Home » Example for the day » हनिष्यति 3As-लृँट्

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from माघकाव्यम् 1.68.

स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ 1-68 ॥

मल्लिनाथ-टीका –
भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । “अत इञ्” इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः । अत एव चलन्ति जलानि यस्य स च । अत एवाविलश्च तमाबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे ‘समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ’ इति हलायुधः । “अभितः परितः समयानिकषाहाप्रतियोगेऽपि” इति द्वितीया । हनिष्यति अवधीत् । “अभिज्ञावचने लृट्” इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥

Translation – (Does) thou remember that – being the son of (King) Daśaratha, thou having crossed the bridged turbid ocean with turbulent waters, killed in the vicinity of Lañkā that (Rāvaṇa) – the abductor of the lady (Sītā) from the (Danḍaka) forest.

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । By 3-2-112 अभिज्ञावचने लृट् – In the presence of an adjoining word implying recollection, a verbal root takes the affix लृँट् in the sense of past not of today. See question 2.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √हन् (हनँ हिंसागत्योः २. २) been used with the affix लृँट् in the गीता?

2. The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the तत्त्वबोधिनी says ‘भूते’ इत्यधिक्रियते। ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते। Please explain.

4. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the काशिका says वचनग्रहणं पर्यायार्थम् । अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति ॥ Please explain.

5. Why doesn’t the सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevent the augment इट् in the form अवधीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“O friend! (Do) you recall (that) we (two) lived in Mumbai?”

Easy Questions:

1. In the verse can you spot two words which are derived from the प्रातिपदिकम् “अदस्”?

2. From which प्रातिपदिकम् is the form भवन् derived? From which one is the form भवान् derived?


1 Comment

  1. 1. Where has the verbal root √हन् (हनँ हिंसागत्योः २. २) been used with the affix लृँट् in the गीता?
    Answer: The verbal root √हन् (हनँ हिंसागत्योः २. २) has been used with the affix लृँट् in the form हनिष्ये। The use of आत्मनेपदम् affix here is आर्षः (irregular).

    असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।। 16-14 ।।

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    हन् + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, a परस्मैपद-प्रत्यय: should be used here. But instead a आत्मनेपद-प्रत्यय: has been used irregularly.
    = हन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हन् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः।
    = हन् + इट् स्य + ए । By 7-2-70 ऋद्धनोः स्ये, 1-1-46 आद्यन्तौ टकितौ।
    = हन् + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हनिस्ये । By 6-1-97 अतो गुणे।
    = हनिष्ये । By 8-3-59 आदेशप्रत्यययो:।

    2. The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for which सूत्रम्?
    Answer: The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for 3-2-111 अनद्यतने लङ्।

    3. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the तत्त्वबोधिनी says ‘भूते’ इत्यधिक्रियते। ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते। Please explain.
    Answer: ‘भूते’ इत्यधिक्रियते means that the सूत्रम् 3-2-112 अभिज्ञावचने लृट् falls under the अधिकारः of भूते, which starts from 3-2-84 भूते।
    ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते means that the अनुवृत्तिः of ‘अनद्यतने’ comes down from the previous सूत्रम् 3-2-111 अनद्यतने लङ् into 3-2-112 अभिज्ञावचने लृट्।

    4. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the काशिका says वचनग्रहणं पर्यायार्थम् । अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति ॥ Please explain.
    Answer: The term “वचन” in अभिज्ञावचने implies that the affix लृँट् may be used not only when adjoining “अभिज्ञा” (to recollect) but also when adjoining any synonym of “अभिज्ञा”। For example, लृँट् may be used when adjoining स्मरसि (derived from √स्मृ (स्मृ चिन्तायाम् १.१०८२)),  बुध्यसे (derived from √बुध् (बुधँ अवगमने ४. ६८)) or चेतयसे (derived from √चित् (चितँ सञ्चेतने १०. १९२)).  स्मरसि, बुध्यसे and चेतयसे are all synonymous with अभिजानासि।

    5. Why doesn’t the सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevent the augment इट् in the form अवधीत् (used in the commentary)?

    Answer: अवधीत् is derived from √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वध + लुँङ् । By 2-4-43 लुङि च, 3-2-110 लुङ्।
    Note: The substitute “वध” ends in a अकारः।
    = वध + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वध + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध + त् । By 3-4-100 इतश्‍च।
    = वध + च्लि + त् । By 3-1-43 च्लि लुङि।
    = वध + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = वध + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ does not apply here because “वध” is अनेकाच् (has more than one vowel) in उपदेशः।
    = वध + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध + इ स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते।
    = वध + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध् + इ स् + ईत् । By 6-4-48 अतो लोपः।
    = अट् वध् + इ स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अ वध् + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ वध् + इ + ईत् । By 8-2-28 इट ईटि।
    = अवधीत् । By the वार्त्तिकम् under 8-2-3 सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

    6. How would you say this in Sanskrit?
    “O friend! (Do) you recall (that) we (two) lived in Mumbai?”
    Answer: हे मित्र स्मरसि मुम्बापुर्याम् निवत्स्यावः = हे मित्र स्मरसि मुम्बापुर्यां निवत्स्यावः।
    हे सखे अभिजानासि मुम्बापुर्याम् निवत्स्यावः = हे सखेऽभिजानासि मुम्बापुर्यां निवत्स्यावः।

    Easy Questions:

    1. In the verse can you spot two words which are derived from the प्रातिपदिकम् “अदस्”?
    Answer: The two words which are derived from the प्रातिपदिकम् “अदस्” are अदः (नपुंसकलिङ्गे द्वितीया-एकवचनम्) and अमुम् (पुंलिङ्गे द्वितीया-एकवचनम्)।

    अदस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अदस् । By 7-1-23 स्वमोर्नपुंसकात्।
    = अदः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    अदस् + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
    = अद अ + अम् । By 7-2-102 त्यदादीनाम:, 1-1-52 अलोऽन्त्यस्य।
    = अद + अम् । By 6-1-97 अतो गुणे।
    = अदम् । By 6-1-107 अमि पूर्वः।
    = अमुम् । By 8-2-80 अदसोऽसेर्दादु दो मः – There is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।

    2. From which प्रातिपदिकम् is the form भवन् derived? From which one is the form भवान् derived?
    Answer: The form भवन् is derived from the प्रातिपदिकम् “भवत्” a शतृँ-प्रत्ययान्त-प्रातिपदिकम्। The form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) is derived from the प्रातिपदिकम् “भवत्” – a डवतुँ-प्रत्ययान्त-प्रातिपदिकम्।

    भवान् is derived as follows:
    भवत् + सुँ । By 4-1-2 स्वौजसमौट्…। The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = भवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.
    = भवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment joins after the last vowel (आकार:) of the अङ्गम्।
    = भवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भवान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “भवान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भवान् । By 8-2-23 संयोगान्तस्य लोपः।
    Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    The declension (in the masculine) of the शतृँ-प्रत्ययान्त-भवत्-प्रातिपदिकम् and that of the डवतुँ-प्रत्ययान्त-भवत्-प्रातिपदिकम् differs only in प्रथमा-एकवचनम्। For the former, the प्रथमा-एकवचनम् form is भवन् and for the latter the प्रथमा-एकवचनम् form is भवान्। That is due to 6-4-14 अत्वसन्तस्य चाधातोः which applies in the case of the latter – but not the former – when followed by the “सुँ” affix which is not सम्बुद्धिः।

    Hence the derivation of भवन् is the same as that shown above, except that 6-4-14 does not apply.

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

August 2012
M T W T F S S
« Jul   Sep »
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics