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गोपाय् + इ तास् + मि । By 6-4-48 अतो लोपः।
= गोपायितास्मि।
3. What would be the final form in this example if the optional augment “इट्” were to be added to the affix “तास्” after step 6?
Answer: The final form would be गोपितास्मि if the optional augment “इट्” were to be added to the affix “तास्”।
The derivation would be as follows:
गुप् + लुँट् । By 3-3-15 अनद्यतने लुट्।
= गुप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गुप् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= गुप् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गुप् + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः।
= गुप् + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= गुप् + इट् तास् + मि । Note: “गुपूँ” is an ऊदित् (has ऊकारः as a इत्)। By 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०).
= गुप् + इ तास् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गोप् + इ तास् + मि । By 7-3-86 पुगन्तलघूपधस्य च।
= गोपितास्मि।
4. Which सूत्रम् has been used for the elision of the affix “हि” in the form उपधाव used in the verses?
Answerः The सूत्रम् 6-4-105 अतो हेः has been used for the elision of the affix “हि” in the form उपधाव derived from √धाव् (धावुँ गतिशुद्ध्योः १. ६८५).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
धाव् + लोँट् । By 3-3-162 लोट् च।
= धाव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धाव् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= धाव् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धाव् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
= धाव् + शप् + हि । By 3-1-68 कर्तरि शप्।
= धाव् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= धाव । By 6-4-105 अतो हेः – There is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।
“उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उप + धाव = उपधाव ।
5. Where has 3-4-91 सवाभ्यां वामौ been used in the commentary?
Answer: The सूत्रम् 3-4-91 सवाभ्यां वामौ has been used in the form भजस्व derived from भज् (भजँ सेवायाम् १.११५३).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
भज् + लोँट् । By 3-3-162 लोट् च।
= भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= भज् + से । By 3-4-80 थासस्से।
= भज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
= भज् + शप् + स्व । By 3-1-68 कर्तरि शप्।
= भजस्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
6. How would you say this in Sanskrit?
“Dharma alone will protect you.”
Answer: धर्मः एव त्वाम् गोपायिता/गोपिता/गोप्ता = धर्म एव त्वां गोपायिता/गोपिता/गोप्ता ।
Easy Questions:
1. Where has the सूत्रम् 7-3-118 औत् been used in the verses?
Answer: The सूत्रम् 7-3-118 औत् has been used in the form पत्यौ (प्रातिपदिकम् “पति”, सप्तमी-एकवचनम्)।
पति + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= पति + औ । By 7-3-118 औत् – the affix “ङि” following a short “इ” or short “उ” gets “औ” as a substitute. Note: “पति” does not have the घि-सञ्ज्ञा here because of the नियम-सूत्रम् 1-4-8 पतिः समास एव। Hence 7-3-119 अच्च घेः does not apply.
= पत्यौ । By 6-1-77 इको यणचि।
2. Which term used in the verses has the नदी-सञ्ज्ञा?
Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “भावयती” of the form भावयती (प्रथमा-एकवचनम्) has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.
भावयती + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= भावयती + स् । By अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भावयती । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।