Please Note: By popular demand, going forward the posts will be published only on weekdays.
Today we will look at the form भोक्ष्यते 3Ps-लृँट् from श्रीमद्भागवतम् 4.28.31.
एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ।। ४-२८-३१ ।।
अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ।। ४-२८-३२ ।।
श्रीधर-स्वामि-टीका –
अर्बुदमिति । श्रवणादीनां प्रत्येकमनेके प्रकारा अभवन्नित्यर्थः । तदुक्तम् – ‘भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते’ इति । येषां वंशधरैर्यतः प्रवृत्तैः संप्रदायभेदैः कृत्स्ना मही मन्वन्तरं ततः परं च भोक्ष्यते विद्याकामकर्मभ्योऽपि रक्षिष्यते ।। ३१ ।। अगस्त्यः अगानि निष्क्रियाणि गात्राणि स्त्यायति संघातयतीत्यगस्त्यो मनः । स प्राक्प्रथमजातां दुहितरं कृष्णसेवारुचिमुपयेमे, तस्य मनः कृष्णे दृढां रतिं बबन्धेत्यर्थः । धृतानि शमदमादीनि व्रतानि यया तां रतिम् । दृढेभ्यः सत्यलोकादिभोगेभ्योऽपि च्युतस्तद्रहितः, कृष्णरताविहामुत्रभोगविरागो जात इत्यर्थः । स एवोपशमात्मकत्वान्मुनि: । कथंभूतः । इध्मवाह आत्मजो यस्य सः । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इत्यादिश्रुतिप्रसिद्धा समिद्वहनोपलक्षिता गुरूपसत्तिर्वैराग्यादभूदित्यर्थः । नह्यविरक्तस्य गुरूपसत्तिः संभवति । कथापक्षे यथाश्रुतमेव ।। ३२ ।।
Gita Press translation “A hundred million sons were born to each one of these latter, by whose descendants the earth will be ruled over for a whole Manvantara and (even) beyond it.(31) Agatsya married the first-born daughter (of Malayadhwaja), constant in virtue; of her was born the sage Dṛḍhacyuta, who (in his turn) had a son, Idhmavāha by name.”
भोक्ष्यते is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७) Note: Among the two meanings of √भुज् listed in the धातुपाठ: – namely पालने (to rule/to protect) and अभ्यवहारे (to eat/to enjoy) – the latter is much more common. But in the present example, √भुज् has been used in the former sense (पालने)।
Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
Note: The सूत्रम् 1-3-66 भुजोऽनवने (The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting) has application only in the active voice. In the passive voice 1-3-13 भावकर्मणोः always applies.
The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।
(1) भुज् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भुज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।
(4) भुज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) भुज् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
√भुज् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः। See question 2.
(6) भोज् + स्य + ते । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
(7) भोग् + स्य + ते । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) respectively get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.
(8) भोग् + ष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
(9) भोक्ष्यते । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.
Questions:
1. In Chapter Two of the गीता, where has √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७) been used with लृँट् (as in this example)?
2. Among the monosyllabic verbal roots which end in a जकार:, which others (besides √भुज्) are अनुदात्तोपदेशा: in the धातुपाठ:?
3. Where has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?
4. In the commentary can you spot a word wherein the affix णिच् has taken लोप:?
5. Which सूत्रम् is used for the तकारादेश: in the form संघातयति (seen in the commentary)?
6. How would you say this in Sanskrit?
“By whom will the Veda be protected?” Use a word from the commentary for “will be protected.”
Easy questions:
1. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses? Where has it been used in the commentary?
2. In the verses, can you spot a प्रातिपदिकम् in which the feminine affix ङीप् has been prohibited?
1. In Chapter Two of the गीता, where has √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७) been used with लृँट् (as in this example)?
Answer: The धातुः √भुज् has been used with लृँट् in the form भोक्ष्यसे in verse 37 of Chapter 2.
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।। 2-37 ।।
The विवक्षा is लृँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
भुज् + लृँट् । By 3-3-13 लृट् शेषे च।
= भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भुज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
Note: As per the सूत्रम् 1-3-66 भुजोऽनवने (The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting), आत्मनेपदम् has been used here.
= भुज् + से । By 3-4-80 थासस्से।
= भुज् + स्य + से । By 3-1-33 स्यतासी लृलुटोः।
Note: √भुज् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
= भोज् + स्य + से । By 7-3-86 पुगन्तलघूपधस्य च।
= भोग् + स्य + से । By 8-2-30 चोः कुः।
= भोग् + ष्य + से । By 8-3-59 आदेशप्रत्यययो:।
= भोक्ष्यसे । By 8-4-55 खरि च।
2. Among the monosyllabic verbal roots which end in a जकार:, which others (besides √भुज्) are अनुदात्तोपदेशा: in the धातुपाठ:?
