Today we will look at the form तपस्यसि 2As-लँट् from श्रीमद्भगवद्गीता 9.27
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 9-27 ॥
Gita Press translation – Arjuna, whatever you do, whatever you eat, whatever you offer as oblation to the sacred fire, whatever you bestow as a gift, whatever you do by way of penance, offer it all to Me.
तपश्चरसि = तपस्यसि।
First we derive the नाम-धातुः “तपस्य” as follows:
(1) तपस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(2) तपस् + अम् + क्यङ् । By 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः – The affix क्यङ् is employed after the words “रोमन्थ” and “तपस्” when they end in the accusative case and denote the object of “repeating” and “practicing” respectively.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.
(3) तपस् + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
“तपस् + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
(4) तपस्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.
Note: Here “तपस्” does not get पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् because of the नियम-सूत्रम् (limiting rule) 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Therefore 8-2-66 ससजुषो रुः cannot apply.
The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
(5) तपस्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(6) तपस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(7) तपस्य + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per the महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च – Following the नाम-धातुः “तपस्य” formed using 3-1-15, a परस्मैपदम् affix is to be used (in कर्तरि प्रयोगः।)
(8) तपस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) तपस्य + शप् + सि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(10) तपस्य + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(11) तपस्यसि । By 6-1-97 अतो गुणे।
Questions:
1. Commenting on the term कर्मणः used in the सूत्रम् 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः the तत्त्वबोधिनी says रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं सम्बन्धादेकवचनम्। Please explain.
2. Which निषेध-सूत्रम् (prohibition rule) prevents the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः from applying in the form अश्नासि? (We have not discussed this सूत्रम् in the class, but we have seen it in a prior comment.)
3. From which verbal root is the form ददासि derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनिः specifically mentions this verbal root?
4. Which सूत्रम् is used for the उकारादेशः in the form कुरुष्व?
5. How would you say this in Sanskrit?
“There is no austerity greater than Ahimsa.” For “austerity” form a feminine प्रातिपदिकम् from the नाम-धातुः “तपस्य”। Use the adjective प्रातिपदिकम् “ज्यायस्” (feminine “ज्यायसी”) for “greater” and use पञ्चमी विभक्तिः with “Ahimsa.”
6. How would you say this in Sanskrit?
“A good student treats his (own) teacher like God.” Use a नाम-धातुः for “to treat like God.” Use the adjective प्रातिपदिकम् “साधु” for “good.”
Easy Questions:
1. In the absence of 6-1-97 अतो गुणे which सूत्रम् would have applied in the last step?
2. The सूत्रम् 8-2-66 ससजुषो रुः is a अपवाद: for which सूत्रम्?
1. Commenting on the term कर्मणः used in the सूत्रम् 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः the तत्त्वबोधिनी says रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं सम्बन्धादेकवचनम्। Please explain.
Answer: In the सूत्रम् 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः the term कर्मणः has सामानाधिकरण्यम् (the state of relating to the same object) with the term रोमन्थतपोभ्याम्। The विभक्तिः of रोमन्थतपोभ्याम् could be तृतीया/चतुर्थी/पञ्चमी। But only पञ्चमी makes sense in this context. The विभक्तिः of कर्मणः could be पञ्चमी/षष्ठी। Now, terms having सामानाधिकरण्यम् generally have the same number and case. Hence we can conclude that the विभक्तिः used in कर्मणः is पञ्चमी।
How do we justify the fact that कर्मणः is एकवचनम् while रोमन्थतपोभ्याम् is द्विवचनम्? To answer this, तत्त्वबोधिनीकारः says प्रत्येकं सम्बन्धादेकवचनम् – meaning the term “कर्मन्” refers individually to “रोमन्थ” and “तपस्”। That is why एकवचनम् has been used in कर्मणः।
2. Which निषेध-सूत्रम् (prohibition rule) prevents the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः from applying in the form अश्नासि? (We have not discussed this सूत्रम् in the class, but we have seen it in a prior comment.)
Answer: The निषेध-सूत्रम् 8-4-44 शात् prevents the the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः from applying in the form अश्नासि।
अश्नासि is derived from the verbal root √अश् (अशँ भोजने ९. ५९). The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
अश् + लँट् । By 3-2-123 वर्तमाने लट्।
= अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अश् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अश् + श्ना + सि । By 3-1-81 क्र्यादिभ्यः श्ना।
= अश् + ना + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= अश्नासि । Note: 8-4-40 स्तोः श्चुना श्चुः does not apply here because of the निषेध-सूत्रम् 8-4-44 शात् – When following a शकारः, a letter of the त-वर्गः (“त्”, “थ्”, “द्”, “ध्”, “न्”) is not replaced (by 8-4-40) by a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।
3. From which verbal root is the form ददासि derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनिः specifically mentions this verbal root?
Answer: ददासि is derived from the verbal root √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०).
