समवस्यति 3As-लँट्
Today we will look at the form समवस्यति 3As-लँट् from श्रीमद्भागवतम् 2.7.41.
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ यः स्वरंहसास्खलता त्रिपृष्ठं यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् ।। २-७-४० ।।
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन्गुणान्दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम् ।। २-७-४१ ।।
श्रीधर-स्वामि-टीका –
इदं मया संक्षेपेणोक्तं विस्तरेण वक्तुं न कोऽपि समर्थ इत्याह । पृथिव्याः परमाणूनपि यो विममे गणितवांस्तादृशोऽपि को नु विष्णोर्वीर्यगणनां कर्तुमर्हति । कथंभूतस्य । यो विष्णुस्त्रिपृष्ठं सत्यलोकं चस्कम्भ धृतवान् । किमिति चस्कम्भ । यस्मात्त्रैविक्रमेऽस्खलता प्रतिघातशून्येन स्वरंहसा स्वपादवेगेन त्रिसाम्यरूपं सदनमधिष्ठानं प्रधानं तस्मादारभ्योरु अधिकं कम्पयानं कम्पमानम्, कम्पेन यानं यस्येति वा । अतः कारणाच्चस्कम्भ । आ त्रिपृष्ठमिति वा च्छेदः, सत्यलोकमभिव्याप्य यः सर्वं धृतवानित्यर्थः । तथाच मन्त्रः ‘विष्णोर्नु कम्’ इति । अस्यार्थः – विष्णोर्नु वीर्याणि कं प्रवोचम्, कः प्रावोचदित्यर्थः । यः पार्थिवानि रजांस्यपि विममे सोऽपि । यो विष्णुस्त्रेधा विचक्रमाणस्त्रिविक्रमं कुर्वन्नुत्तरं लोकमस्कभायदवष्टब्धवान् । कथंभूतम् । सधस्थम् । सहस्य सधादेशः । तिष्ठन्तीति स्थाः, तत्रस्थैर्देवैः सह वर्तमानमित्यर्थः ।। ४० ।। एतत्प्रपञ्चयति – नान्तमिति । पुरषस्य यन्मायाबलं तस्यान्तं न विदामि न वेद्मि । दशशतान्याननानि यस्य स शेषोऽप्यस्य गुणान्गायन्पारं न समवस्यति न प्राप्नोति ।। ४१ ।।
Gita Press translation “What man, gifted with insight, in this world could catalogue the powers of Lord Viṣṇu, even though he might have counted all the particles of dust on the earth? (As the Lord proceeded to measure the three worlds with His strides), He raised His legs with such irresistible force that the whole universe from the outermost sheath of Prakṛti (primordial matter) to the highest heaven (Satyaloka) began to shake violently, when He supported it by His own might. (40) (O Nārada!) neither myself nor those elder brothers of yours (Sanaka and others) know the whole truth about the Lord, who is a storehouse of innumerable potencies, Māyā (who brings forth and withdraws into herself the entire creation) being one of them. How, then, could others know it? Even the Primal Deity, Lord Śeṣa (the serpent-god); who is possessed of a thousand mouths, cannot reach His end even to this day, though he has been singing His praises (from eternity). (41)”
स्यति is derived from the धातुः √सो (दिवादि-गणः, षो अन्तकर्मणि, धातु-पाठः #४. ४२)
The धातुः “षो” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। So we now have √सो।
In the धातु-पाठः, √सो has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सो takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √सो can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “ति”।
(1) सो + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) सो + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) सो + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) सो + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) सो + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
(6) सो + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(7) स्यति । By 7-3-71 ओतः श्यनि, the ending ओकारः of an अङ्गम् is elided when followed by the श्यन्-प्रत्यय:।
“सम्” and “अव” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + अव + स्यति = समवस्यति ।
Questions:
1. In which chapter of the गीता has the affix श्यन् (used in step 5 of the example) been used in the last verse?
2. Where has 6-4-64 आतो लोप इटि च been used in a तिङन्तं पदम् in the verses?
3. The form विदामि used in the verses is grammatically irregular (आर्ष-प्रयोग:)। What would be the grammatically correct form?
4. Which सूत्रम् is used for the तिष्ठादेश: in the form तिष्ठन्ति used in the commentary?
5. Can you spot a तिङन्तं पदम् in the following sentence? राघवस्य शरैर्घोरैर्घोरं रावणमाहवे।
6. How would you say this in Sanskrit?
“All of us determined that there is no answer to (of) this question.” Use √सो (दिवादि-गणः, षो अन्तकर्मणि, धातु-पाठः #४. ४२) with the उपसर्गौ “वि” + “अव” for “to determine.” Use the अव्ययम् “इति” to express the meaning of “that.”
Easy questions:
1. Which प्रातिपदिकम् has been used in the form अमी used in the verses?
2. Where has 6-4-10 सान्तमहतः संयोगस्य been used in the verses?
Recent Comments