Home » Example for the day » अभ्यधायि 3Ps-लुँङ्

अभ्यधायि 3Ps-लुँङ्

Today we will look at the form अभ्यधायि 3Ps-लुँङ् from श्रीमद्भागवतम् 3.23.10.

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ ४-७-१ ॥
महादेव उवाच
नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ ४-७-२ ॥

श्रीधर-स्वामि-टीका
अजेन योऽनुनीतः प्रार्थितो भवस्तेनाभिहितम् । हे महाबाहो विदुर ॥ १ ॥ अघमपराधम् ॥ २ ॥

Gita Press translation – Maitreya resumed : Thus supplicated by Brahmā (the unborn), Lord Śiva (the father of the universe) felt much pleased, and with a hearty laugh said, O Vidura (possessed of mighty arms), “Listen!” (1) Śrī Mahādeva said : I never complain of nor do I recollect the misdemeanor of fools dominated by the Lord’s Māyā (deluding potency), O lord of created beings. I have meted out punishment to them (just in order to teach them a lesson) (2).

अधायि is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √धा takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) धा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) धा + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) धा + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) Note: 3-1-66 is अपवादः for 3-1-44 च्लेः सिच्।

(6) धा + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) धा युक् + इ + त । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।

(8) धा य् + इ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)

(9) धा य् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(10) अट् धायि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अधायि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + अधायि = अभ्यधायि । By 6-1-77 इको यणचि।

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) used with the उपसर्गः “अभि” (as in this example) in a तिङन्तं पदम् in Chapter 17 of the गीता?

2. By which सूत्रम् does पाणिनिः define the कृत्-सञ्ज्ञा referred to in the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 7)?

3. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the तत्त्वबोधिनी says “अचो ञ्णिति” इत्यतो ञ्णितीत्यनुवर्तते तच्च कृतो विशेषणं न तु चिणः। तस्य णित्त्वेनाव्यभिचारात्। Please explain.

4. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the काशिका says चिण्कृतोः इति किम्? ददौ। Please explain.

5. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the verses?

6. How would you say this in Sanskrit?
The teacher said “Pay attention.” It was said by the teacher “Let attention be given.” Use the neuter प्रातिपदिकम् “अवधान” for “attention”.

Easy Questions:

1. Does 6-1-78 एचोऽयवायावः come in the अधिकारः of एकः पूर्वपरयोः?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in the verses?


1 Comment

  1. 1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) used with the उपसर्गः “अभि” (as in this example) in a तिङन्तं पदम् in Chapter 17 of the गीता?
    Answer: In verse 27 of Chapter Seventeen the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has been used with the उपसर्गः “अभि” in the form अभिधीयते
    यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
    कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 17-27 ॥

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    धा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    धा + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि।

    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + धीयते = अभिधीयते ।

    2. By which सूत्रम् does पाणिनिः define the कृत्-सञ्ज्ञा referred to in the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 7)?
    Answer: पाणिनिः defines the कृत्-सञ्ज्ञा by the सूत्रम् 3-1-93 कृदतिङ् – In the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्

    3. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the तत्त्वबोधिनी says “अचो ञ्णिति” इत्यतो ञ्णितीत्यनुवर्तते तच्च कृतो विशेषणं न तु चिणः। तस्य णित्त्वेनाव्यभिचारात्। Please explain.
    Answer: The अनुवृत्तिः of ञ्णिति comes down from 7-2-115 अचो ञ्णिति into the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः। Since चिण् is always a णित्, there is no need to specify that 7-3-33 only applies to the affix चिण् when it is a णित् or a ञित्। “तस्य णित्त्वेनाव्यभिचारात्” means that चिण् never deviates from being a णित्।
    On the other hand not all कृत् affixes are णित् or ञित्। So it is necessary to stipulate that only those कृत् affixes which are णित् or ञित् come under the domain of 7-3-33. This is what is meant by “ञ्णितीत्यनुवर्तते तच्च कृतो विशेषणम्।”

    4. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the काशिका says चिण्कृतोः इति किम्? ददौ। Please explain.
    Answer: The form ददौ is derived from √दा (डुदाञ् दाने ३. १०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दा + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = दा + औ । By 7-1-34 आत औ णलः। Note: As per 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। Here even though the अङ्गम् “दा” ends in a आकारः it is not followed either by the affix चिण् or a कृत् affix which is either ञित् or णित्। Instead the अङ्गम् is followed by the affix णल् which is not a कृत् affix. Therefore 7-3-33 does not apply here.
    = दा दा + औ । By 6-1-8 लिटि धातोरनभ्यासस्य। As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = द दा + औ । By 7-4-59 ह्रस्वः।
    = ददौ । By 6-1-88 वृद्धिरेचि।

    5. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the verses?
    Answer: The सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः has been used in the form श्रूयताम् derived from √श्रु (श्रु श्रवणे १. १०९२).

    The विवक्षा is लोँट्, भावे प्रयोगः, प्रथम-पुरुष:, एकवचनम्।

    श्रु + लोँट् । By 3-3-162 लोट् च।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = श्रु + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = श्रु + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
    = श्रु + यक् + ताम् । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = श्रु + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रूयताम् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

    6. How would you say this in Sanskrit?
    The teacher said “Pay attention.” It was said by the teacher “Let attention be given.” Use the neuter प्रातिपदिकम् “अवधान” for “attention”.
    Answer: अवधानम् दीयताम् इति गुरुणा/आचार्येण अभ्यधायि = अवधानं दीयतामिति गुरुणाभ्यधायि – अथवा – अवधानं दीयतामित्याचार्येणाभ्यधायि ।

    Easy Questions:

    1. Does 6-1-78 एचोऽयवायावः come in the अधिकारः of एकः पूर्वपरयोः?
    Answer: No. 6-1-78 एचोऽयवायावः does not come in the अधिकारः of “एकः पूर्वपरयोः” which goes from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्।

    2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in the verses?
    Answer: The सूत्रम् 7-3-108 ह्रस्वस्य गुणः has been used in the form (हे) महाबाहो (पुंलिङ्ग-प्रातिपदिकम् “महाबाहु”, सम्बुद्धिः।)

    (हे) महाबाहु + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………। Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) महाबाहु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) महाबाहो + स् । By 7-3-108 ह्रस्वस्य गुणः, when the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = (हे) महाबाहो । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics