सङ्गच्छन्ते 3Ap-लँट्
Today we will look at the form सङ्गच्छन्ते 3Ap-लँट् from श्रीमद्भागवतम् Sb5.6.2
ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ ५-६-२ ॥
तथा चोक्तम् –
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ५-६-३ ॥
श्रीधर-स्वामि-टीका –
अङ्गीकृत्य परिहरति – सत्यमिति । एके बुद्धिमन्तोऽनवस्थानस्य चञ्चलस्य मनसो विश्वासं न सङ्गच्छन्ते न सम्यक् प्राप्नुवन्ति । शठः किरातो यथा धृतेष्वपि मृगेषु । शठे किराते यथा मृगा इति सप्तम्यन्तं वा । पाठान्तरे शठो वञ्चकः किरातो वणिग्व्यवहर्तरि यथा । तस्मिन्वा व्यवहर्ता विश्वासं न यातीत्यर्थः । पाक्षिकोऽपि दोषो वर्जनीय इत्युपदेष्टुं नाभ्यनन्ददिति भावः ॥ २ ॥ यद्विश्रम्भाद्यस्य मनसो विश्वासाच्चिराच्चीर्णं बहुकालसंचितं तपश्चस्कन्द सुस्राव । ऐश्वरं विष्णोर्मोहिनीरूपदर्शनेन । यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां तपः ॥ ३ ॥
The sage (Śuka) replied: What you have observed is (quite) true; but there are some (discreet men) in this world who would never feel quite confident about their fickle mind any more than a clever hunter would about a deer (trapped by him) (2). Similarly it is said: – “One should never make friends with (rely on the friendship of) the inconstant mind; for as a result of confidence placed in it the austere vow (of chastity) – maintained for a long period – even of Lord Śiva (and other stalwarts like the celebrated sage Saubhari) was broken (3).
सङ्गच्छन्ते is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)
In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-29 समो गम्यृच्छिभ्याम् – When preceded by the the उपसर्गः “सम्” and when used intransitively, the verbal root √गम् (गमॢँ गतौ १. ११३७) or √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)
Actually the use of आत्मनेपदम् in the form सङ्गच्छन्ते cannot be grammatically justified in this verse. Please see question 2.
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
(1) गम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) गम् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
(4) गम् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) गम् + शप् + झे । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) गम् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(7) गछ् + अ + झे । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।
(8) गतुँक् छ् + अ + झे । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case अकारः।)
(9) गत् छ् + अ + झे । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
(10) गत् छ् + अ + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
(11) गत्छन्ते । By 6-1-97 अतो गुणे।
(12) गच्छन्ते । By 8-4-40 स्तोः श्चुना श्चुः।
“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
सम् + गच्छन्ते = संगच्छन्ते । By 8-3-23 मोऽनुस्वारः।
= सङ्गच्छन्ते/संगच्छन्ते । By 8-4-59 वा पदान्तस्य।
Questions:
1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः (used in step 7) been used for the last time in the गीता?
2. Commenting on the form सङ्गच्छन्ते, the अन्वितार्थप्रकाशिका (which is another commentary on the श्रीमद्भागवतम्) says सकर्मकात्तङार्षः। Please explain.
3. Where has the सूत्रम् 6-4-109 ये च been used in the verses?
4. Can you recall a सूत्रम् which is a अपवादः for the सूत्रम् 7-4-60 हलादिः शेषः? Where has this अपवादः been used in the verses?
5. Why doesn’t the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति (used in the commentary)? Which condition is not satisfied?
6. How would you say this in Sanskrit?
“The form सङ्गच्छन्ते is not justified in this verse.” Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “सम्” for “to be justified (to be in harmony).”
Easy Questions:
1. Please do the पदच्छेदः of वा एके।
2. Can you spot an error in the following (compound) word – महाविद्यालयछात्त्रः।
Recent Comments