Home » Example for the day » सङ्गच्छन्ते 3Ap-लँट्

सङ्गच्छन्ते 3Ap-लँट्

Today we will look at the form सङ्गच्छन्ते 3Ap-लँट् from श्रीमद्भागवतम् Sb5.6.2

ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ ५-६-२ ॥
तथा चोक्तम् –
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ५-६-३ ॥

श्रीधर-स्वामि-टीका
अङ्गीकृत्य परिहरति – सत्यमिति । एके बुद्धिमन्तोऽनवस्थानस्य चञ्चलस्य मनसो विश्वासं न सङ्गच्छन्ते न सम्यक् प्राप्नुवन्ति । शठः किरातो यथा धृतेष्वपि मृगेषु । शठे किराते यथा मृगा इति सप्तम्यन्तं वा । पाठान्तरे शठो वञ्चकः किरातो वणिग्व्यवहर्तरि यथा । तस्मिन्वा व्यवहर्ता विश्वासं न यातीत्यर्थः । पाक्षिकोऽपि दोषो वर्जनीय इत्युपदेष्टुं नाभ्यनन्ददिति भावः ॥ २ ॥ यद्विश्रम्भाद्यस्य मनसो विश्वासाच्चिराच्चीर्णं बहुकालसंचितं तपश्चस्कन्द सुस्राव । ऐश्वरं विष्णोर्मोहिनीरूपदर्शनेन । यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां तपः ॥ ३ ॥

The sage (Śuka) replied: What you have observed is (quite) true; but there are some (discreet men) in this world who would never feel quite confident about their fickle mind any more than a clever hunter would about a deer (trapped by him) (2). Similarly it is said: – “One should never make friends with (rely on the friendship of) the inconstant mind; for as a result of confidence placed in it the austere vow (of chastity) – maintained for a long period – even of Lord Śiva (and other stalwarts like the celebrated sage Saubhari) was broken (3).

सङ्गच्छन्ते is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-29 समो गम्यृच्छिभ्याम् – When preceded by the the उपसर्गः “सम्” and when used intransitively, the verbal root √गम् (गमॢँ गतौ १. ११३७) or √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)
Actually the use of आत्मनेपदम् in the form सङ्गच्छन्ते cannot be grammatically justified in this verse. Please see question 2.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

(1) गम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) गम् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) गम् + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) गम् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) गछ् + अ + झे । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।

(8) गतुँक् छ् + अ + झे । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case अकारः।)

(9) गत् छ् + अ + झे । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(10) गत् छ् + अ + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(11) गत्छन्ते । By 6-1-97 अतो गुणे।

(12) गच्छन्ते । By 8-4-40 स्तोः श्चुना श्चुः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
सम् + गच्छन्ते = संगच्छन्ते । By 8-3-23 मोऽनुस्वारः
= सङ्गच्छन्ते/संगच्छन्ते । By 8-4-59 वा पदान्तस्य

Questions:

1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः (used in step 7) been used for the last time in the गीता?

2. Commenting on the form सङ्गच्छन्ते, the अन्वितार्थप्रकाशिका (which is another commentary on the श्रीमद्भागवतम्) says सकर्मकात्तङार्षः। Please explain.

3. Where has the सूत्रम् 6-4-109 ये च been used in the verses?

4. Can you recall a सूत्रम् which is a अपवादः for the सूत्रम् 7-4-60 हलादिः शेषः? Where has this अपवादः been used in the verses?

5. Why doesn’t the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति (used in the commentary)? Which condition is not satisfied?

6. How would you say this in Sanskrit?
“The form सङ्गच्छन्ते is not justified in this verse.” Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “सम्” for “to be justified (to be in harmony).”

Easy Questions:

1. Please do the पदच्छेदः of वा एके।

2. Can you spot an error in the following (compound) word – महाविद्यालयछात्त्रः।


1 Comment

  1. 1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः (used in step 7) been used for the last time in the गीता?
    Answer: The सूत्रम् 7-3-77 इषुगमियमां छः has been used in the form इच्छसि derived from धातुः √इष् (इषुँ इच्छायाम् ६. ७८).
    इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया ।
    विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 18-63 ॥

    यथा + इच्छसि = यथेच्छसि । By 6-1-87 आद्गुणः।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    इष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इष् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + श + सि । By 3-1-77 तुदादिभ्यः शः।
    = इष् + अ + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The affix “श” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः which may have been done by 7-3-86 पुगन्तलघूपधस्य च ।
    = इछ् + अ + सि । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
    = इ तुँक् छ् + असि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = इ त् छ सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इच्छसि । By 8-4-40 स्तोः श्चुना श्चुः।

    2. Commenting on the form सङ्गच्छन्ते, the अन्वितार्थप्रकाशिका (which is another commentary on the श्रीमद्भागवतम्) says सकर्मकात्तङार्षः। Please explain.
    Answer: As per the 1-3-29 समो गम्यृच्छिभ्याम् – When preceded by the उपसर्गः “सम्” and when used intransitively, the verbal root √गम् (गमॢँ गतौ १. ११३७) or √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।) Here in the above verse, the verbal root √गम् (गमॢँ गतौ १. ११३७) has been used with the उपसर्गः “सम्” in the form सङ्गच्छन्ते, but it is a transitive usage (सकर्मक-प्रयोगः।)  विश्रम्भम् is the object (कर्म) associated with सङ्गच्छन्ते। Therefore 1-3-29 should not have applied in सङ्गच्छन्ते in this verse. The use of the affix “झ” (which belongs to the तङ्-प्रत्याहारः) is आर्षः (grammatically irregular.) This is what is explained by the commentary – सकर्मकात्तङार्षः।

    3. Where has the सूत्रम् 6-4-109 ये च been used in the verses?
    Answer: The सूत्रम् 6-4-109 ये च has been used in the form कुर्यात् derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त् । By 3-4-100 इतश्च।
    = कृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = कृ + यास् त् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = कृ + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = कृ + उ + यात् । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + यात् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since as per 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च the augment यासुट् is a ङित् (has the letter ‘ङ्’ as a इत्), 1-1-5 क्क्ङिति च prevents the गुणादेश: for the letter ‘उ’ which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुर् + उ + यात् । By 6-4-110 अत उत्‌ सार्वधातुके। The fact that यासुट् is a ङित् facilitates the application of 6-4-110.
    = कुर्यात् । By 6-4-109 ये च – The letter ‘उ’ of an affix following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with the letter ‘य्’।
    Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (letter ‘उ’) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    4. Can you recall a सूत्रम् which is a अपवादः for the सूत्रम् 7-4-60 हलादिः शेषः? Where has this अपवादः been used in the verses?
    Answer: The सूत्रम् 7-4-61 शर्पूर्वाः खयः is a अपवादः for the सूत्रम् 7-4-60 हलादिः शेषः। 7-4-61 has been used in the form चस्कन्द derived from √स्कन्द् (स्कन्दिँर् गतिशोषणयोः १. ११३४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्कन्द् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्कन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्कन्द् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्कन्द् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्कन्द् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्कन्द् स्कन्द् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = क स्कन्द् + अ । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:।
    = च स्कन्द् + अ । By 7-4-62 कुहोश्चुः।
    = चस्कन्द।

    5. Why doesn’t the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति (used in the commentary)? Which condition is not satisfied?
    Answer: The वृत्ति: of 6-4-87 हुश्नुवोः सार्वधातुके says – जुहोते: श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके। The वकारः is the replacement for उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
    i) a conjunct consonant does not precede the उकारः।
    ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।
    In the form प्राप्नुवन्ति, the उकार: (of “श्नु”) is preceded by the conjunct “प्न्”। Hence condition (i) is not satisfied and 6-4-87 does not apply.
    प्राप्नुवन्ति is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आप् + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः।
    = आप् + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आप् + नु + अन्ति । By 7-1-3 झोऽन्तः।
    = आप् + न् उवँङ् + अन्ति । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, 1-1-53 ङिच्च। As explained above, 6-4-87 हुश्नुवोः सार्वधातुके does not apply.
    = आप्नुवन्ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + आप्नुवन्ति = प्राप्नुवन्ति । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “The form सङ्गच्छन्ते is not justified in this verse.” Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “सम्” for “to be justified (to be in harmony).”
    Answer: सङ्गच्छन्ते इति रूपम् अस्मिन् श्लोके न सङ्गच्छते = सङ्गच्छन्त इति रूपमस्मिञ् छ्लोके न सङ्गच्छते।

    Easy Questions:

    1. Please do the पदच्छेदः of वा एके।
    Answer: The पदच्छेदः of वा एके is वै, एके।

    वै + एके = वाय् + एके । By 6-1-78 एचोऽयवायावः।
    = वा एके । By 8-3-19 लोपः शाकल्यस्य । Note: After this 6-1-88 वृद्धिरेचि cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Can you spot an error in the following (compound) word – महाविद्यालयछात्त्रः।
    Answer: The grammatically correct form is महाविद्यालयच्छात्त्रः। This is प्रथमा-एकवचनम् of the प्रातिपदिकम् “महाविद्यालयच्छात्त्र”।

    The सन्धि-कार्यम् in the compound is as follows:
    महाविद्यालय + छात्त्र = महाविद्यालय तुँक् + छात्त्र । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = महाविद्यालय त् + छात्त्र । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = महाविद्यालय द् + छात्त्र । By 8-2-39 झलां जशोऽन्ते।
    = महाविद्यालय ज् + छात्त्र । By 8-4-40 स्तोः श्चुना श्चुः।
    = महाविद्यालयच्छात्त्र । By 8-4-55 खरि च।

    महाविद्यालयच्छात्त्र + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = महाविद्यालयच्छात्त्र + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = महाविद्यालयच्छात्त्रः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics