Today we will look at the form अवतारः mNs from श्रीमद्भागवतम् 1.1.13.
तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ।। १-१-१३ ।।
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ।। १-१-१४ ।।
श्रीधर-स्वामि-टीका
अङ्ग हे सूत, तन्नोऽनुवर्णयितुमर्हसि । सामान्यतस्तावद्यस्यावतारो भूतानां क्षेमाय पालनाय । भवाय समृद्धये ।। १३ ।। तत्प्रभावमनुवर्णयंतस्तद्यशःश्रवणौत्सुक्यमाविष्कुर्वन्ति – आपन्न इति त्रिभिः । संसृतिमापन्नः प्राप्तः । विवशोऽपि गृणन् । ततः संसृतेः । अत्र हेतुः – यद्यतो नाम्नो भयमपि स्वयमेव बिभेति ।। १४ ।।
Gita Press translation – Dear Sūta, please explain it to us who are keen to hear of the same; for the Lord’s descent on this earth is intended for the protection and prosperity of all living beings (13). Anyone who has fallen into the terrible whirlpool of birth and death can be speedily delivered from the same if he utters His Name even helplessly; for Fear itself is afraid of the Lord (14).
अवतरत्यस्मिन् रूपे शरीरे वेत्यवतारो रूपं शरीरं वा।
The पुंलिङ्ग-प्रातिपदिकम् ‘अवतार’ is derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्ग: ‘अव’।
(1) अव तॄ + घञ् । By 3-3-120 अवे तॄस्त्रोर्घञ् – To denote the instrument or the locus of the action, the affix घञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४) and √स्तॄ (स्तॄञ् आच्छादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118 पुंसि संज्ञायां घः प्रायेण।
(2) अव तॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(3) अव तर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
(4) अवतार । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
‘अवतार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।
The विवक्षा is प्रथमा-एकवचनम्।
(5) अवतार + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(6) अवतार + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
(7) अवतार: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. Where has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in Chapter Two of the गीता?
2. Can you recall another सूत्रम् (besides 3-3-120 अवे तॄस्त्रोर्घञ् used in step 1) in which पाणिनि: specifically mentions the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४)?
3. From which verbal root is the प्रातिपदिकम् ‘आपन्न’ derived?
4. Which सूत्रम् prescribes the ह्रस्वादेश: (shortening of a vowel) in the word गृणन्?
5. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?
6. How would you say this in Sanskrit?
“It is impossible to exhaustively describe all the descents of the Lord.” Use अशेषेण as an adverb for ‘exhaustively.’
Easy questions:
1. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?
2. Which सूत्रम् prescribes the augment ‘सीयुट्’ in the word विमुच्येत?
1. Where has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in Chapter Two of the गीता?
Answer: The verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) has been used in the form व्यतितरिष्यति in Chapter Two of the गीता –
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 2-52||
The verbal root √तॄ has no इत् letters in the धातु-पाठ:। Thus √तॄ is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √तॄ takes परस्मैपद-प्रत्यया: by default.
The विवक्षा here is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
= तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तॄ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= तॄ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= तॄ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
= तॄ + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
Note: √तॄ is not अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात् cannot block 7-2-35.
= तॄ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= तरिष्यति । By 8-3-59 आदेशप्रत्यययो:।
‘वि’ and ‘अति’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि अति + तरिष्यति = व्यतितरिष्यति । By 6-1-77 इको यणचि।
2. Can you recall another सूत्रम् (besides 3-3-120 अवे तॄस्त्रोर्घञ् used in step 1) in which पाणिनि: specifically mentions the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४)?
Answer: पाणिनि: specifically mentions the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) in the सूत्रम् 6-4-122 तॄफलभजत्रपश्च also – The letter ‘अ’ of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes the letter ‘ए’ as a substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the affix following is either a –
(i) लिँट् affix which is कित् (has the letter ‘क्’ as a इत्), or
(ii) ‘थल्’ (मध्यम-पुरुष-एकवचनम्) affix which has taken the augment ‘इट्’।
3. From which verbal root is the प्रातिपदिकम् ‘आपन्न’ derived?
Answer: The प्रातिपदिकम् ‘आपन्न’ is derived from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्गः ‘आङ्’।
आङ् पद् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
= आ पद् + त । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात् prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
= आ पन् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – The letter ‘न्’ is the replacement in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: (the letter ‘र्’) or the letter ‘द्’ and also in place of the letter ‘द्’ which immediately precedes a निष्ठा affix.
Thus there are two cases:
(i) The letter ‘त्’ of a निष्ठा affix is immediately following a रेफ:। In this case the letter ‘त्’ is replaced by the letter ‘न्’।
(ii) The letter ‘त्’ of a निष्ठा affix is immediately following the letter ‘द्’। In this case the letter ‘त्’ (of the निष्ठा affix) as well as the letter ‘द्’ (of the धातु:) is replaced by the letter ‘न्’।
‘आपन्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
4. Which सूत्रम् prescribes the ह्रस्वादेश: (shortening of a vowel) in the word गृणन्?
Answer: The सूत्रम् 7-3-80 प्वादीनां ह्रस्वः prescribes the ह्रस्वादेश: in the word गृणन् (प्रातिपदिकम् ‘गृणत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
The प्रातिपदिकम् ‘गृणत्’ is derived from the verbal root √गॄ (गॄ शब्दे ९. ३३) as follows –
गॄ + लँट् । By 3-2-123 वर्तमाने लट्।
= गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गॄ + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= गॄ + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= गॄ + श्ना + अत् । By 3-1-81 क्र्यादिभ्यः श्ना। Note: Since the सार्वधातुकम् affix ‘श्ना’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending letter ‘ॠ’ of the अङ्गम् ‘गॄ’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= गॄ + ना + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= गृ + ना + अत् । By 7-3-80 प्वादीनां ह्रस्वः – A short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots पूञ् etc., when a ‘शित्’ affix (an affix having the letter ‘श्’ as a इत्) follows.
The following are the twenty-four roots:
(1) पूञ् पवने ९. १४
(2) लूञ् छेदने ९. १६
(3) स्तॄञ् आच्छादने ९. १७
(4) कॄञ् हिंसायाम् ९. १८
(5) वॄञ् वरणे ९. १९
(6) धूञ् कम्पने ९. २०
(7) शॄ हिंसायाम् ९. २१
(8) पॄ पालनपूरणयोः ९. २२
(9) वॄ वरणे | भरण इत्येके ९. २३
(10) भॄ भर्त्सने | भरणेऽप्येके ९. २४
(11) मॄ हिंसायाम् ९. २५
(12) दॄ विदारणे ९. २६
(13) जॄ वयोहानौ ९. २७
(14) झॄ [वयोहानौ] इत्येके ९. २८
(15) धॄ [वयोहानौ] इत्यन्ये ९. २९
(16) नॄ नये ९. ३०
(17) कॄ हिंसायाम् ९. ३१
(18) ॠ गतौ ९. ३२
(19) गॄ शब्दे ९. ३३
(20) ज्या वयोहानौ ९. ३४
(21) री गतिरेषणयोः ९. ३५
(22) ली श्लेषणे ९. ३६
(23) व्ली वरणे ९. ३७
(24) प्ली गतौ ९. ३९
= गृ + न् + अत् । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुकम् affix ‘अत्’ (‘शतृँ’) is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as इत्। This allows 6-4-112 to apply.
= गृणत् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् ।
The derivation of गृणन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘गृणत्’ is as follows:
गृणत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= गृणत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= गृण नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘गृणत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
= गृणन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= गृणन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। ‘गृणन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= गृणन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।
5. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?
Answer: The सूत्रम् 6-4-16 अज्झनगमां सनि has been used in the derivation of the सन्नन्त-धातुः ‘शुश्रूष’ used in the form शुश्रूषमाणानाम् (प्रातिपदिकम् ‘शुश्रूषमाण’, पुंलिङ्गे षष्ठी-बहुवचनम्)।
Please see the following post for the derivation of the सन्नन्त-धातुः ‘शुश्रूष’
http://avg-sanskrit.org/2012/07/02/शुश्रूषध्वम्-2ap-लोँट्/
The प्रातिपदिकम् ‘शुश्रूषमाण’ is derived from the सन्नन्त-धातुः ‘शुश्रूष’ as follows –
शुश्रूष + लँट् । By 3-2-123 वर्तमाने लट्।
= शुश्रूष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शुश्रूष + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-57 ज्ञाश्रुस्मृदृशां सनः।
= शुश्रूष + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्,, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= शुश्रूष + शप् + आन । By 3-1-68 कर्तरि शप्।
= शुश्रूष + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= शुश्रूष + आन । By 6-1-97 अतो गुणे।
= शुश्रूष मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
= शुश्रूष म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शुश्रूषमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। । ‘शुश्रूषमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
6. How would you say this in Sanskrit?
“It is impossible to exhaustively describe all the descents of the Lord.” Use अशेषेण as an adverb for ‘exhaustively.’
Answer: भगवतः सर्वे अवताराः अशेषेण अनुवर्णयितुम् न शक्यन्ते = भगवतः सर्वेऽवतारा अशेषेणानुवर्णयितुं न शक्यन्ते।
Easy questions:
1. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?
Answer: The सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः has been used in the form बिभेति derived from the verbal root √भी (ञिभी भये ३. २).
Please see answer to question 4 in the following comment for derivation of the form बिभेति – http://avg-sanskrit.org/2012/01/06/आददे-3as-लिँट्/#comment-3108
2. Which सूत्रम् prescribes the augment ‘सीयुट्’ in the word विमुच्येत?
Answer: The सूत्रम् 3-4-102 लिङस्सीयुट् prescribes the augment ‘सीयुट्’ in the word विमुच्येत – derived from the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) # ६. १६६).
The विवक्षा is विधिलिँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
मुच् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मुच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= मुच् + यक् + त । By 3-1-67 सार्वधातुके यक्।
Note: Since the affix यक् is a कित् (has the letter ‘क्’ as a इत्), 1-1-5 क्क्ङिति च stops the गुण: substitution (in place of the penultimate letter ‘उ’ of the अङ्गम् ‘मुच्’) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= मुच्य + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मुच्य + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get ‘सीयुट्’ as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘सीयुट्’ is placed before the affix ‘त’।
= मुच्य + सीय् त । By The letter ‘उ’ in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= मुच्य + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= मुच्य + ई त । By 6-1-66 लोपो व्योर्वलि।
= मुच्येत । By 6-1-87 आद्गुणः।
‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + मुच्येत = विमुच्येत ।