Answer: In addition to √भुज् the following monosyllabic verbal roots ending in जकार: are अनुदात्तोपदेशा: –
√त्यज् (त्यजँ हानौ १. ११४१), √निज् (णिजिँर् शौचपोषणयोः ३. १२), √भज् (भजँ सेवायाम् १. ११५३), √भञ्ज् (भञ्जोँ आमर्दने ७. १६), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७, युजँ संयमने १०. ३३८ (आधृषीय:)), √रुज् (रुजोँ भङ्गे ६. १५२), √रञ्ज् (रञ्जँ रागे १. ११५४, रञ्जँ रागे ४. ६३), √विज् (विजिँर् पृथग्भावे ३. १३), √स्वञ्ज् (ष्वञ्जँ परिष्वङ्गे १. ११३१), √सञ्ज् (षञ्जँ सङ्गे १. ११४२) and √सृज् (सृजँ विसर्गे ४. ७५, सृजँ विसर्गे ६. १५०).
जान्तेषु त्यज्-निजिर्-भज्-भञ्ज्-भुज्-भ्रस्ज्-मस्ज्-यज्-युज्-रुज्-रञ्ज्-विजिर्-स्वञ्ज्-सञ्ज्-सृज: पञ्चदश ।
3. Where has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?
Answer: 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has been used in the verses in the form उपयेमे derived from the धातुः √यम् (भ्वादि-गणः, यमँ उपरमे, धातु-पाठः # १. ११३९).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
यम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= यम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= यम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
Note: The सूत्रम् 1-3-56 उपाद्यमः स्वकरणे states – After the धातु: √यम् (यमँ उपरमे १. ११३९), preceded by the उपसर्ग: “उप”, when used in the sense of ‘espousing’, आत्मनेपदम् is used. Hence आत्मनेपदम् has been used here.
= यम् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
= यम् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= यम् यम् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
= य यम् + ए । By 7-4-60 हलादिः शेषः।
= येमे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “एश्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
“उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उप + येमे = उपयेमे।
4. In the commentary can you spot a word where in the affix णिच् has taken लोप:?
Answer: The affix णिच् has taken लोपः in the word भाव्यते which is a causative passive form, derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
भू + णिच् । By 3-1-26 हेतुमति च।
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= भौ + इ । By 7-2-115 अचो ञ्णिति।
= भावि । By 6-1-78 एचोऽयवायावः।
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
भावि + लँट् । By 3-2-123 वर्तमाने लट्।
= भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भावि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= भावि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= भावि + यक् + त । By 3-1-67 सार्वधातुके यक्।
= भावि + य + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भाव् + य + ते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment “इट्”। Note: The affix “य” cannot take the augment “इट्” (by 7-2-35 आर्धधातुकस्येड् वलादेः) because “य” does not begin with a “वल्” letter.
= भाव्यते ।
5. Which सूत्रम् is used for the तकारादेश: in the form संघातयति (seen in the commentary)?
Answer: The सूत्रम् 7-3-32 हनस्तोऽचिण्णलोः is used for the तकारादेश: in the form संघातयति।
घातयति is a causative form derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).
The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
हन् + णिच् । By 3-1-26 हेतुमति च।
= घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु।
= घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।
= घात् + णिच् । By 7-2-116 अत उपधायाः।
= घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= घाति । “घाति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
घाति + लँट् । By 3-2-123 वर्तमाने लट्।
= घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= घाति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= घाति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= घाति + शप् + ति । By 3-1-68 कर्तरि शप्।
= घाति + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= घाते + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= घातयति । By 6-1-78 एचोऽयवायावः।
“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + घातयति = संघातयति । By 8-3-23 मोऽनुस्वारः।
= संघातयति/ सङ्घातयति । By 8-4-59 वा पदान्तस्य।
6. How would you say this in Sanskrit?
“By whom will the Veda be protected?” Use a word from the commentary for “will be protected.”
Answer: केन वेदः रक्षिष्यते = केन वेदो रक्षिष्यते।
Easy questions:
1. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses? Where has it been used in the commentary?
Answer: 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the verses in the सन्धि-कार्यम् between राजन् + अर्बुदम् = राजन्नर्बुदम् and in the commentary in the सन्धि-कार्यम् between अभवन् + इति = अभवन्निति ।
राजन् + अर्बुदम् । As per 1-4-14 सुप्तिङन्तं पदम्, “राजन्” has the पद-सञ्ज्ञा।
= राजन् + नुँट् अर्बुदम् । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case अकार:), then the following vowel (long or short – in this case the अकार: at the beginning of अर्बुदम्) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the अकार:।
= राजन् + न् अर्बुदम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= राजन्नर्बुदम् ।
Similarly between अभवन् and इति।
2. In the verses, can you spot a प्रातिपदिकम् in which the feminine affix ङीप् has been prohibited?
Answer: The प्रातिपदिकम् “दुहितृ” used in the word दुहितरम् does not take the feminine affix “ङीप्” (prescribed by the सूत्रम् 4-1-5 ऋन्नेभ्यो ङीप्) because of the prohibition rule निषेध-सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः – The feminine affixes do not come after words that have the षट्-सञ्ज्ञा and “स्वसृ” etc. (“स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” )
दुहितृ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा। Note: “अम्” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
= दुहित् अर् + अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
= दुहितरम् ।