Home » 2012 » August » 07

Daily Archives: August 7, 2012

तरुणायते 3As-लँट्

Today we will look at the form तरुणायते 3As-लँट् from वैराग्यशतकम्।

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ३-८ ॥

टीका

वलीभिरिति । वलीभिर्जराविश्लथचर्मरेखाभिः, मुखं वक्त्रम्, आक्रान्तम् । वैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल्येन, शिरः मस्तकम्, अङ्कितं चिह्नितम् । शिरःकेशादयो धवला जाता इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः । अवयविवाचिनो गात्रशब्दस्यावयवार्थकत्वं लक्षणया वेदितव्यम् । अवयवावयविनोरभेदविवक्षया वा । न च गात्रबाहुल्यविवक्षायां यथाश्रुतमेव समञ्जसम् । मुखं शिर इत्येकवचनप्रयोगविरोधात् । ननु तत्रापि जात्येकवचनग्रहणे न कोऽपि विरोध इति चेत्किमनेन बकबन्धप्रयासेनेत्यलमतिप्रसङ्गेन । शिथिलायन्ते शिथिलानीवाचरन्ति । जराजर्जरभावविश्लिष्टसंधिबन्धतया कार्यकरणसमर्था न जायन्त इत्यर्थः किंतु एका तृष्णा तरुणायते तरुणेवाचरति । बलिष्ठा जातेत्यर्थः । जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्यमिति भावः । उभयत्रापि ‘कर्तुः क्यङ् सलोपश्च’ इति क्यङ् । ‘अकृत्सार्वधातुकयोदीर्घः’ इति दीर्घः । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । लक्षणं तूक्तम् ॥

Translation – The face is encroached by wrinkles; the head is marked by grey hair; the limbs are slack; (but) desire alone is strong (acting young.)

तरुणीवाचरति (तरुणी + इव + आचरति) =  तरुणायते।

First we derive the नाम-धातुः “तरुणाय” as follows:

(1) तरुणी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तरुणी + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) तरुण + सुँ + क्यङ् । As per the सूत्रम् 6-3-36 क्यङ्मानिनोश्च – When followed by the affix “क्यङ्”/”मानिन्”, a feminine form not ending in the affix “ऊङ्” and having an equivalent and uniform masculine form is changed to that masculine form. Note: We have not studied this सूत्रम् in the class.

(4) तरुण + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तरुण + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) तरुण + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(6) तरुणाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “तरुणाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) तरुणाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) तरुणाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तरुणाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) तरुणाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) तरुणाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) तरुणाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) तरुणायते । By 6-1-97 अतो गुणे

Questions:

1. Where else (besides in तरुणायते) has the affix क्यङ् been used in the verses?

2. Consider the feminine प्रातिपदिकम् “विवक्षा” used in the commentary (as a part of a compound). From which verbal root is “विवक्षा” derived?

3. Can you recall a सूत्रम् (which we have studied) which is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (used in step 6)?

4. Up to which सूत्रम् does the अनुवृत्तिः of “क्यङ्” go down from 3-1-11 कर्तुः क्यङ् सलोपश्च?

5. How would you say this in Sanskrit?
“In this Kaliyuga righteousness diminishes.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness” and paraphrase “diminishes” to “acts like it is slack.”

6. How would you say this in Sanskrit?
“Even though I am old my mind is young.” Paraphrase “is young” to “acts like young.” Use the adjective प्रातिपदिकम् “वृद्ध” for “old.”

Easy Questions:

1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् ending in a ऋकारः?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics