Today we will look at the form कृषीष्ट 3As-आशीर्लिँङ् from श्रीमद्भागवतम् 5.10.24.
शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ।। ५-१०-२३ ।।
तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः ।। ५-१०-२४ ।।
श्रीधर-स्वामि-टीका –
यदुक्तं स्वस्वाम्यभावो ध्रुव इति तत्राह – शास्तेति । अध्रुवत्वेऽपि यदा यो नृपतिः स प्रजानां शास्ता गोप्ता च । यच्चोक्तं स्तब्धादेः शिक्षा पिष्टपेष इति तत्राह – योऽच्युतस्य किङ्करः स पिष्टं न पिनष्टि निष्फलं न करोति । स्तब्धत्वाद्यनपगमेऽपि शास्तुरीश्वराज्ञासंपादनेनैव सफलत्वात्तदाह । स्वधर्मरूपमच्युतस्याराधनं कुर्वन्यस्मादघौघं विजहाति ।। ३३ ।। यस्मादेवं मम त्वदुक्तं विपरीतं प्रतिभाति तत्तस्मान्नरदेवाभिमानमदेन तुच्छीकृतास्तिरस्कृताः सत्तमा भवादृशा येन तस्य मे मैत्रीदृशं स्नेहयुक्तां दृष्टिं कृषीष्ट करोतु । सतामवज्ञारूपं पापं यथा तरिष्यामि ।। २४ ।।
Gita Press translation “(Granted that the relation of master and servant subsisting between a ruler and his subjects is not permanent or unchangeable) a king is (nevertheless for the time being) the ruler and protector of the people. He who is a servant (of the Lord, that is, he who does his duty as a piece of service to the Lord) does not grind what is already ground (undertake an unprofitable business), for (although he may not be able to rid a dunce of his stupidity by upbraiding him for his remissness, he thereby carries out the Lord’s behests and) by offering worship to the Lord in the shape of performing his duty he is able to get rid of his stock of sins.(23) Therefore, may you be pleased, O friend of the afflicted, to cast a kindly look on me, who have slighted the most holy (like you) through vanity arising from consciousness of my being a ruler of men, so that I may (be able to) get rid of the sin incurred by showing disrespect to pious souls.(24)”
कृषीष्ट is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)
The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः।
Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।
The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.
(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।
(4) कृ + सीयुट् त । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।
(5) कृ + सीय् त । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
(6) कृ + सीय् सुट् त । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the तकार:।
(7) कृ + सीय् स् त । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
(8) कृ + सीस्त । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for the प्रत्यय: “सीस्त”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।
Hence as per 1-2-12 उश्च, the affix “सीस्त” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
(9) कृ + षीष् त । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)
(10) कृषीष्ट । By 8-4-41 ष्टुना ष्टुः।
Questions:
1. Where has the “सीयुट्”-आगम: (used in step 4 of the example) been used in Chapter Six of the गीता?
2. What is the प्रातिपदिकम् used in the word “उ:” in the सूत्रम् 1-2-12 उश्च (used in step 8)?
3. Can you spot a “श्लु” elision in the verses?
4. Why doesn’t the सूत्रम् 7-1-100 ॠत इद्धातोः apply in the form तरिष्यामि used in the commentary?
5. Which सूत्रम् is used to bring in the “श्नम्”-प्रत्यय: in the form पिनष्टि used in the verses?
6. How would you say this in Sanskrit?
“May I do that which would please (my) teacher.” or “I wish I do that which would please (my) teacher.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “teacher.” Use the pronouns “यद्” and “तद्”।
Easy questions:
1. Where has the सूत्रम् 6-1-111 ऋत उत् been used in the commentary?
2. Derive the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। Note: “भवत्” ends in the प्रत्यय: “डवतुँ”।
Questions:
1. Where has the “सीयुट्”-आगम: (used in step 4 of the example) been used in Chapter Six of the गीता?
Answer: The “सीयुट्”-आगम: has been used in the form वर्तेत in verse 6 and in the form आसीत in verse 14 of Chapter 6.
