Today we will look at the form जिघांसति 3As-लँट् from श्रीमद्भागवतम् 4.14.11.
निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ४-१४-११ ॥
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ ४-१४-१२ ॥
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ।
श्रीधर-स्वामि-टीका –
निरूपितो नियुक्तोऽस्माभिः । सान्त्वयेमोपपत्तिभिः प्रार्थयिष्यामः । तस्य पातकम् ॥ ११ ॥ स्वस्य तत्पातकस्पर्शे हेतुः – तत्पातकित्वं विद्वद्भिः ॥ १२ ॥
Gita Press translation – (Vena) Wicked by his very nature, seeks to destroy the people themselves now that he has been appointed their ruler. Nevertheless let us (try to) bring him round through persuasion, so that his sin may not touch us. For Vena, who was addicted to evil ways, was made king by us even though we were aware of his sins. If, however, the unrighteous fellow does not accept our advice even when kindly addressed, we shall burn him with our spiritual fire, burnt as he already is by popular reproach.
जिघांसति is a desiderative form derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).
हन् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
= हन् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= हान् + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).
= हान् स् हान् + स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a सन्नन्त-धातुः (verbal root ending in the affix “सन्”) which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
= झान् स् हान् + स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
= झा हान् + स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
= झ हान् + स । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
= झि हान् + स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
= झि घान् + स । By 7-3-55 अभ्यासाच्च – The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।
= झि घांस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.
= जिघांस । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
“जिघांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
In the धातु-पाठः, the verbal root √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √हन् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिघांस” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
(1) जिघांस + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) जिघांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) जिघांस + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।
(4) जिघांस + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(5) जिघांस + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(6) जिघांसति । By 6-1-97 अतो गुणे।
Questions:
1. In which Chapter of the गीता has the affix सन् been used in the first verse?
2. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?
3. Which सूत्रम् is used for the दीर्घादेशः in the form ग्रहीष्यति?
4. The form दहिष्यामः used in the verses is a आर्ष-प्रयोगः (an irregular form.) What would be the grammatically correct form?
5. How would you say this in Sanskrit?
“Who would want to kill an innocent person?” Use the adjective प्रातिपदिकम् “निरपराध” for “innocent.”
6. How would you say this in Sanskrit?
“I want to destroy my internal enemies.” Use the adjective प्रातिपदिकम् “अन्तःस्थ” for “internal”.
Easy Questions:
1. Where has the प्रातिपदिकम् “अदस्” been used in the verses?
2. Where has the सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the verses?
1. In which Chapter of the गीता has the affix सन् been used in the first verse?
Answer: The affix सन् been used in the first verse of Chapter One of the गीता in the form युयुत्सवः।
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1-1 ॥
The सन्नन्त-धातुः “युयुत्स” is derived from √युध् (युधँ सम्प्रहारे ४. ६९).
युध् + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= युध् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
= युध्स् युध्स । By 6-1-9 सन्यङोः।
= यु युध्स । By 7-4-60 हलादिः शेषः।
= युयुत्स । By 8-4-55 खरि च।
“युयुत्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we derive the प्रातिपदिकम् “युयुत्सु” from the सन्नन्त-धातुः “युयुत्स”।
युयुत्स + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= युयुत्स् + उ । By 6-4-48 अतो लोपः।
= युयुत्सु ।
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “युयुत्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “युयुत्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.
The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्।
युयुत्सु + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= युयुत्सु + अस् । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
= युयुत्सो + अस् । By 7-3-109 जसि च – When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
= युयुत्सवस् । By 6-1-78 एचोऽयवायावः।
= युयुत्सवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?
Answer: The affix “णिच्” is seen in the form सान्त्वयेम derived from √सान्त्व् (षान्त्वँ सामप्रयोगे १०. ५१). The beginning षकार: of “षान्त्वँ” takes the सकारादेश: as per 6-1-64 धात्वादेः षः सः।
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
सान्त्व् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
= सान्त्व् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= सान्त्वि । “सान्त्वि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
सान्त्वि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
= सान्त्वि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सान्त्वि + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= सान्त्वि + म । By 3-4-99 नित्यं डितः, 1-1-52 अलोऽन्त्यस्य।
= सान्त्वि + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= सान्त्वि + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= सान्त्वि + शप् + यास् म । By 3-1-68 कर्तरि शप्।
= सान्त्वि + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= सान्त्वे + अ + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= सान्त्वय + यास् म । By 6-1-78 एचोऽयवायावः।
= सान्त्वय + इय् म । By 7-2-80 अतो येयः।
= सान्त्वय इम । By 6-1-66 लोपो व्योर्वलि।
= सान्त्वयेम । By 6-1-87 आद्गुणः।
3. Which सूत्रम् is used for the दीर्घादेशः in the form ग्रहीष्यति?
Answer: The सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः is used for the दीर्घादेशः in the form ग्रहीष्यति derived from √ग्रह् (ग्रहँ उपादाने ९.७१).
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
ग्रह् + लृँट् । By 3-3-13 लृट् शेषे च।
= ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रह् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
= ग्रह् + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= ग्रह् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रहीस्यति । By 7-2-37 ग्रहोऽलिटि दीर्घः, when prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
= ग्रहीष्यति । By 8-3-59 आदेशप्रत्यययो:।
4. The form दहिष्यामः used in the verses is a आर्ष-प्रयोगः (an irregular form.) What would be the grammatically correct form?
Answer: The grammatically correct form would be धक्ष्यामः derived from √दह् (दहँ भस्मीकरणे १. ११४६).
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
दह् + लृँट् । 3-3-13 लृट् शेषे च।
= दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
= दह् + स्य + मस् । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
= दह् स्यामस् । By 7-3-101 अतो दीर्घो यञि।
= दघ् स्यामस् । By 8-2-32 दादेर्धातोर्घः।
= धघ् स्यामस् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः।
= धघ् स्यामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
= धघ् ष्यामः । By 8-3-59 आदेशप्रत्यययो:।
= धक्ष्यामः । By 8-4-55 खरि च।
Note: In the irregular form दहिष्यामः, the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) has taken “इट्”-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः, even though √दह् is अनुदात्तोपदेशः। (The सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात् has not been honored.)
5. How would you say this in Sanskrit?
“Who would want to kill an innocent person?” Use the adjective प्रातिपदिकम् “निरपराध” for “innocent.”
Answer: कः निरपराधम् जनम् जिघांसेत् = को निरपराधं जनं जिघांसेत्।
6. How would you say this in Sanskrit?
“I want to destroy my internal enemies.” Use the adjective प्रातिपदिकम् “अन्तःस्थ” for “internal”.
Answer: मम अन्तःस्थान् शत्रून् जिघांसामि = ममान्तःस्थाञ्छत्रूञ्जिघांसामि।
Easy Questions:
1. Where has the प्रातिपदिकम् “अदस्” been used in the verses?
Answer: “अदस्”-प्रातिपदिकम् has been used in the form अमुम्। The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
अदस् + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
= अद अ + अम् । By 7-2-102 त्यदादीनाम:, 1-1-52 अलोऽन्त्यस्य।
= अद + अम् । By 6-1-97 अतो गुणे।
= अदम् । By 6-1-107 अमि पूर्वः।
= अमुम् । By 8-2-80 अदसोऽसेर्दादु दो मः – There is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।
2. Where has the सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the verses?
Answer: The सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the सन्धि-कार्यम् between अस्मान् + तत्पातकम् = अस्मांस्तत्पातकम्।
अस्मान् + तत्पातकम् =
अस्मांरुँ + तत्पातकम् । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter (in this case तकारः) follows as long as the “छव्” letter is followed by an “अम्” letter (in this case अकारः।) 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
= अस्मांर् + तत्पातकम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= अस्मां: + तत्पातकम् । By 8-3-15 खरवसानयोर्विसर्जनीयः।
= अस्मांस्तत्पातकम् । By 8-3-34 विसर्जनीयस्य सः।