Home » Example for the day » विनशिष्यन्ति 3Ap-लृँट्

विनशिष्यन्ति 3Ap-लृँट्

Today we will look at the form विनशिष्यन्ति 3Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 3.48.22.

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ।। ३-४८-२० ।।
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ।। ३-४८-२१ ।।
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ।। ३-४८-२२ ।।

Gita Press translation “Enraged when spoken to as aforesaid, Sītā (a princess of the Videha territory) for her part with blood-red eyes addressed the following harsh words to Rāvaṇa (the suzerain lord of ogres) in that lonely place : – (20) “How after calling god Kubera (son of Viśravā), who is hailed by all gods, your (half-) brother, do you seek to perpetrate a foul deed ? (21) All ogres, O Rāvaṇa, will inevitably perish inasmuch as you – who are (so) hardhearted and evil-minded and have not been able to subdue your senses – are their ruler.(22)”

नशिष्यन्ति is derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “नशँ” has a उदात्त-स्वरः। Thus √नश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √नश् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) नश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नश् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) नश् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) नश् + इट् स्य + झि । The प्रत्यय: “स्य” optionally takes a “इट्”-आगम: here as per 7-2-45 रधादिभ्यश्च – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(6) नशिस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) नशिस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) नशिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(9) नशिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + नशिष्यन्ति = विनशिष्यन्ति ।

Questions:

1. Where has √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१) been used with लृँट् in the गीता?

2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)? Why doesn’t it apply in this example? (Which condition is not satisfied?)

3. Commenting on the सूत्रम् 7-2-45 रधादिभ्यश्च (used in step 5), the तत्त्वबोधिनी says – “स्वरतिसूति..” इत्यतो वेत्यनुवर्तते। योगविभागो वैचित्र्यार्थः। Please explain.

4. Which सूत्रम् is used for the “ईट्”-आगम: in the form अब्रवीत्?

5. Where has 7-3-77 इषुगमियमां छः been used in the verses?

6. How would you say this in Sanskrit?
“The truth will never perish.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार: (letter “न्”)?

2. Where has 7-1-17 जसः शी been used in the verses?


1 Comment

  1. 1. Where has √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१) been used with लृँट् in the गीता?
    Answer: मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।
    अथ चेत्वमहाङ्‍कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 18-58 ॥

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    नश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
    = नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नश् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।
    = नश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नश् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
    = नश् + स्य + सि । The प्रत्यय: “स्य” optionally takes a “इट्”-आगम: here as per 7-2-45 रधादिभ्यश्च – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७). In the present example, the optional “इट्”-आगम: has not applied.
    = न नुँम् श् + स्य + सि । By 7-1-60 मस्जिनशोर्झलि, when followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel (अकार:) in the अङ्गम् “नश्”।
    = न न् श् + स्य + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = न न् ष् + स्यसि । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
    = न न् क् + स्यसि । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
    = नं क् + स्यसि । By 8-3-34 नश्चापदान्तस्य झलि, नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.
    = नं क् + ष्यसि । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
    = नङ्क्ष्यसि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + नङ्क्ष्यसि = विनङ्क्ष्यसि ।

    2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)? Why doesn’t it apply in this example? (Which condition is not satisfied?)
    Answer: 7-1-60 मस्जिनशोर्झलि – When followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्।
    In the present example विनशिष्यन्ति, after attaching the optional augment इट् (by 7-2-45 रधादिभ्यश्च) to the affix “स्य”, we have नश् + इस्य + झि। Now since the affix “इस्य” does not begin with a झल् letter, 7-1-60 मस्जिनशोर्झलि does not apply.

    3. Commenting on the सूत्रम् 7-2-45 रधादिभ्यश्च (used in step 5), the तत्त्वबोधिनी says – “स्वरतिसूति..” इत्यतो वेत्यनुवर्तते। योगविभागो वैचित्र्यार्थः। Please explain.
    Answer: “स्वरतिसूति..” इत्यतो वेत्यनुवर्तते। (= “7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा” इति अत: “वा” इति अनुवर्तते।) means that the अनुवृत्ति: of “वा” comes in to the सूत्रम् 7-2-45 रधादिभ्यश्च from the सूत्रम् 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा। Now the question arises – why has पाणिनि: separated the two rules 7-2-44 and 7-2-45. Why not combine into one rule? The answer is योगविभागो वैचित्र्यार्थः। (= योगविभागः वैचित्र्य-अर्थः।) means that the grammatical rule has been separated into two parts for the sake of वैचित्र्यम् – simply for the sake of variety without any specific purpose in view!

    4. Which सूत्रम् is used for the “ईट्”-आगम: in the form अब्रवीत्?
    Answer: The सूत्रम् 7-3-93 ब्रुव ईट् is used to get the “ईट्”-आगम: in the form अब्रवीत् which is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त् । By 3-4-100 इतश्च।
    = ब्रू + शप् + त् । By 3-1-68 कर्तरि शप् ।
    = ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ईट् attaches to the beginning of the प्रत्यय:।
    = ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ईत् । “अव्”-आदेशः by 6-1-78 एचोऽयवायावः।
    = अट् ब्रव् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Where has 7-3-77 इषुगमियमां छः been used in the verses?
    Answer: 7-3-77 इषुगमियमां छः has been used in इच्छसि, which is derived from the धातुः √इष् (इषुँ इच्छायाम् ६. ७८).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    इष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इष् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + श + सि । By 3-1-77 तुदादिभ्यः शः।
    = इष् + अ + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The affix “श” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 ग्क्ङिति च stops the गुणादेशः which may have been done by 7-3-86 पुगन्तलघूपधस्य च ।
    = इछ् + अ + सि । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
    = इ तुँक् छ् + असि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = इ त् छ सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इच्छसि । By 8-4-40 स्तोः श्चुना श्चुः।

    6. How would you say this in Sanskrit?
    “The truth will never perish.”
    Answer: सत्यम् न कदा अपि विनङ्क्ष्यति/विनशिष्यति = सत्यं न कदापि विनङ्क्ष्यति/विनशिष्यति ।

    Easy questions:

    1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार: (letter “न्”)?
    Answer: A प्रातिपदिकम् which ends in a नकार: is the पुंलिङ्ग-प्रातिपदिकम् “राजन्” used in the form राजा (प्रथमा-एकवचनम्)।
    राजन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = राजन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = राजान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
    = राजान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “राजान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = राजा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where has 7-1-17 जसः शी been used in the verses?
    Answer: 7-1-17 जसः शी has been used in the form सर्वे (सर्वनाम-प्रातिपदिकम् “सर्व”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    सर्व + जस् । By 4-1-2 स्वौजसमौट्…।
    = सर्व + शी । By 7-1-17 जसः शी – Following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix “जस्” is replaced by “शी”।
    = सर्व + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सर्वे । By 6-1-87 आद्‍गुणः। (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

March 2012
M T W T F S S
« Feb   Apr »
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics