Home » Example for the day » भुञ्जे स्म 1As-लँट्

भुञ्जे स्म 1As-लँट्

Today we will look at the form भुञ्जे स्म 1As-लँट् from श्रीमद्भागवतम् 1.5.25.

उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते ॥ १-५-२५ ॥
तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ १-५-२६ ॥

श्रीधर-स्वामि-टीका
उच्छिष्टस्य लेपान्पात्रलग्नांस्तैर्द्विजैरनुज्ञातः सन् भुञ्जे स्म । तेन भोजनेनापास्तकिल्बिषो जातोऽस्मि । तेषां धर्मे परमेश्वरभजने एवात्मनो मनसो रुचिः प्रजायते स्म इत्यनुषङ्गः ॥ २५ ॥ अशृणवं श्रुतवानस्मि । मे श्रद्धया ममैव स्वतःसिद्धया नत्वन्येन बलाज्जनितया । अतो ममेत्यस्यापौनरुक्त्यम् । अनुपदं प्रतिपदम् । प्रियं श्रवो यशो यस्य तस्मिन् ॥ २६ ॥

Gita Press translation – With the willing consent of those Brāhmaṇas I ate, once in twenty-four hours, whatever was left in their dishes after they had finished their meals, and was thereby cleansed of all sins. Thus engaged in their service, I attained purity of mind, which conceived a liking for their religious creed (the creed of Devotion) (25). There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame (26).

भुञ्जे is derived from the verbal root √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७).

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भुज् in कर्तरि प्रयोग: would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66 भुजोऽनवने, the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. It takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
In the present example, √भुज् has not been used in the sense of अवने (protecting), hence it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) भुज् + लँट् । By 3-2-119 अपरोक्षे च – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, (even) when the action is perceived by the narrator.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) भुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भुज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) भु श्नम् ज् + ए । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(7) भुनज् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) भुन्ज् + ए । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “ए” is a अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(9) भुंज् + ए । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(10) भुञ्जे । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?

2. Which सूत्रम् is used for the “जा”-आदेशः in the form प्रजायते?

3. In how many places has the affix लँङ् been used in the verses?

4. By which सूत्रम् does the term स्म get the अव्यय-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“I did not eat anything yesterday.”

6. How would you say this in Sanskrit?
“I lived in Mumbai for fifteen years.” Use the feminine प्रातिपदिकम् “मुम्बापुरी” for “Mumbai” and use द्वितीया-विभक्तिः with “fifteen years.”

Easy Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

2. In the commentary can you spot a word in which the affix “शप्” has taken the लुक् elision?


1 Comment

  1. 1. Where has the verbal root भुज् been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?
    Answer: The verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) has been used in the form भुङ्‌क्ष्व।

    तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्‌ भुङ्‌क्ष्व राज्यं समृद्धम्‌ ।
    मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ 11-33 ॥

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    भुज् + लोँट् । By 3-3-162 लोट् च।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-66 भुजोऽनवने।
    Note: By 1-2-4 सार्वधातुकमपित्, the “थास्”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।
    = भुज् + से । By 3-4-80 थासस्से।
    = भुज् + स्व । By 3-4-91 सवाभ्यां वामौ।
    = भु श्नम् ज् + स्व । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = भुनज् + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भुन्ज् + स्व । By 6-4-111 श्नसोरल्लोपः।
    = भुन्ग् + स्व । By 8-2-30 चोः कुः।
    = भुंग् + स्व । By 8-3-24 नश्चापदान्तस्य झलि।
    = भुंग् + ष्व । By 8-3-59 आदेशप्रत्यययोः।
    = भुंक् + ष्व । By 8-4-55 खरि च।
    = भुङ्‌क्ष्व । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    2. Which सूत्रम् is used for the “जा”-आदेशः in the form प्रजायते?
    Answer: The सूत्रम् 7-3-79 ज्ञाजनोर्जा is used for the “जा”-आदेशः in the form प्रजायते derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    जन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जन् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जायते । By 7-3-79 ज्ञाजनोर्जा – The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a प्रत्ययः which begins with शकार: as an इत्। As per 1-1-55 अनेकाल्शित् सर्वस्य, the entire term “जन्” is replaced.

    “प्र” has been used as a उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + जायते = प्रजायते ।

    3. In how many places has the affix लँङ् been used in the verses?
    Answer: The affix लँङ् has been used in the forms अशृणवम् and अभवत्।

    अशृणवम् – derived from √श्रु (श्रु श्रवणे १. १०९२). The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    श्रु + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः।
    = शृ + श्नु + अम् । By 3-1-74 श्रुवः शृ च।
    = शृ + नु + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ऋकार: of “शृ”।
    = शृ + नो + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शृनवम् । By 6-1-78 एचोऽयवायावः।
    = अट् शृनवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अशृनवम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अशृणवम् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    अभवत् – derived from √भू (भू सत्तायाम् १. १). The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ्
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च ।
    = भू + शप् + त् । By 3-1-68 कर्तरि शप्।
    = भो + शप् + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भवत् । By 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. By which सूत्रम् does the term स्म get the अव्यय-सञ्ज्ञा?
    Answer: The term स्म belongs to चादि-गणः (referenced in 1-4-57 चादयोऽसत्त्वे)। Terms listed in the चादि-गणः are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

    5. How would you say this in Sanskrit?
    “I did not eat anything yesterday.”
    Answer: ह्यः न किम् चित् अपि भुञ्जे स्म = ह्यो न किञ्चिदपि भुञ्जे स्म।

    6. How would you say this in Sanskrit?
    “I lived in Mumbai for fifteen years.” Use the feminine प्रातिपदिकम् “मुम्बापुरी” for “Mumbai” and use द्वितीया-विभक्तिः with “fifteen years.”
    Answer: पञ्चदश वर्षाणि मुम्बापुर्याम् निवसामि स्म = पञ्चदश वर्षाणि मुम्बापुर्यां निवसामि स्म।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?
    Answer: The सूत्रम् 7-3-105 आङि चापः has been used in the form श्रद्धया (स्त्रीलिङ्ग-प्रातिपदिकम् “श्रद्धा”, तृतीया-एकवचनम्)।
    श्रद्धा + टा । By 4-1-2 स्वौजसमौट्छष्टा……।
    = श्रद्धा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्रद्धे + आ । By 7-3-105 आङि चापः – “आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।
    = श्रद्धया । By 6-1-78 एचोऽयवायावः।

    2. In the commentary can you spot a word in which the affix “शप्” has taken the लुक् elision?
    Answer: The affix शप् has taken the लुक् elision in the form अस्मि derived from √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + शप् + मि । By 3-1-68 कर्तरि शप्।
    = अस्मि । By 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics