Today we will look at the form घातयिष्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 5.62.30.
स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः । प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः ।। ५-६२-२७ ।।
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ।। ५-६२-२८ ।।
एतागच्छत गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५-६२-२९ ।।
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५-६२-३० ।।
Gita Press translation – Having completely lost control over himself, nay, bathed in blood, his arms, thighs and face broken, that elephant among monkeys, an eminent hero, fainted away for a space.(27) Withdrawing to a secluded corner when let go somehow by those monkeys, that jewel among monkeys spoke (as follows) to his subordinates, who had come very near :- (28) “Come along, come away; we shall proceed to where the thick-necked monkey, Sugrīva, our master, resides with Śrī Rāma. (29) Nay, we shall make known to the king all the misconduct of Aṅgada. Full of indignation he will cause the (offending) monkeys to be put to death on hearing our complaint.”(30)
घातयिष्यति is a causative form derived from the धातुः √हन् (हनँ हिंसागत्योः २. २)
The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
The ending vowel of “हनँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
हन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।
= घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।
= घात् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is either ञित् or णित्।
= घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= घाति।
“घाति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
As per 1-3-74 णिचश्च, the धातु: “घाति” is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।
(1) घाति + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) घाति + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
(4) घाति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) घाति + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) घाति + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(7) घाति + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) घाते + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(9) घातयिस्य + ति । By 6-1-78 एचोऽयवायावः।
(10) घातयिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions:
1. Where in the गीता has 7-3-32 हनस्तोऽचिण्णलोः been used in a तिङन्तं पदम्?
2. In the verses, can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (archaic – does not fit the rules of grammar)?
3. In which तिङन्तं पदम् in the verses has √इ (इण् गतौ २. ४०) been used?
4. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verses?
5. Which सूत्रम् is used for the छकारादेश: in the forms आगच्छत and गच्छाम:?
6. How would you say this in Sanskrit?
“In the morning, the Sun will destroy this darkness.” Use the अव्ययम् “प्रातर्” for “in the morning” and use the neuter प्रातिपदिकम् “तमस्” for “darkness.”
Easy questions:
1. Where has 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च been used in the verses?
2. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?
1. Where in the गीता has 7-3-32 हनस्तोऽचिण्णलोः been used in a तिङन्तं पदम्?
Answer: वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ 2-21 ॥
घातयति is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २). The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
हन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।
= घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।
= घात् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is either ञित् or णित्।
= घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= घाति। “घाति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
घाति + लँट् । By 3-2-123 वर्तमाने लट्।
= घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= घाति + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
= घाति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= घाति + शप् + ति । By 3-1-68 कर्तरि शप्।
= घाति + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= घाते + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= घातयति । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।
2. In the verses, can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (archaic – does not fit the rules of grammar)?
Answer: श्रावयिष्याम is a आर्ष-प्रयोग:। It is derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२). It is a hybrid between a लृँट् form and a लोँट् form. The विवक्षा is कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुष:, बहुवचनम्।
The grammatically correct form in लृँट् is श्रावयिषाम:। Steps are as follows:
श्रु + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= श्रु + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= श्रौ + इ । By 7-2-115 अचो ञ्णिति।
= श्रावि । By 6-1-78 एचोऽयवायावः। “श्रावि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
श्रावि + लृँट् । By 3-3-13 लृट् शेषे च।
= श्रावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= श्रावि + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
= श्रावि + स्य + मस् । By 3-1-33 स्यतासी लृलुटोः।
= श्रावि + इट् स्य + मस् । By By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= श्रावि + इस्य + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= श्रावे + इस्य + मस् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= श्रावयिस्य + मस् । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।
= श्रावयिस्या + मस् । By 7-3-101 अतो दीर्घो यञि।
= श्रावयिस्याम: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
= श्रावयिष्याम: । By 8-3-59 आदेशप्रत्यययोः।
The grammatically correct form in लोँट् is श्रावयाम। Steps are as follows:
श्रावि + लोँट् । By 3-3-162 लोट् च।
= श्रावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= श्रावि + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
= श्रावि + म । By 3-4-85 लोटो लङ्वत्, 3-4-99 नित्यं ङितः।
= श्रावि + आट् म । By 3-4-92 आडुत्तमस्य पिच्च।
= श्रावि + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= श्रावि + शप् + आम । By 3-1-68 कर्तरि शप्।
= श्रावि + अ + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= श्रावे + अ + आम । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= श्रावय् + अ + आम । By 6-1-78 एचोऽयवायावः।
= श्रावयाम । By 6-1-101 अकः सवर्णे दीर्घः।
The form श्रावयिष्याम used in the verses is like a combination of the लृँट् form श्रावयिष्याम: and the लोँट् form श्रावयाम। Note: Similar usage is seen in the गीता in the form प्रसविष्यध्वम् used in verse 3-10.
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || 3-10||
3. In which तिङन्तं पदम् in the verses has √इ (इण् गतौ २. ४०) been used?
Answer: √इ (इण् गतौ २. ४०) – with the उपसर्ग: “आङ्” – has been used in the form एत। The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, बहुवचनम्।
इ + लोँट् । By 3-3-162 लोट् च।
= इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।
= इ + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
= इ + शप् + त । By 3-1-68 कर्तरि शप्।
= इत । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: Note: Since the प्रत्यय: “त” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the इकार: of the अङ्गम् “इ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + इत
= आ + इत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= एत । By 6-1-87 आद्गुणः।
4. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verses?
Answer: 6-1-17 लिट्यभ्यासस्योभयेषाम् has been used in the form उवाच derived from the verbal root √वच् (वचँ परिभाषणे २. ५८). The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। Steps are as follows:
वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
= वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
= व वच् + अ । By 7-4-60 हलादिः शेषः।
= उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 वचिस्वपियजादीनां किति as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
= उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
= उवाच । By 7-2-116 अत उपधायाः।
5. Which सूत्रम् is used for the छकारादेश: in the forms आगच्छत and गच्छाम:?
Answer: 7-3-77 इषुगमियमां छः is used for the छकारादेश: in the forms आगच्छत and गच्छाम:। Both these forms are derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).
The विवक्षा in आगच्छत is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, बहुवचनम्।
गम् + लोँट् । By 3-3-162 लोट् च।
= गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गम् + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।
= गम् + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
= गम् + शप् + त । By 3-1-68 कर्तरि शप्।
= गम् + अ + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गछ् + अ + त । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
= ग तुँक् छ् + अ + त । By 6-1-73 छे च, 1-1-46 आद्यन्तौ।
= ग त् छ + अ + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गच्छत । By 8-4-40 स्तोः श्चुना श्चुः।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + गच्छत = आगच्छत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
The विवक्षा in गच्छाम: is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुष:, बहुवचनम्।
गम् + लँट् । By 3-2-123 वर्तमाने लट्।
= गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गम् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
= गम् + शप् + मस् । By 3-1-68 कर्तरि शप्।
= गम् + अ + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गछ् + अ + मस् । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
= ग तुँक् छ् + अ + मस् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ।
= ग त् छ + अ + मस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गत्छामस् । By 7-3-101 अतो दीर्घो यञि।
= गत्छाम: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
= गच्छाम: । By 8-4-40 स्तोः श्चुना श्चुः।
6. How would you say this in Sanskrit?
“In the morning, the Sun will destroy this darkness.” Use the अव्ययम् “प्रातर्” for “in the morning” and use the neuter प्रातिपदिकम् “तमस्” for “darkness.”
Answer: प्रात: सूर्यः तम: घातयिष्यति = प्रातः सूर्यस्तमो घातयिष्यति ।
Easy questions:
1. Where has 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च been used in the verses?
Answer: 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च is used in the derivation of भर्ता (प्रातिपदिकम् “भर्तृ”, पुंलिङ्गे प्रथमा-एकवचनम्)।
भर्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= भर्तृ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भर्त् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. As per 1-1-53 ङिच्च, only the ending ऋकार: of “भर्तृ” is replaced.
= भर्त् अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भर्तान् + स् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्, when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.
= भर्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “भर्तान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= भर्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
2. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?
Answer: प्रातिपदिकम् “अमर्षिन्” used in the form अमर्षी (पुंलिङ्गे प्रथमा-एकवचनम्)।
अमर्षिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
= अमर्षीन् + सुँ । By 6-4-13 सौ च, the penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows. Since “अमर्षिन्” ends in “इन्” we can use this सूत्रम्।
= अमर्षीन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
= अमर्षीन् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “अमर्षीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= अमर्षी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकारः of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।