Today we will look at the form उत्स्रक्ष्ये 1As-लृँट् from श्रीमद्भागवतम् 10.66.8.
उवाच दूतं भगवान्परिहासकथामनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ।। १०-६६-८ ।।
मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः । शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ।। १०-६६-९ ।।
श्रीधर-स्वामि-टीका –
हे मूढ, उत्स्रक्ष्ये त्वयि प्रक्षेप्स्यामि । यैः सह त्वमेवं विकत्थसे तेष्वपीत्यर्थः । यद्वा यैः कृत्रिमैः सुदर्शनादिभिस्त्वमेवं श्लाघसे तान्युत्स्रक्ष्ये त्याजयिष्यामीत्यर्थः ।। ८ ।। मां शरणमेहीत्यस्योत्तरम् – मुखमिति । वटाः कङ्कादिवत्पक्षिविशेषा: । तत्र तदा शुनां शरणमाश्रयो भवितासि ।। ९ ।।
Gita Press translation “When their jokes were over, the Lord replied through the messenger (as follows): ‘O foolish one, I shall (no doubt) discharge My (discus and other) insignia on you and (all) those associates of yours, encouraged by whom you brag in this manner. (8) O fool, hiding those lips (with which you are bragging) and you will (then) lie down dead on the ground, surrounded by buzzards, vultures and other (carnivorous) birds, and (instead of giving shelter to Me,) you will serve as subsistence for dogs.'”
स्रक्ष्ये is derived from the धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५).
Note: There is also a धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०)। But it is परस्मैपदी and hence cannot be used in this example.
The ending vowel (अकार:) of “सृजँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This vowel has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
(1) सृज् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) सृज् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः।
(4) सृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) सृज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(6) सृज् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
(7) सृ अम् ज् + स्य + ए । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।
See question 2.
(8) सृ अ ज् + स्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) स्र ज् + स्य + ए । By 6-1-77 इको यणचि।
(10) स्र ज् स्ये । By 6-1-97 अतो गुणे।
(11) स्र ष् स्ये । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
(12) स्र क् स्ये । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
(13) स्रक्ष्ये । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
“उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उद् + स्रक्ष्ये = उत्स्रक्ष्ये । By 8-4-55 खरि च।
Questions:
1. Among the two verbal roots √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) and √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०), which one has been used in the गीता in a तिङन्तं पदम्?
2. Can you recall another सूत्रम् (besides 6-1-58 सृजिदृशोर्झल्यमकिति) which prescribes an augment अम्?
3. Among the monosyllabic verbal roots when end in a ईकार: in the धातु-पाठ:, only two do not a have a अनुदात्त-स्वर: on their ईकार:। One of them has been used in the verses. Which one is it?
4. Can you spot a “णिच्” affix in the commentary?
5. Where has लोँट् been used in the commentary?
6. How would you say this in Sanskrit?
“I will never give up the study of grammar.” Use the same धातु:/उपसर्ग: as in the post for “to give up.” Use the neuter noun “अध्ययन” for “study.”
Easy questions:
1. Which सूत्रम् is used for the सम्प्रसारणम् in the form शुनाम् used in the commentary?
2. Where has 7-3-103 बहुवचने झल्येत् been used in the commentary?
1. Among the two verbal roots √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) and √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०), which one has been used in the गीता in a तिङन्तं पदम्?
Answer: The verbal root √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) has been used in the गीता in the forms सृजति (लँट्, प्रथम-पुरुषः, एकवचनम्) and सृजामि/विसृजामि/उत्सृजामि (लँट्, उत्तम-पुरुषः, एकवचनम्)।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। 4-7 ।।
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। 5-14 ।।
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। 9-7 ।।
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। 9-8 ।।
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।। 9-19 ।।
In the forms cited above the गण-विकरणः “श” (and not “श्यन्”) has been used. Hence we know that √सृज् of the तुदादि-गणः has been used. Besides, √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) is परस्मैपदी while √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) is आत्मनेपदी। In the forms above, परस्मैपदम् has been used, which means they have been derived from √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०)।
In सृजति, the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
सृज् + लँट् । By 3-2-123 वर्तमाने लट्।
= सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + श + ति । By 3-1-77 तुदादिभ्यः शः।
= सृज् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= सृजति । Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
In सृजामि, the विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
सृज् + लँट् । By 3-2-123 वर्तमाने लट्।
= सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= सृज् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + श + मि । By 3-1-77 तुदादिभ्यः शः।
= सृज् + अ + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
= सृजामि । By 7-3-101 अतो दीर्घो यञि।
2. Can you recall another सूत्रम् (besides 6-1-58 सृजिदृशोर्झल्यमकिति) which prescribes an augment अम्?
Answer: The सूत्रम् 7-1-99 अम् सम्बुद्धौ also prescribes an augment “अम्”। When a सम्बुद्धिः affix follows, “चतुर्” and “अनडुह्” get the “अम्” augment.
3. Among the monosyllabic verbal roots when end in a ईकार: in the धातु-पाठ:, only two do not a have a अनुदात्त-स्वर: on their ईकार:। One of them has been used in the verses. Which one is it?
Answer: The two monosyllabic verbal roots ending in a ईकार: in the धातु-पाठ: and do not a have a अनुदात्त-स्वर: on their ईकार: are
i) √शी (शीङ् स्वप्ने २. २६) and ii) √डी (डीङ् विहायसा गतौ १. ११२३, डीङ् विहायसा गतौ ४. ३०).
The verbal root √शी (शीङ् स्वप्ने २. २६) has been used in the verses in the form शयिष्यसे।
The विवक्षा here is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
शी + लृँट् । By 3-3-13 लृट् शेषे च।
= शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शी + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= शी + से । By 3-4-80 थासस्से।
= शी + स्य + से । By 3-1-33 स्यतासी लृलुटोः।
= शी + इट् स्य + से । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= शी + इस्य + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शे + इस्य + से । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= शयिस्यसे । By 6-1-78 एचोऽयवायावः।
= शयिष्यसे । By 8-3-59 आदेशप्रत्यययो:।
4. Can you spot a “णिच्” affix in the commentary?
Answer: The “णिच्” affix has been used in the word त्याजयिष्यामि derived from the verbal root √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१).
The विवक्षा here is लृँट्, कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुषः, एकवचनम्।
त्यज् + णिच् । By 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= त्यज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= त्याज् + इ । 7-2-116 अत उपधायाः।
= त्याजि । “त्याजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
त्याजि + लृँट् । By 3-3-13 लृट् शेषे च।
= त्याजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= त्याजि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= त्याजि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= त्याजि + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
= त्याजि + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= त्याजि + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= त्याजे + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= त्याजयिस्य + मि । By 6-1-78 एचोऽयवायावः।
= त्याजयिस्यामि । By 7-3-101 अतो दीर्घो यञि।
= त्याजयिष्यामि । By 8-3-59 आदेशप्रत्यययो:।
5. Where has लोँट् been used in the commentary?
Answer: लोँट् has been used in the commentary in the form एहि derived from the धातुः √इ (इण् गतौ २. ४०).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
इ + लोँट् । By 3-3-162 लोट् च – The affix लोँट् follows a धातुः when used in the sense of command/request.
= इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= इ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + हि । By 3-4-87 सेर्ह्यपिच्च।
= इ + शप् + हि । By 3-1-68 कर्तरि शप्।
= इहि । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + इहि = आ + इहि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= एहि । By 6-1-87 आद्गुणः।
6. How would you say this in Sanskrit?
“I will never give up the study of grammar.” Use the same धातु:/उपसर्ग: as in the post for “to give up.” Use the neuter noun “अध्ययन” for “study.”
Answer: व्याकरणस्य अध्ययनम् न कदापि उत्स्रक्ष्ये = व्याकरणस्याध्ययनं न कदाप्युत्स्रक्ष्ये।
Easy questions:
1. Which सूत्रम् is used for the सम्प्रसारणम् in the form शुनाम् used in the commentary?
Answer: The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used for the सम्प्रसारणम् in the form शुनाम् (पुंलिङ्ग-प्रातिपदिकम् “श्वन्”, षष्ठी-बहुवचनम्)।
श्वन् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The अङ्गम् “श्वन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
= श् उ अन् + आम् । By 6-4-133 श्वयुवमघोनामतद्धिते – The अन् ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः। As per 1-1-45 इग्यणः सम्प्रसारणम् the letter “व्” is replaced by “उ”।
= श् उन् + आम् । By 6-1-108 सम्प्रसारणाच्च।
= शुनाम् ।
2. Where has 7-3-103 बहुवचने झल्येत् been used in the commentary?
Answer: The सूत्रम् 7-3-103 बहुवचने झल्येत् has been used in the form तेषु (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे सप्तमी-बहुवचनम्)।
तद् + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= तद् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= त अ + सु । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= त + सु । By 6-1-97 अतो गुणे।
= ते + सु । By 7-3-103 बहुवचने झल्येत् – the ending “अ” of a प्रातिपदिकम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
= तेषु । By 8-3-59 आदेशप्रत्यययोः।