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।। 6-6 ।।
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।। 6-14 ।।
वर्तेत is derived from the धातुः √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
वृत् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वृत् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the “सीयुट्”-आगमः at the beginning of “त”-प्रत्ययः।
= वृत् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= वृत् + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
= वृत् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वर् त् + अ + सीय् त । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
= वर् त् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= वर् त् + अ + ई त । By 6-1-66 लोपो व्योर्वलि।
= वर्तेत । गुणादेशः by 6-1-87 आद्गुणः।
आसीत is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
आस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आस् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= आस् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the “सीयुट्”-आगमः at the beginning of “त”-प्रत्ययः।
= आस् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= आस् + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
= आस् + सीय् त । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= आस् + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= आसीत । By 6-1-66 लोपो व्योर्वलि।
2. What is the प्रातिपदिकम् used in the word “उ:” in the सूत्रम् 1-2-12 उश्च (used in step 8)?
Answer: उः is the पञ्चमी-एकवचनम् of the प्रातिपदिकम् “ऋ”।
ऋ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= उर् + स् । By 6-1-111 ऋत उत्, 1-1-51 उरण् रपरः।
= उर् । By 8-2-23 संयोगान्तस्य लोपः, 8-2-24 रात् सस्य।
= उः । By 8-3-15 खरवसानयोर्विसर्जनीयः।
3. Can you spot a “श्लु” elision in the verses?
Answer: “श्लु” elision has happened in the derivation of the form विजहाति derived from the धातुः √हा (ओँहाक् त्यागे, धातु-पाठः #३.९)।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
हा + लँट् । By 3-2-123 वर्तमाने लट्।
= हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + शप् + ति । By 3-1-68 कर्तरि शप्।
= हा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
= हा हा + ति । By 6-1-10 श्लौ।
= झा हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= झ हा + ति । By 7-4-59 ह्रस्वः।
= जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + जहाति = विजहाति।
4. Why doesn’t the सूत्रम् 7-1-100 ॠत इद्धातोः apply in the form तरिष्यामि used in the commentary?
Answer: The form तरिष्यामि is derived from √तॄ (तॄ प्लवनतरणयोः १. ११२४)। The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
= तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तॄ + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= तॄ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तॄ + स्य + मि । 3-1-33 स्यतासी लृलुटोः।
= तॄ + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= तॄ + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तर् + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
Note: The सूत्रम् 7-1-100 ॠत इद्धातोः does not apply here (instead of 7-3-84 सार्वधातुकार्धधातुकयोः) because the सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः (which is a later सूत्रम् in the अष्टाध्यायी compared to 7-1-100) gets precedence over 7-1-100 by 1-4-2 विप्रतिषेधे परं कार्यम्। Once 7-3-84 applies there is no scope for 7-1-100 to apply because there is no ॠकार: any more.
= तरिस्यामि । By 7-3-101 अतो दीर्घो यञि।
= तरिष्यामि । By 8-3-59 आदेशप्रत्यययो:।
5. Which सूत्रम् is used to bring in the “श्नम्”-प्रत्यय: in the form पिनष्टि used in the verses?
Answer: The “श्नम्”-प्रत्यय: in the form पिनष्टि is prescribed by the सूत्रम् 3-1-78 रुधादिभ्यः श्नम्।
पिनष्टि is derived from the धातुः √पिष् (रुधादि-गणः, पिषॢँ सञ्चूर्णने, धातु-पाठः # ७. १५)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
पिष् + लँट् । By 3-2-123 वर्तमाने लट्।
= पिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पिष् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= पिष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पि श्नम् ष् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (इकार:) of the अङ्गम् “पिष्”।
= पिनष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= पिनष्टि । By 8-4-41 ष्टुना ष्टुः।
6. How would you say this in Sanskrit?
“May I do that which would please (my) teacher.” or “I wish I do that which would please (my) teacher.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “teacher.” Use the pronouns “यद्” and “तद्”।
Answer: यत् गुरवे रोचेत तत् कृषीय = यद् गुरवे रोचेत तत् कृषीय।
Easy questions:
1. Where has the सूत्रम् 6-1-111 ऋत उत् been used in the commentary?
Answer: The सूत्रम् 6-1-111 ऋत उत् been used in the form शास्तुः (प्रातिपदिकम् “शास्तृ”, पुंलिङ्गे, षष्ठी-एकवचनम्)।
शास्तृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= शस्त् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= शास्त् उर् + स् । By 6-1-111 ऋत उत् – The short उकारः shall be a single substitute in the place of the short ऋकारः and the following short अकारः of the affixes “ङसिँ” or “ङस्”। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
= शास्त् उर् । By 8-2-23 संयोगान्तस्य लोपः, 8-2-24 रात् सस्य।
= शास्तुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Derive the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। Note: “भवत्” ends in the प्रत्यय: “डवतुँ”।
Answer:
भवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= भवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भवात् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
Note: 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
= भवा नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः।
= भवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भवान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
= भवान् । By 8-2-23 संयोगान्तस्य लोपः।
Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।