Today we will look at the form भूयास्म 1Ap-आशीर्लिँङ् from श्रीमद्भागवतम् 11.21.33.
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासत इन्द्रमुख्यान्देवादीन्न यथैव माम् ।। ११-२१-३२ ।।
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महाशाला महाकुलाः ।। ११-२१-३३ ।।
श्रीधर-स्वामि-टीका –
अतो रजःसत्त्वतमोजुषः स्वानुरूपानिन्द्रादीनेवोपासते, न तु मां गुणातीतम् । यद्यपीन्द्रादीनामपि मदंशत्वान्मदुपासनमेव तत्तथापि यथावन्नोपासते भेददर्शित्वादित्यर्थः ।। ३२ ।। ‘हृदि संकल्प्य’ इत्युक्तं तमेव संकल्पं दर्शयति – इष्ट्वेति । तस्य भोगस्यान्ते । महाशाला महागृहस्थाः ।। ३३ ।।
Gita Press translation “Rooted in Rajas, Sattva and Tamas, they worship gods etc., Indra being the chief of them – who (likewise) take delight in Sattva, Rajas and Tamas – and not so (devotedly) Myself (who stand beyond the three Guṇas). (32) They indulge in the (fond) hope that, having worshipped the gods through sacrifices in their earthly career, they will ascend to heaven and revel (there), and at the end of such enjoyment (in heaven) will be born (again) in the terrestrial region of a high pedigree and be great householders (living in stately mansions). (33)”
भूयास्म is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.
(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भू + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः।
(4) भू + म । by 3-4-99 नित्यं डितः , a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। As per 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः ।
(5) भू + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।
(6) भूयास्म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
Note: As per 3-4-116 लिङाशिषि, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप् and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply. See question 2.
By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास्म” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
Questions:
1. Where has 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च (used in step 5 of the example) been used for the last time in the गीता?
2. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (referred to in step 6), the काशिका says – सार्वधातुके इत्येव, क्रियास्ताम्। Please explain.
3. What would have been the final form in this example if the विवक्षा had been विधिलिँङ् (instead of आशीर्लिङ्)?
4. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verses?
5. Why didn’t the “स्य”-प्रत्यय: take a “इट्”-आगम: (by 7-2-35 आर्धधातुकस्येड् वलादेः) in the form रंस्यामहे?
6. How would you say this in Sanskrit?
“May we be glorious.” or “We wish we become glorious.” Use the adjective प्रातिपदिकम् “यशस्विन्” for “glorious.”
Easy questions:
1. Can you spot two places in the verses where 8-3-19 लोपः शाकल्यस्य has been used?
2. Consider the following सन्धि-कार्यम् done in the commentary:
यथावत् + न
= यथावद् + न । By 8-2-39 झलां जशोऽन्ते।
= यथावन् + न । By ?
Which सूत्रम् is used in the last step?
1. Where has 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च (used in step 5 of the example) been used for the last time in the गीता?
Answer: The सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च has been used for the last time in the गीता in verse 71, chapter 18 in the form प्राप्नुयात्।
श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् || 18-71||
आप्नुयात् is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६). The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
आप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= आप् + त् । By 3-4-100 इतश्च।
= आप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= आप् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= आप् + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= आप् + श्नु + यात् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
= आप्नुयात् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
“प्र” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + आप्नुयात् = प्राप्नुयात् । By 6-1-101 अकः सवर्णे दीर्घः।
2. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (referred to in step 6), the काशिका says – सार्वधातुके इत्येव, क्रियास्ताम्। Please explain.
Answer: सार्वधातुके इत्येव means that the rule 7-2-79 लिङः सलोपोऽनन्त्यस्य applies only when a सार्वधातुक-प्रत्ययः follows. In the form क्रियास्ताम्, 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply because the प्रत्ययः following the अङ्गम् does not have the सार्वधातुक-सञ्ज्ञा। It instead has the आर्धधातुक-सञ्ज्ञा।
The form क्रियास्ताम् is derived from the धातुः √कृ (डुकृञ् करणे ८. १०).
The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्, परस्मैपद-प्रत्यय:।
कृ + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per 3-4-116 लिङाशिषि, the affix “तस्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 तनादिकृञ्भ्य उः does not apply.
= कृ + ताम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्। “ताम्” also gets आर्धधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
= कृ + यासुट् ताम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= कृ + यास् ताम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। As per 3-4-104 किदाशिषि, यासुट् is a कित् here. This allows 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
= क् रिङ् + यास्ताम् । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
= क्रियास्ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। As per 3-4-116 लिङाशिषि, the affix ‘यास्ताम्’ has the आर्धधातुक-सञ्ज्ञा here. Hence, as explained above, 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply.
3. What would have been the final form in this example if the विवक्षा had been विधिलिँङ् (instead of आशीर्लिङ्)?
Answer: The form would be भवेम।
भू + लिँङ् (विधौ) । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “मस्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= भू + म । By 3-4-99 नित्यं ङितः।
= भू + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= भू + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= भू + शप् + यास् म । 3-1-68 कर्तरि शप्।
= भू + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= भो + अ + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भव + यास् म । By 6-1-78 एचोऽयवायावः।
= भव + इय् म । By 7-2-80 अतो येयः।
= भव + इ म । By 6-1-66 लोपो व्योर्वलि।
= भवेम । By 6-1-87 आद्गुणः।
4. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verses?
Answer: 7-1-5 आत्मनेपदेष्वनतः has been used in the form उपासते, derived from the verbal root √आस् (आसँ उपवेशने २. ११).
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
आस् + लँट् । By 3-2-123 वर्तमाने लट्।
= आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आस् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्। ‘झ’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below
= आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
= आस् + शप् + झे । By 3-1-68 कर्तरि शप्।
= आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= आस् + अते । By 7-1-5 आत्मनेपदेष्वनतः – The झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।
= आसते ।
“उप” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
उप + आसते = उपासते । By 6-1-101 अकः सवर्णे दीर्घः।
5. Why didn’t the “स्य”-प्रत्यय: take a “इट्”-आगम: (by 7-2-35 आर्धधातुकस्येड् वलादेः) in the form रंस्यामहे?
Answer: The धातुः √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) is अनुदात्तोपदेशः। Therefore 7-2-35 आर्धधातुकस्येड् वलादेः is blocked by 7-2-10 एकाच उपदेशेऽनुदात्तात् – A “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent.
6. How would you say this in Sanskrit?
“May we be glorious.” or “We wish we become glorious.” Use the adjective प्रातिपदिकम् “यशस्विन्” for “glorious.”
Answer: यशस्विनः भूयास्म = यशस्विनो भूयास्म ।
Easy Questions:
1. Can you spot two places in the verses where 8-3-19 लोपः शाकल्यस्य has been used?
Answer: 8-3-19 लोपः शाकल्यस्य has been used in the following two places –
उपासते + इन्द्रमुख्यान् = उपासत इन्द्रमुख्यान् and अन्ते + इह = अन्त इह।
The steps are as follows:
उपासते + इन्द्रमुख्यान्
= उपासतय् + इन्द्रमुख्यान् । By 6-1-78 एचोऽयवायावः।
= उपासत इन्द्रमुख्यान् । By 8-3-19 लोपः शाकल्यस्य – In the opinion of the teacher शाकल्यः, the यकारः or वकार: is dropped when it occurs at the end of a पदम् and is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः। (Note: As a convention, the यकारः is always dropped while the वकार: is never dropped.)
Note: After this 6-1-87 आद्गुणः does not apply because of 8-2-1 पूर्वत्रासिद्धम्।
Similarly for अन्ते + इह = अन्त इह।
2. Consider the following सन्धि-कार्यम् done in the commentary:
यथावत् + न
= यथावद् + न । By 8-2-39 झलां जशोऽन्ते।
= यथावन् + न । By ?
Which सूत्रम् is used in the last step?
Answer: The सूत्रम् applied in the last step is 8-4-45 यरोऽनुनासिकेऽनुनासिको वा – When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)