The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
दा + लँट् । By 3-2-123 वर्तमाने लट्।
= दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= दा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दा + शप् + सि । By 3-1-68 कर्तरि शप्।
= दा + सि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= दा + दा + सि । By 6-1-10 श्लौ।
= द + दा + सि । By 7-4-59 ह्रस्वः।
= ददासि ।
पाणिनिः specifically mentions this verbal root in the following सूत्रम् –
1-3-20 आङो दोऽनास्यविहरणे – When not used in the meaning of “to open the mouth”, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः “आङ्”, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)
4. Which सूत्रम् is used for the उकारादेशः in the form कुरुष्व?
Answer: The सूत्रम् 6-4-110 अत उत् सार्वधातुके is used for the उकारादेशः in the form कुरुष्व derived from √कृ (डुकृञ् करणे, धातु-पाठः #८. १०).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
कृ + लोँट् । By 3-3-162 लोट् च।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= कृ + से । By 3-4-80 थासस्से।
= कृ + स्व । By 3-4-91 सवाभ्यां वामौ।
= कृ + उ + स्व । By 3-1-79 तनादिकृञ्भ्य उः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
= कर् + उ + स्व । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since “स्व” is a सार्वधातुक-प्रत्यय: which is अपित्, it is ङित्-वत् by 1-2-4 सार्वधातुकमपित्, hence 1-1-5 क्क्ङिति च stops the गुणादेश: for the उकार: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= कुरु + स्व । By 6-4-110 अत उत् सार्वधातुके – When √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।
= कुरुष्व । By 8-3-59 आदेश-प्रत्यययो:।
5. How would you say this in Sanskrit?
“There is no austerity greater than Ahimsa.” For “austerity” form a feminine प्रातिपदिकम् from the नाम-धातुः “तपस्य”। Use the adjective प्रातिपदिकम् “ज्यायस्” (feminine “ज्यायसी”) for “greater” and use पञ्चमी विभक्तिः with “Ahimsa.”
Answer: अहिंसायाः ज्यायसी तपस्या न अस्ति = अहिंसाया ज्यायसी तपस्या नास्ति।
The feminine प्रातिपदिकम् “तपस्या” is derived from the नाम-धातुः “तपस्य” as follows:
तपस्य + अ । By 3-3-102 अ प्रत्ययात्।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= तपस्य् + अ । By 6-4-48 अतो लोपः।
= तपस्य । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “तपस्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
= तपस्य + टाप् । By 4-1-4 अजाद्यतष्टाप्।
= तपस्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= तपस्या । By 6-1-101 अकः सवर्णे दीर्घः।
6. How would you say this in Sanskrit?
“A good student treats his (own) teacher like God.” Use a नाम-धातुः for “to treat like God.” Use the adjective प्रातिपदिकम् “साधु” for “good.”
Answer: साधुः शिष्यः स्वम् गुरुम् देवीयति/भगवत्यति = साधुः शिष्यः स्वं गुरुं देवीयति/भगवत्यति।
देवमिवाचरति = देवीयति।
The नाम-धातुः “देवीय” is derived from the प्रातिपदिकम् “देव” as follows:
देव + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= देव + अम् + क्यच् । By 3-1-10 उपमानादाचारे।
= देव + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
“देव + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
= देव + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः।
= देवीय । By 7-4-33 क्यचि च, 1-1-52 अलोऽन्त्यस्य।
भगवन्तमिवाचरति = भगवत्यति।
The नाम-धातुः “भगवत्य” is derived from the प्रातिपदिकम् “भगवत्” as follows:
भगवत् + अम् By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= भगवत् + अम् + क्यच् । By 3-1-10 उपमानादाचारे।
= भगवत् + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
“भगवत् + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
= भगवत्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः। Now “भगवत्” does not get पद-सञ्ज्ञा because 1-4-15 नः क्ये limits 1-4-14 सुप्तिङन्तं पदम् here. Therefore 8-2-39 झलां जशोऽन्ते cannot apply.
Easy Questions:
1. In the absence of 6-1-97 अतो गुणे which सूत्रम् would have applied in the last step?
Answer: In the absence of 6-1-97 अतो गुणे the सूत्रम् which would have applied is 6-1-101 अकः सवर्णे दीर्घः – When a अक् letter is followed by a homogeneous (सवर्णः) अच् letter then in place of these two there is a single substitute of a long vowel (अच्)। This would resulted in the undesired form तपस्यासि ।
2. The सूत्रम् 8-2-66 ससजुषो रुः is a अपवाद: for which सूत्रम्?
Answer: The सूत्रम् 8-2-66 ससजुषो रुः is a अपवाद: for 8-2-39 झलां जशोऽन्ते – When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.
Note: Under the सूत्रम् 8-2-66 ससजुषो रुः the सिद्धान्त-कौमुदी makes the comment “जश्त्वापवाद:”।