Today we will look at the form भ्रमति स्म 3As-लँट् from श्रीमद्भागवतम् 10.75.39.
जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ १०-७५-३८ ॥
स व्रीडितोऽवाग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् । बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥ १०-७५-३९ ॥
श्रीधर-स्वामि-टीका –
भुवो भरं भारं जिहीर्षुरिति । अद्य संपादितेन कलहबीजेन कुरूणां संहारं करिष्यामीति मत्वेति । किंच यस्य दृशा दृष्टिमात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप । मयमाया तु निमित्तमात्रम् । स भूभारहरणबीजं दुर्योधनस्य भ्रमं भीमादिहास्येन च तस्य पराभवं विधाय तूष्णीमासीदित्यर्थः ॥ ३९ ॥
Gita Press translation – Dear Parīkṣit! Bhīma, the royal ladies and other princes laughed when they saw him fall, notwithstanding Yudhiṣṭhira’s remonstrances, being encouraged by a gesture from Śrī Kṛṣṇa (38). Duryodhana was abhashed at this discomfiture. Burning with rage, and with his face cast down, he silently left the Hall and immediately departed for Hastināpura. The incident raised a cry of dismay from all good people and Yudhiṣṭhira felt perturbed over it as it were. Bhagavān Śrī Kṛṣṇa, however kept quiet over the incident, intent as He was upon relieving the burden of the earth. In fact, it was His enchanting look which threw Duryodhana into confusion and brought about the incident.
भ्रमति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५).
In the धातु-पाठः, “भ्रमुँ” has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √भ्रम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भ्रम् takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) भ्रम् + लँट् । By 3-2-118 लट् स्मे – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, provided that the action is unperceived by the narrator. Note: This सूत्रम् is a अपवादः (exception) for 3-2-115 परोक्षे लिट्।
(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
(4) भ्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(5) भ्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= भ्रमति ।
Questions:
1. Where has भ्रमति been used in the गीता?
2. What would be an alternate form for भ्रमति?
3. Can you spot the affix सन् in the verses?
4. Which सूत्रम् is used for the इडागमः in the form करिष्यामि?
5. Which सूत्रम् is used for the ईडागमः in the form आसीत् (used in the commentary)?
6. How would you say this in Sanskrit?
“Searching for Sītā, the monkeys roamed the earth.” Use the adjective प्रातिपदिकम् “अन्विच्छत्” (which ends in the affix “शतृँ”) for “searching for.”
Easy Questions:
1. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रियः?
2. Can you spot a “उवँङ्”-आदेशः in the verses?
1. Where has भ्रमति been used in the गीता?
Answer: भ्रमति been used in the following verse:
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 1-30 ॥
भ्रमति + इव = भ्रमतीव । By 6-1-101 अकः सवर्णे दीर्घः।
2. What would be an alternate form for भ्रमति?
Answer: The alternate forms for भ्रमति are भ्राम्यति and भ्रम्यति।
भ्रमति can be derived from √भ्रम् (भ्रमुँ चलने १. ९८५) or from √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२).
Let us first consider the case where √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२) is used. Recall the सूत्रम् 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.) In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68 कर्तरि शप्।
So when the श्यन्-प्रत्यय: is used we get the optional form भ्राम्यति as follows:
भ्रम् + लँट् । By 3-2-123 वर्तमाने लट् ।
= भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= भ्रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रम् + श्यन् + ति । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।
= भ्राम् + श्यन् + ति । By 7-3-74 शमामष्टानां दीर्घः श्यनि – The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः।
= भ्राम्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
Now let us consider the case where √भ्रम् (भ्रमुँ चलने १. ९८५) is used. The steps are the same as above, except 7-3-74 शमामष्टानां दीर्घः श्यनि doesn’t apply. Hence we get the alternate form भ्रम्यति।
Thus there are a total of three forms भ्रमति, भ्राम्यति (using भ्रमुँ अनवस्थाने ४. १०२) and भ्रम्यति (using भ्रमुँ चलने १. ९८५)।
3. Can you spot the affix सन् in the verses?
Answer: An affix सन् can be seen in the प्रातिपदिकम् “जिहीर्षु” (used in the compound समुज्जिहीर्षुः) derived from √हृ (हृञ् हरणे १. १०४६).
The सन्नन्त-धातुः “जिहीर्ष” is derived as follows:
हृ + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
= हृ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= हॄ + स । By 6-4-16 अज्झनगमां सनि।
Note: The affix “स” is a कित् here by 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
= हिर् + स । By 7-1-100 ॠत इद्धातोः।
= हिर् स् हिर् स । By 6-1-9 सन्यङोः।
= झिर् स् हिर् स । By 7-4-62 कुहोश्चुः।
= झि हिर् स । By 7-4-60 हलादिः शेषः।
= झि हीर् स । By 8-2-77 हलि च।
= झिकीर्ष । By 8-3-59 आदेशप्रत्यययो:।
= जिहीर्ष । 8-4-54 अभ्यासे चर्च्च।
“जिहीर्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we derive the प्रातिपदिकम् “जिहीर्षु” from the सन्नन्त-धातुः “जिहीर्ष”।
जिहीर्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= जिहीर्ष् + उ । By 6-4-48 अतो लोपः।
= जिहीर्षु ।
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिहीर्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “जिहीर्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.
4. Which सूत्रम् is used for the इडागमः in the form करिष्यामि?
Answer: The सूत्रम् 7-2-70 ऋद्धनोः स्ये has been used for the इडागमः in the form करिष्यामि derived from √कृ (डुकृञ् करणे ८. १०).
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
कृ + लृँट् । By 3-3-13 लृट् शेषे च।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
= कृ + इट् स्य + मि । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।
Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात् would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः।
= कृ + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर् + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= करिस्यामि । By 7-3-101 अतो दीर्घो यञि ।
= करिष्यामि । By 8-3-59 आदेशप्रत्यययो:।
5. Which सूत्रम् is used for the ईडागमः in the form आसीत् (used in the commentary)?
Answer: The सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते is used for the ईडागमः in the form आसीत् derived from √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
अस् + लँङ् । By 3-2-111 अनद्यतने लङ् |
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अस् + त् । By 3-4-100 इतश्च।
= अस् + शप् + त् । By 3-1-68 कर्तरि शप्।
= अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
= अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= आट् अस् + ईत् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ।
= आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= आसीत् । By 6-1-90 आटश्च।
6. How would you say this in Sanskrit?
“Searching for Sītā, the monkeys roamed the earth.” Use the adjective प्रातिपदिकम् “अन्विच्छत्” (which ends in the affix “शतृँ”) for “searching for.”
Answer: सीताम् अन्विच्छन्तः वानराः पृथिवीम् भ्रमन्ति/भ्राम्यन्ति/भ्रम्यन्ति स्म = सीतामन्विच्छन्तो वानराः पृथिवीं भ्रमन्ति/भ्राम्यन्ति/भ्रम्यन्ति स्म।
Easy Questions:
1. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रियः?
Answer: The सूत्रम् 6-4-79 स्त्रियाः is used for the “इयँङ्”-आदेशः in the form स्त्रियः (स्त्रीलिङ्ग-प्रातिपदिकम् “स्त्री”, प्रथमा-बहुवचनम्।)
स्त्री + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= स्त्री + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
= स्त्र् इयँङ् + अस् । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “स्त्री” is replaced by “इयँङ्”।
= स्त्रिय् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
= स्त्रियः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Can you spot a “उवँङ्”-आदेशः in the verses?
Answer: A “उवँङ्”-आदेशः can be seen in the form भुवः (स्त्रीलिङ्ग-प्रातिपदिकम् “भू”, षष्ठी-एकवचनम्)।
भू + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= भू + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= भ् उवँङ् + अस् । The ending ऊकार: in “भू” comes from the धातु: “भू सत्तायाम्”। Hence it takes the “उवँङ्”-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू” । (As per 1-1-53 ङिच्च only the ending ऊकार: of the अङ्गम् is substituted.)
= भुवस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ,1-3-9 तस्य लोपः।
= भुवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।