Home » Example for the day » तरुणायते 3As-लँट्

तरुणायते 3As-लँट्

Today we will look at the form तरुणायते 3As-लँट् from वैराग्यशतकम्।

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ३-८ ॥

टीका

वलीभिरिति । वलीभिर्जराविश्लथचर्मरेखाभिः, मुखं वक्त्रम्, आक्रान्तम् । वैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल्येन, शिरः मस्तकम्, अङ्कितं चिह्नितम् । शिरःकेशादयो धवला जाता इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः । अवयविवाचिनो गात्रशब्दस्यावयवार्थकत्वं लक्षणया वेदितव्यम् । अवयवावयविनोरभेदविवक्षया वा । न च गात्रबाहुल्यविवक्षायां यथाश्रुतमेव समञ्जसम् । मुखं शिर इत्येकवचनप्रयोगविरोधात् । ननु तत्रापि जात्येकवचनग्रहणे न कोऽपि विरोध इति चेत्किमनेन बकबन्धप्रयासेनेत्यलमतिप्रसङ्गेन । शिथिलायन्ते शिथिलानीवाचरन्ति । जराजर्जरभावविश्लिष्टसंधिबन्धतया कार्यकरणसमर्था न जायन्त इत्यर्थः किंतु एका तृष्णा तरुणायते तरुणेवाचरति । बलिष्ठा जातेत्यर्थः । जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्यमिति भावः । उभयत्रापि ‘कर्तुः क्यङ् सलोपश्च’ इति क्यङ् । ‘अकृत्सार्वधातुकयोदीर्घः’ इति दीर्घः । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । लक्षणं तूक्तम् ॥

Translation – The face is encroached by wrinkles; the head is marked by grey hair; the limbs are slack; (but) desire alone is strong (acting young.)

तरुणीवाचरति (तरुणी + इव + आचरति) =  तरुणायते।

First we derive the नाम-धातुः “तरुणाय” as follows:

(1) तरुणी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तरुणी + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) तरुण + सुँ + क्यङ् । As per the सूत्रम् 6-3-36 क्यङ्मानिनोश्च – When followed by the affix “क्यङ्”/”मानिन्”, a feminine form not ending in the affix “ऊङ्” and having an equivalent and uniform masculine form is changed to that masculine form. Note: We have not studied this सूत्रम् in the class.

(4) तरुण + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तरुण + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) तरुण + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(6) तरुणाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “तरुणाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) तरुणाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) तरुणाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तरुणाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) तरुणाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) तरुणाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) तरुणाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) तरुणायते । By 6-1-97 अतो गुणे

Questions:

1. Where else (besides in तरुणायते) has the affix क्यङ् been used in the verses?

2. Consider the feminine प्रातिपदिकम् “विवक्षा” used in the commentary (as a part of a compound). From which verbal root is “विवक्षा” derived?

3. Can you recall a सूत्रम् (which we have studied) which is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (used in step 6)?

4. Up to which सूत्रम् does the अनुवृत्तिः of “क्यङ्” go down from 3-1-11 कर्तुः क्यङ् सलोपश्च?

5. How would you say this in Sanskrit?
“In this Kaliyuga righteousness diminishes.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness” and paraphrase “diminishes” to “acts like it is slack.”

6. How would you say this in Sanskrit?
“Even though I am old my mind is young.” Paraphrase “is young” to “acts like young.” Use the adjective प्रातिपदिकम् “वृद्ध” for “old.”

Easy Questions:

1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् ending in a ऋकारः?


1 Comment

  1. 1. Where else (besides in तरुणायते) has the affix क्यङ् been used in the verses?
    Answer: The affix क्यङ् has also been used in the form शिथिलायन्ते।

    शिथिलानीवाचरन्ति (शिथिलानि + इव + आचरन्ति) = शिथिलायन्ते।

    First we derive the नाम-धातुः “शिथिलाय” as follows:
    शिथिल + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = शिथिल + जस् + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च ।
    = शिथिल + जस् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    “शिथिल + जस् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    = शिथिल + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = शिथिलाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।

    Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “शिथिलाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    शिथिलाय + लँट् । By 3-2-123 वर्तमाने लट्।
    = शिथिलाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शिथिलाय + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शिथिलाय + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शिथिलाय + शप् + झे । By 3-1-68 कर्तरि शप्‌।
    = शिथिलाय + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शिथिलाय + अ + अन्ते । By 7-1-3 झोऽन्तः।
    = शिथिलायन्ते । By 6-1-97 अतो गुणे (applied twice.)

    2. Consider the feminine प्रातिपदिकम् “विवक्षा” used in the commentary (as a part of a compound). From which verbal root is “विवक्षा” derived?
    Answer: The feminine प्रातिपदिकम् “विवक्षा” can be derived from √वच् (वचँ परिभाषणे २. ५८) or √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९).

    i) When √वच् (वचँ परिभाषणे २. ५८) is used:
    वच् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = वच् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वच्स् वच्स । By 6-1-9 सन्यङोः।
    = व वच्स । By 7-4-60 हलादिः शेषः।
    = वि वच्स । By 7-4-79 सन्यतः।
    = वि वक्स । By 8-2-30 चोः कुः।
    = विवक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “विवक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ii) When √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is used:
    As per the सूत्रम् 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय: (in this case the affix “सन्”,) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”। The rest of the derivation is the same as above.

    It can also be derived from √वह् (वहँ प्रापणे १. ११५९). Note: In the commentary it has not been used in the meaning of √वह् (वहँ प्रापणे १. ११५९).

    iii) When √वह् (वहँ प्रापणे १. ११५९) is used the derivation is as follows:
    वह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = वह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वह्स् वह्स । By 6-1-9 सन्यङोः।
    = व वह्स । By 7-4-60 हलादिः शेषः।
    = वि वह्स । By 7-4-79 सन्यतः।
    = वि वढ्स । By 8-2-31 हो ढः।
    = वि वक्स । By 8-2-41 षढोः कः सि।
    = विवक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “विवक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we form the feminine प्रातिपदिकम् “विवक्षा” from the सन्नन्त-धातुः “विवक्ष”।
    विवक्ष + अ । By 3-3-102 अ प्रत्ययात्‌।
    Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = विवक्ष् + अ । By 6-4-48 अतो लोपः।
    = विवक्ष । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “विवक्ष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = विवक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = विवक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = विवक्षा । By 6-1-101 अकः सवर्णे दीर्घः।

    3. Can you recall a सूत्रम् (which we have studied) which is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (used in step 6)?
    Answer: The सूत्रम् 7-4-33 क्यचि च is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः। As per 7-4-33 – A ईकारः is substituted in place of a final अवर्णः (अकारः/आकारः) of a अङ्गम् when followed by the affix क्यच्।

    4. Up to which सूत्रम् does the अनुवृत्तिः of “क्यङ्” go down from 3-1-11 कर्तुः क्यङ् सलोपश्च?
    Answer: The अनुवृत्तिः of “क्यङ्” goes down from 3-1-11 कर्तुः क्यङ् सलोपश्च up to 3-1-18 सुखादिभ्यः कर्तृवेदनायाम्।

    5. How would you say this in Sanskrit?
    “In this Kaliyuga righteousness diminishes.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness” and paraphrase “diminishes” to “acts like it is slack.”
    Answer: अस्मिन् कलियुगे धर्मः शिथिलायते।

    6. How would you say this in Sanskrit?
    “Even though I am old my mind is young.” Paraphrase “is young” to “acts like young.” Use the adjective प्रातिपदिकम् “वृद्ध” for “old.”
    Answer: यदि अपि वृद्धः/वृद्धा अस्मि (तथा अपि) मम/मे मनः तरुणायते = यद्यपि वृद्धोऽस्मि/वृद्धास्मि (तथापि) मम/मे मनस्तरुणायते ।

    Easy Questions:

    1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used in the verses?
    Answer: The सूत्रम् 7-1-72 नपुंसकस्य झलचः has been used in the form गात्राणि (नपुंसकलिङ्ग-प्रातिदिकम् “गात्र”, प्रथमा-बहुवचनम्।)
    गात्र + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = गात्र + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = गात्र नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the ending अकार:) of the अङ्गम् “गात्र”।
    = गात्र न् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गात्रानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
    = गात्राणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. In the commentary can you spot a प्रातिपदिकम् ending in a ऋकारः?
    Answer: The प्रातिपदिकम् “कर्तृ” used in the form कर्तुः (पुंलिङ्गे पञ्चमी-एकवचनम्) ends in a ऋकारः।

    कर्तृ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = कर्त् ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = कर्त् उर् + स् । By 6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः।
    = कर्त् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = कर्तुः । By 8-3-15 खरवसानयोर्विसर्जनीयः ।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics