Home » Example for the day » भेजिरे 3Ap-लिँट्

भेजिरे 3Ap-लिँट्

Today we will look at the form भेजिरे 3Ap-लिँट् from श्रीमद्भागवतम् 9.20.31

जित्वा पुरासुरा देवान्ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ।। ९-२०-३१ ।।
सर्वान्कामान्दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ।। ९-२०-३२ ।।

श्रीधर-स्वामि-टीका
पुरा देवान् जित्वा येऽसुरा रसौकांसि रसातलादिस्थानाननि भेजिरे तैः प्राणिभिर्बलिभिर्देवस्त्रियो रसातलं नीताः सतीः पुनराहरदानिन्ये । प्राणिभिरन्यैर्मनुष्यादिभिः सह नीता इति वा । ‘पणिभिः’ इति पाठे पणयोऽसुरास्तैर्नीताः सतीः । यद्वा पणयो दूतास्तैर्दूतान्प्रस्थाप्याहरदित्यर्थः ।। ३१ ।। त्रिणवसाहस्त्रीः समाः सप्तविंशतिसहस्रं वत्सरान् चक्रं सेना आज्ञा वा ।। ३२ ।।

Gita Press translation “He (further) recovered wives of gods that had been carried away to Rasātala (the sixth subterranean region from above) by the demons, who having conquered the gods in the past had occupied (various) parts of Rasātala. (31) (During his reign) heaven as well as the earth yielded to his subjects all the objects of their desire. (In this way) he held sway in all the (four) quarters for thrice nine millenniums.(32)”

भेजिरे is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)

In the धातु-पाठः, “भजँ” has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भज् is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।

(1) भज् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) भज् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix “झ” is replaced.

(5) भज् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) भज् भज् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) भ भज् + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ब भज् + इरे । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(8) भेजिरे । By 6-4-122 तॄफलभजत्रपश्च, the अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
(i) लिँट् affix which is कित्, or
(ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “इरे” is a कित्-प्रत्यय: here. This allows 6-4-122 to apply.

See advanced question.

Questions:

1. Where has 8-4-54 अभ्यासे चर्च (used in step 7) been used in Chapter Fifteen of the गीता?

2. Where else (besides in भेजिरे) has 1-2-5 असंयोगाल्लिट् कित् been used in the verses?

3. Can you spot an augment “अट्” in the verses?

4. Which सूत्रम् is used for the “यण्”-आदेश: (यकार:) in the form आनिन्ये used in the commentary?

5. How would you say this in Sanskrit?
“In Sri Rama’s kingdom, all the people followed (practiced) Dharma.” Use the neuter noun “राज्य” for “kingdom” and √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) for “to follow (practice.)”

Advanced question:

1. Commenting on the सूत्रम् 6-4-122 तॄफलभजत्रपश्च (used in step 8), the तत्त्वबोधिनी says – तरतेरकारस्य गुणशब्देन भावित्वात्फलभजोर्वैरूप्यसम्पादकादेशादित्वात् त्रपतेस्त्वेकहल्मध्यस्थत्वाभावादप्राप्ते विधिरयम्। Please explain.

Easy questions:

1. Which सूत्रम् is used for the substitution “इयँङ्” in the form देवस्त्रिय: used in the verses?

2. Where has 8-2-62 क्विन्प्रत्ययस्य कुः been used in the verses?


1 Comment

  1. 1. Where has 8-4-54 अभ्यासे चर्च (used in step 7) been used in Chapter Fifteen of the गीता?
    Answer: The सूत्रम् 8-4-54 अभ्यासे चर्च is used in the form बिभर्ति derived from भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६).
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। 15-17 ।।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भृ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ + भृ + ति । By 6-1-10 श्लौ।
    = भिर् + भृ + ति । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि + भृ + ति । By 7-4-60 हलादिः शेषः।
    = भि + भर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = बिभर्ति । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

    2. Where else (besides in भेजिरे) has 1-2-5 असंयोगाल्लिट् कित् been used in the verses?
    Answer: The सूत्रम् 1-2-5 असंयोगाल्लिट् कित् been used in the form दुदुहतुः derived from √दुह् (दुहँ प्रपूरणे २. ४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    दुह् + लिँट् । By 3-2-115 परोक्षे लिँट।
    = दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दुह् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दुह् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, “अतुस्” is a कित् here. This allows 1-1-5 ग्क्ङिति च to block 7-3-86 पुगन्तलघूपधस्य च।
    = दुह् दुह् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = दु दुह् + अतुस् । By 7-4-60 हलादिः शेषः।
    = दुदुहतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Can you spot an augment “अट्” in the verses?
    Answer: “अट्”-आगमः has been used in the words आहरत् and अवर्तयत्

    आहरत् is derived from √हृ (हृञ् हरणे १. १०४६)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + त् । By 3-4-100 इतश्च।
    = हृ + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हर् + शप् + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = हर् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् हरत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।
    = अहरत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + अहरत् = आ + अहरत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आहरत् । By 6-1-101 अकः सवर्णे दीर्घः।

    अवर्तयत् is derived from √वृत् (वृतुँ वर्तने १. ८६२)
    The विवक्षा is लँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    वृत् + णिच् । By 3-1-26 हेतुमति च।
    = वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर्ति । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “वर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वर्ति + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च।
    = वर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + त् । By 3-4-100 इतश्च।
    = वर्ति + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = वर्ति + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर्ते + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = वर्तयत् । By 6-1-78 एचोऽयवायावः।
    = अट् वर्तयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।
    = अवर्तयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Which सूत्रम् is used for the “यण्”-आदेश: (यकार:) in the form आनिन्ये used in the commentary?
    Answer: The सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य is used for the “यण्”-आदेश: (यकार:) in the form आनिन्ये, derived from √नी (णीञ् प्रापणे १. १०४९).

    The beginning णकारः of “णीञ्” takes नकार-आदेशः by 6-1-65 णो नः। The ending ञकारः gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नी + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = नी + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = नी + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी नी + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = नि नी + ए । By 7-4-59 ह्रस्वः।
    = निन्ये । By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – If the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (इकारः or ईकारः) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।

    Note: 6-1-77 इको यणचि would not have worked here, because it is overruled by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + निन्ये = आनिन्ये । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. How would you say this in Sanskrit?
    “In Sri Rama’s kingdom, all the people followed (practiced) Dharma.” Use the neuter noun “राज्य” for “kingdom” and √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) for “to follow (practice.)”
    Answer: श्रीरामस्य राज्ये सर्वे जनाः धर्मम् भेजिरे = श्रीरामस्य राज्ये सर्वे जना धर्मं भेजिरे।

    Advanced question:

    1. Commenting on the सूत्रम् 6-4-122 तॄफलभजत्रपश्च (used in step 8), the तत्त्वबोधिनी says – तरतेरकारस्य गुणशब्देन भावित्वात्फलभजोर्वैरूप्यसम्पादकादेशादित्वात् त्रपतेस्त्वेकहल्मध्यस्थत्वाभावादप्राप्ते विधिरयम्। Please explain.

    Answer: The statement “तरतेरकारस्य गुणशब्देन भावित्वात्फलभजोर्वैरूप्यसम्पादकादेशादित्वात् त्रपतेस्त्वेकहल्मध्यस्थत्वाभावादप्राप्ते विधिरयम्।” explains why the सूत्रम् 6-4-122 तॄफलभजत्रपश्च is required (why 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि would not work) in the case of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्).

    (1) Application of 6-4-122 तॄफलभजत्रपश्च in the case of √तॄ (तॄ प्लवनतरणयोः १. ११२४). Consider the form तेरतु: –
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    तॄ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तॄ + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = तॄ + तॄ + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = तर् + तॄ + अतुस् । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = त + तॄ + अतुस् । By 7-4-60 हलादिः शेषः।
    = त + तर् + अतुस् । 7-4-11 ऋच्छत्यॄताम्, 1-1-51 उरण् रपरः।
    Note: At this step, the सूत्रम् 6-4-126 न शसददवादिगुणानाम् (A अकार: which is prescribed using the term “गुण” and the अकार: of the verbal roots √शस् (शसुँ हिंसायाम् १. ८२८), √दद् (ददँ दाने १. १७) as well as that of a verbal root beginning with a वकार: shall not be subject to the operations (एत्वम्, अभ्यासलोप:)) prohibits 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि। That is why the सूत्रम् 6-4-122 तॄफलभजत्रपश्च is required in the following step. This is what is meant by “तरतेरकारस्य गुणशब्देन भावित्वात्”।
    = तेरतुस् । By 6-4-122 तॄफलभजत्रपश्च।
    = तेरतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    (2) Application of 6-4-122 तॄफलभजत्रपश्च in the case of √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८). Consider the form फेलतु: –
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    फल् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = फल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = फल् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = फल् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = फल् फल् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = फ फल् + अतुस् । By 7-4-60 हलादिः शेषः।
    = प फल् + अतुस् । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    Note: The “चर्”-आदेशः (पकारः) done by 8-4-54 is based on लिँट् (because लिँट् is the cause for अभ्यासः and 8-4-54 acts on the अभ्यासः)। Hence 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (which requires that in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix) cannot be applied. That is why the सूत्रम् 6-4-122 तॄफलभजत्रपश्च is required in the following step. This is what is meant by “फलभजोर्वैरूप्यसम्पादकादेशादित्वात्”।
    = फेलतुस् । By 6-4-122 तॄफलभजत्रपश्च।
    = फेलतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    (3) Similarly, 6-4-122 तॄफलभजत्रपश्च is required in the case of √भज् (भजँ सेवायाम् १. ११५३) in forms like भेजतु:।

    (4) Application of 6-4-122 तॄफलभजत्रपश्च in the case of √त्रप् (त्रपूँष् लज्जायाम् १. ४३४). Consider the form त्रेपे –
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    त्रप् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = त्रप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्रप् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = त्रप् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = त्रप् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्रप् + त्रप् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = त + त्रप् + ए । By 7-4-60 हलादिः शेषः।
    Note: 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (which requires that the अकार: be preceded and followed by a single (non-conjunct) consonant) cannot be applied here. That is why the सूत्रम् 6-4-122 तॄफलभजत्रपश्च is required in the following step. This is what is meant by “त्रपतेस्त्वेकहल्मध्यस्थत्वाभावात्”।
    = त्रेपे । By 6-4-122 तॄफलभजत्रपश्च ।

    Easy questions:

    1. Which सूत्रम् is used for the substitution “इयँङ्” in the form देवस्त्रिय: used in the verses?
    Answer: The सूत्रम् 6-4-79 स्त्रिया: is used for the “इयँङ्”-आदेश: in the form देवस्त्रिय: (प्रातिपदिकम् “देवस्त्री”, प्रथमा-बहुवचनम्)।
    देवस्त्री + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = देवस्त्री + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = देवस्त्र् इयँङ् + अस् । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “देवस्त्री” is replaced by “इयँङ्”।
    = देवस्त्रिय् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = देवस्त्रिय: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has 8-2-62 क्विन्प्रत्ययस्य कुः been used in the verses?
    Answer: The सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः has been used in the word दिक्षु (स्त्रीलिङ्ग-प्रातिपदिकम् “दिश्”, सप्तमी-बहुवचनम्)।
    As per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, the प्रातिपदिकम् “दिश्” is a ready-made term ending in the affix क्विन्।

    दिश् + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = दिश् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The अङ्गम् “दिश्” gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = दिष् + सु । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = दिड् + सु । By 8-2-39 झलां जशोऽन्ते।
    = दिग् + सु । By 8-2-62 क्विन्प्रत्ययस्य कुः, the terms that can take the affix क्विन्, take the क-वर्ग: consonants as a replacement for their last letter, when they occur at the end of a पदम्।
    = दिग् + षु । By 8-3-59 आदेशप्रत्यययोः।
    = दिक्षु । By 8-4-55 खरि च।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics