Today we will look at the form अवतिष्ठते 3As-लँट् from श्रीमद्भागवतम् Sb12.4.34
घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ १२-४-३३ ॥
यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ १२-४-३४ ॥
श्रीधर-स्वामि-टीका –
अत एवाहङ्कारनाशे स्वरूपदर्शनं भवतीति तेनैव दृष्टान्तेनाह – घन इति । आत्मन उपाधिः । जिज्ञासया विचारेण । ब्रह्माहमिति पश्यतीत्यर्थः ॥ ३३ ॥ सोऽयमात्यन्तिकः प्रलय इत्युपसंहरति – यदैवमिति । विवेकहेतिना ज्ञानशस्त्रेण । अहङ्करणमेवात्मबन्धनम् । अच्युतं परिपूर्णमात्मानमनुभवतीति तथा ॥ ३४ ॥
Gita Press translation – As soon as the cloud born of the sun is scattered the eye sees the sun, which is its own self. (Similarly) the moment the ego, which veils (the true nature of) the soul, yields to inquiry (about the Self,) the soul realizes its identity with Brahma (33). When, having torn – in the aforesaid manner with this dagger of wisdom, Ahaṅkāra, a product of Māyā, which veils (the true nature of) the soul, and realized the all-perfect Self, the Jīva stands fulfilled, they call such a state the everlasting Dissolution, O dear Parīkṣit! (34)
अवतिष्ठते is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)
The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
In the धातु-पाठः, “ष्ठा” has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-22 समवप्रविभ्यः स्थः – When preceded by the उपसर्गः “सम्”/”अव”/”प्र”/”वि”, the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) स्था + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) स्था + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।
(4) स्था + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) स्था + शप् + ते । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) स्था + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(7) तिष्ठ + अ + ते । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
(8) तिष्ठते । By 6-1-97 अतो गुणे।
“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + तिष्ठते = अवतिष्ठते ।
Questions:
1. Where has the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः been used in Chapter Six of the गीता?
2. In the गीता can you spot a तिङन्तं पदम् in which the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has not been honored?
3. Which सूत्रम् is used for the दीर्घादेशः in the form विदीर्यते?
4. Can you spot an affix “अ” in the verses?
5. Correct the following sentence:
तत्त्वं जिज्ञासति।
6. How would you say this in Sanskrit?
“Stand still for a moment.”Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use द्वितीया विभक्तिः with “क्षण”। Use the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) with the उपसर्गः “अव” for “to stand still.”
Easy Questions:
1. Where has the affix “श्यन्” been used in the verses?
2. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the commentary?
1. Where has the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः been used in Chapter Six of the गीता?
Answer: The सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has been used in the form अवतिष्ठते।
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 6-18 ॥
Derivation of अवतिष्ठते is as shown in the post.
2. In the गीता can you spot a तिङन्तं पदम् in which the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has not been honored?
Answer: The सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has not been honored in the form अवतिष्ठति the following verse. As per 1-3-22, the form should have been अवतिष्ठते।
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ 14-23 ॥
3. Which सूत्रम् is used for the दीर्घादेशः in the form विदीर्यते?
Answer: The सूत्रम् 8-2-77 हलि च is used for दीर्घादेशः in the form विदीर्यते derived from √दॄ (दॄ विदारणे ९. २६).
The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
दॄ + लँट् । By 3-2-123 वर्तमाने लट्।
= दॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दॄ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= दॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= दॄ + यक् + ते । By 3-1-67 सार्वधातुके यक्। Note: Since the affix यक् is a कित्, 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= दॄ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दिर् + य + ते । By 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
= दीर्यते । By 8-2-77 हलि च – The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is elongated, when followed by a हल् (consonant.)
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + दीर्यते = विदीर्यते ।
4. Can you spot an affix “अ” in the verses?
Answer: An affix “अ” can be seen in the feminine प्रातिपदिकम् “जिज्ञासा” – derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).
The derivation of the सन्नन्त-धातुः “जिज्ञास” is as follows:
ज्ञा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= ज्ञा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= ज्ञास् ज्ञास । By 6-1-9 सन्यङोः।
= जा ज्ञास । By 7-4-60 हलादिः शेषः।
= ज ज्ञास । By 7-4-59 ह्रस्वः।
= जिज्ञास । By 7-4-79 सन्यतः।
“जिज्ञास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we form the feminine प्रातिपदिकम् “जिज्ञासा” from the सन्नन्त-धातुः “जिज्ञास”।
जिज्ञास + अ । By 3-3-102 अ प्रत्ययात् – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= जिज्ञास् + अ । By 6-4-48 अतो लोपः।
= जिज्ञास । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिज्ञास” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
= जिज्ञास + टाप् । By 4-1-4 अजाद्यतष्टाप्।
= जिज्ञास + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= जिज्ञासा । By 6-1-101 अकः सवर्णे दीर्घः।
The विवक्षा is तृतीया-एकवचनम्।
जिज्ञासा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= जिज्ञासा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= जिज्ञासे + आ । By 7-3-105 आङि चापः।
= जिज्ञासया । By 6-1-78 एचोऽयवायावः।
5. Correct the following sentence:
तत्त्वं जिज्ञासति।
Answer: तत्त्वं जिज्ञासते । ref: 1-3-57 ज्ञाश्रुस्मृदृशां सनः – A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots – √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
6. How would you say this in Sanskrit?
“Stand still for a moment.”Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use द्वितीया विभक्तिः with “क्षण”। Use the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) with the उपसर्गः “अव” for “to stand still.”
Answer: क्षणम् अवतिष्ठस्व = क्षणमवतिष्ठस्व ।
Easy Questions:
1. Where has the affix “श्यन्” been used in the verses?
Answer: The affix “श्यन्” has been used in the form नश्यति derived from √नश् (णशँ अदर्शने ४. ९१).
The beginning णकार: of “णशँ” gets replaced by a नकार: by 6-1-65 णो नः।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The beginning णकार: of “णशँ” gets replaced by a नकार: by 6-1-65 णो नः।
नश् + लँट् । By 3-2-123 वर्तमाने लट्।
= नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= नश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= नश् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन् – The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
= नश्यति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
2. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the commentary?
Answer: The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used in the form ब्रह्म (प्रातिपदिकम् “ब्रह्मन्”, नपुंसकलिङ्गे प्रथमा-एकवचनम्)।
ब्रह्मन् + सुँ । By 4-1-2 स्वौजसमौट्छस्टा…।
= ब्रह्मन् । By 7-1-23 स्वमोर्नपुंसकात् । Note: Now “ब्रह्मन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= ब्रह्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।