Today we will look at the form स्वजनायते 3As-लँट् from पञ्चतन्त्रम्।
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १-५ ॥
टीका –
स्वजनायते स्वजनवदाचरति ।
Translation – Indeed in this world, even a stranger acts as a relative of the rich. (On the other hand) even a relative always behaves wickedly (acts like a wicked person) towards the poor.
स्वजन इवाचरति = स्वजनायते।
First we derive the नाम-धातुः “स्वजनाय” as follows:
(1) स्वजन + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(2) स्वजन + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.
(3) स्वजन + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
“स्वजन + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
(4) स्वजन + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.
(5) स्वजनाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।
Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “स्वजनाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
(6) स्वजनाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(7) स्वजनाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) स्वजनाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।
(9) स्वजनाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(10) स्वजनाय + शप् + ते । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(11) स्वजनाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
(12) स्वजनायते । By 6-1-97 अतो गुणे।
Questions:
1. The सिद्धान्त-कौमुदी gives विद्वस्यते as an example of the application of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च। Commenting on this example the तत्त्वबोधिनी says नान्तस्यैव पदत्वात्सस्य रुत्वं न। Please explain.
2. Commenting on the example ओजायते given under the वार्तिकम् (under the सूत्रम् 3-1-11) “ओजसोऽप्सरसो नित्यमितरेषां विभाषया”, the सिद्धान्त-कौमुदी says ओजःशब्दो वृत्तिविषये तद्वति । Please explain.
3. How would you say this in Sanskrit?
“Even though you don’t have any knowledge, you act like a scholar.” Use the प्रातिपदिकम् “पण्डित” for “scholar.” Use the affix “क्यङ्”।
4. Translate the above using the प्रातिपदिकम् “विद्वस्” for “scholar.”
5. How would you say this in Sanskrit?
“Today feels (acts) like Monday.”
6. How would you say this in Sanskrit?
“In adversity even friends act like enemies.” Use the feminine प्रातिपदिकम् “आपद्” for “adversity.”
Easy Questions:
1. Can you spot the augment “नुँट्” in the verse?
2. How would you say this in Sanskrit?
“This book (is) very useful.” Use the adjective प्रातिपदिकम् “अत्युपयोगिन्” for “very useful.”
1. The सिद्धान्त-कौमुदी gives विद्वस्यते as an example of the application of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च। Commenting on this example the तत्त्वबोधिनी says नान्तस्यैव पदत्वात्सस्य रुत्वं न। Please explain.
Answer: विद्वानिवाचरति = विद्वस्यते।
The नाम-धातुः “विद्वस्य” is derived from the प्रातिपदिकम् “विद्वस्” as follows:
विद्वस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= विद्वस् + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च ।
= विद्वस् + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
“विद्वस् + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
= विद्वस् + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः। Now “विद्वस्” would get पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। But here 1-4-14 सुप्तिङन्तं पदम् is limited by 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Since “विद्वस्” does not end in a नकारः it does not get the पद-सञ्ज्ञा। Therefore we cannot apply 8-2-66 ससजुषो रुः to the ending सकारः of “विद्वस्”। This is what is explained by नान्तस्यैव पदत्वात्सस्य रुत्वं न।
Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “विद्वस्य” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
विद्वस्य + लँट् । By 3-2-123 वर्तमाने लट्।
= विद्वस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विद्वस्य + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= विद्वस्य + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= विद्वस्य + शप् + ते । By 3-1-68 कर्तरि शप्।
= विद्वस्य + अ + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विद्वस्यते । By 6-1-97 अतो गुणे।
Note: In the optional case when the सकार-लोपः is done by 3-1-11 कर्तुः क्यङ् सलोपश्च the form would be विद्वायते।
2. Commenting on the example ओजायते given under the वार्तिकम् (under the सूत्रम् 3-1-11) ”ओजसोऽप्सरसो नित्यमितरेषां विभाषया”, the सिद्धान्त-कौमुदी says ओजःशब्दो वृत्तिविषये तद्वति । Please explain.
Answer: ओजःशब्दो वृत्तिविषये तद्वति means that the word “ओजस्” used in the वार्तिकम् (under the सूत्रम् 3-1-11) ”ओजसोऽप्सरसो नित्यमितरेषां विभाषया” does not refer to “ओजस्” itself but to one who possesses “ओजस्”। Hence ओजायते does not mean “he/she acts like strength.” It means “he/she acts like one who possesses “ओजस्” (strength.)
ओजस्वीवाचरति (ओजस्वी + इव + आचरति) = ओजायते।
3. How would you say this in Sanskrit?
“Even though you don’t have any knowledge, you act like a scholar.” Use the प्रातिपदिकम् “पण्डित” for “scholar.” Use the affix “क्यङ्”।
Answer: यदि अपि तव/ते किञ्चित् अपि ज्ञानम् न अस्ति (तथा अपि) पण्डितायसे = यद्यपि तव/ते किञ्चिदपि ज्ञानं नास्ति (तथापि) पण्डितायसे ।
4. Translate the above using the प्रातिपदिकम् “विद्वस्” for “scholar.”
Answer: यदि अपि तव/ते किञ्चित् अपि ज्ञानम् न अस्ति (तथा अपि) विद्वायसे/विद्वस्यसे = यद्यपि तव/ते किञ्चिदपि ज्ञानं नास्ति (तथापि) विद्वायसे/विद्वस्यसे ।
5. How would you say this in Sanskrit?
“Today feels (acts) like Monday.”
Answer: इदम् दिनम् सोमवारायते = इदं दिनं सोमवारायते।
– अथवा –
अद्य इन्दुवासरायते = अद्येन्दुवासरायते।
6. How would you say this in Sanskrit?
“In adversity even friends act like enemies.” Use the feminine प्रातिपदिकम् “आपद्” for “adversity.”
Answer: आपदि मित्राणि अपि रिपूयन्ते/वैरीयन्ते = आपदि मित्राण्यपि रिपूयन्ते/वैरीयन्ते।
Note: The नाम-धातुः “वैरीय” is derived from the प्रातिपदिकम् “वैरिन्” as follows:
वैरिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= वैरिन् + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च।
= वैरिन् + सुँ + य । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। “वैरिन् + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
= वैरिन् + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः। Now “वैरिन्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। Note: 1-4-15 नः क्ये does not limit 1-4-14 सुप्तिङन्तं पदम् here.
= वैरि + य । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
= वैरीय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः। Note: As per 8-2-1 पूर्वत्रासिद्धम्, the नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य in the prior step) to arrive at the form “वैरि” should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and the नकार-लोपः (done by 8-2-7) is visible to 7-4-25 because the operation prescribed by 7-4-25 does not come under any of the categories listed in 8-2-2.
Easy Questions:
1. Can you spot the augment “नुँट्” in the verse?
Answer: The augment “नुँट्” is seen in the form दरिद्राणाम् (प्रातिपदिकम् “दरिद्र”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
दरिद्र + आम् । By 4-1-2 स्वौजसमौट्छष्टा… । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting the इत्-सञ्ज्ञा।
= दरिद्र + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् -the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् attaches itself to the beginning of आम्।
= दरिद्र + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दरिद्रानाम् । By 6-4-3 नामि the ending vowel of a अङ्गम् gets elongated if followed by the term “नाम्”।
= दरिद्राणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
2. How would you say this in Sanskrit?
“This book (is) very useful.” Use the adjective प्रातिपदिकम् “अत्युपयोगिन्” for “very useful.”
Answer: अयम् ग्रन्थः अत्युपयोगी = अयं ग्रन्थोऽत्युपयोगी।
– अथवा –
इदम् पुस्तकम् अत्युपयोगि = इदं पुस्तकमत्युपयोगि।