Today we will look at the form विदूषयसि 2As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 4.18.43
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ।। ४-१८-४२ ।।
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः । विदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। ४-१८-४३ ।।
Gita Press translation “One should (therefore) neither assassinate nor reproach nor insult nor speak unpalatable words to them. Being gods (themselves), these kings move about on earth in human semblance. (42) Not fully knowing the principles of righteousness and holding fast to anger alone, you bitterly reproach me, devoted (as I am) to the code of conduct followed by my forefathers.(43)”
विदूषयसि is a causative form derived from the धातुः √दुष् (दुषँ वैकृत्ये ४. ८२)
The ending अकार: of “दुषँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
दुष् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= दुष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= दोष् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= दूषि । By 6-4-90 दोषो णौ, the penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the “णि”-प्रत्यय: follows.
“दूषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
“दूषि” has taken a परस्मैपदम् affix here as per the सूत्रम् 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।
The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।
(1) दूषि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) दूषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) दूषि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(4) दूषि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) दूषि + शप् + सि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) दूषि + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
(7) दूषे + अ + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(8) दूषयसि । By 6-1-78 एचोऽयवायावः।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + दूषयसि = विदूषयसि ।
Questions:
1. Where has the affix “णिच्” been used in a तिङन्तं पदम् (as in this example) in Chapter Twelve of the गीता?
2. We studied two सूत्रे which take the अनुवृत्ति: of “णौ” from 6-4-90 दोषो णौ (used in this example). Which are they?
3. In the verses, can you spot a तिङन्तं पदम् is which a नकार: has taken लोप:?
4. In the verses, can you spot a तिङन्तं पदम् is which 6-1-97 अतो गुणे has been used?
5. In which word in the verses has the affix “श” been used?
6. How would you say this in Sanskrit?
“Why do you pollute my mind?” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to pollute.”
Easy questions:
1. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?
2. In the verses, can you spot a word in which “शी” has been used as a substitute?
1. Where has the affix “णिच्” been used in a तिङन्तं पदम् (as in this example) in Chapter Twelve of the गीता?
Answer: The affix “णिच्” been used in the form निवेशय derived from √विश् (विशँ प्रवेशने ६. १६०) in verse 8 of Chapter 12.
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ।। 12-8 ।।
The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
विश् + णिच् । By 3-1-26 हेतुमति च।
= विश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वेशि । By 7-3-86 पुगन्तलघूपधस्य च।
“वेशि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
वेशि + लोँट् । By 3-3-162 लोट् च।
= वेशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वेशि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वेशि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वेशि + हि । By 3-4-87 सेर्ह्यपिच्च।
= वेशि + शप् + हि । By 3-1-68 कर्तरि शप्।
= वेशि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= वेशे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= वेशय + हि । By 6-1-78 एचोऽयवायावः।
= वेशय । By 6-4-105 अतो हेः।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + वेशय = निवेशय ।
2. We studied two सूत्रे which take the अनुवृत्ति: of “णौ” from 6-4-90 दोषो णौ (used in this example). Which are they?
Answer: The two सूत्रे which take the अनुवृत्ति: of “णौ” from 6-4-90 दोषो णौ are –
i) 6-4-92 मितां ह्रस्वः। वृत्तिः घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ। A short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
ii) 6-4-93 चिण्णमुलोर्दीर्घोऽन्यतरस्याम्। वृत्ति: चिण्परे णमुल्परे च णौमितामुपधाया दीर्घो वा स्यात्। There is an optional elongation of the penultimate vowel of a verbal root which is मित् (has मकार: as a इत्) and is followed by the affix “णि” which in turn is followed by either the affix “चिण्” or “णमुँल्”।
3. In the verses, can you spot a तिङन्तं पदम् is which a नकार: has taken लोप:?
Answer: A नकार: has taken लोप: in the word हिंस्यात् derived from √हिन्स् (हिसिँ हिंसायाम् ७. १९).
The इकारः at the end of “हिसिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः it gets the नुँम्-आगमः।
हिसिँ
= हिस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= हि नुँम् स् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
= हि न् स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हिन्स् ।
The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
हिन्स् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= हिन्स् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हिन्स् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= हिन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हिन्स् + त् । By 3-4-100 इतश्च।
= हिन्स् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च।
= हिन्स् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= हि श्नम् न्स् + यास् त् । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
= हिनन्स् + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= हिनस् + यास् त् । By 6-4-23 श्नान्नलोपः, a नकारः is elided when it follows the श्नम्-प्रत्ययः।
= हिनस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= हिन् स् + या त् । By 6-4-111 श्नसोरल्लोपः।
= हिंस्यात् । By 8-3-24 नश्चापदान्तस्य झलि।
4. In the verses, can you spot a तिङन्तं पदम् in which 6-1-97 अतो गुणे has been used?
Answer: 6-1-97 अतो गुणे has been used in the word चरन्ति derived from √चर् (चरँ गत्यर्थ: १. ६४०).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
चर् + लँट् । By 3-2-123 वर्तमाने लट्।
= चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चर् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= चर् + शप् + झि । By 3-1-68 कर्तरि शप्।
= चर् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= चर् + अ + अन्ति । By 7-1-3 झोऽन्तः।
= चरन्ति । By 6-1-97 अतो गुणे – In the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)
5. In which word in the verses has the affix “श” been used?
Answer: The affix “श” has been used in the form आक्षिपेत् derived from √क्षिप् (क्षिप प्रेरणे ६. ५).
The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
क्षिप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= क्षिप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= क्षिप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= क्षिप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= क्षिप् + त् । By 3-4-100 इतश्च।
= क्षिप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च।
= क्षिप् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= क्षिप् + श + यास् त् । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। Hence, 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
= क्षिप् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= क्षिप् + अ + इय् त् । By 7-2-80 अतो येयः।
= क्षिप् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
= क्षिपेत् । By 6-1-87 आद्गुणः।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + क्षिपेत् = आक्षिपेत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
6. How would you say this in Sanskrit?
“Why do you pollute my mind?” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to pollute.”
Answer: कस्मात् मम/मे मनः दूषयसि = कस्मान् मम/मे मनो दूषयसि।
Easy questions:
1. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?
Answer: 8-3-22 हलि सर्वेषाम् has been used in the सन्धि-कार्यम् between देवाः मानुषरूपेण = देवा मानुषरूपेण।
देवास् + मानुषरूपेण
= देवारुँ + मानुषरूपेण । By 8-2-66 ससजुषो रुः।
= देवाय् + मानुषरूपेण । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
= देवा मानुषरूपेण । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।
2. In the verses, can you spot a word in which “शी” has been used as a substitute?
Answer: The affix “शी” has been used as a substitute in the form एते (सर्वनाम-प्रातिपदिकम् “एतद्”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
एतद् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “एतद्” has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
= एत अ + जस् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= एत + जस् । By 6-1-97 अतो गुणे।
= एत + शी । By 7-1-17 जसः शी – Following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”।
= एत + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= एते । By 6-1-87 आद्गुणः। Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।