Today we will look at the form अचीकॢपन् 3Ap-लुँङ् from श्रीमद्भागवतम् 10.32.13.
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीकॢपन्नासनमात्मबन्धवे ॥ १०-३२-१३ ॥
तत्रोपविष्टो भगवान्स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १०-३२-१४ ॥
श्रीधर-स्वामि-टीका –
ताश्च मनोरथानामन्तं ययुः पूर्णकामा बभूवुः । श्रुतयो यथेति । अयमर्थः – यथा कर्मकाण्डे श्रुतयः परमेश्वरमपश्यन्त्यस्तत्तत्कामानुबन्धैरपूर्णा इव भवन्ति, ज्ञानकाण्डे तु परमेश्वरं दृष्ट्वा तदाह्लादपूर्णाः कामानुबन्धं जहति तद्वदिति । आप्तकामा अपि प्रेम्णा तमभजन्नित्याह – स्वैरिति । अचीकॢपन् रचयामासुः । आत्मबन्धवेऽन्तर्यामिणे ।। १३ ।। गोपीसभागतस्ताभिः संमानितः सन् चकास शुशुभे । त्रैलोक्ये या लक्ष्मीः शोभा तस्या एकमेव पदं स्थानं तद्वपुर्दधद्दर्शयन् ।। १४ ।।
Gita Press translation – The Gopis, whose heartache (caused by their separation from the Lord) had been dissipated by the joy flowing from His sight, attained the end of their desire even as the Śrutis (Vedic texts dealing with rituals performed from some interested motive, and thus failing to perceive God) transcend the realm of desire (when they pass on to the topic of Jñaña or God-Realization and achieve their real purpose.) (Now) they prepared a seat for Śrī Kṛṣṇa (the Friend of their soul) with their scarfs spotted with the saffron paint on their bosom (13). Seated there and honored by them, the aforesaid almighty Lord, who stands enthroned in the heart of masters of Yoga, shone in the midst of that bevy of the Gopīs, revealing a personality which is the one abode of loveliness spread through (all) the three worlds (14).
अचीकॢपन् is derived from the धातुः √कृप् (भ्वादि-गणः, कृपूँ सामर्थ्ये, धातु-पाठः #१. ८६६)
The ऊकार: at the end of “कृपूँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
कृप् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= कृप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कृप् + इ । By 7-4-7 उरृत् – When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute. See question 2.
Note: 7-4-7 replaces the penultimate ऋकारः (of “कृप्”) by a ऋकारः। This is to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
= कृपि । “कृपि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “कृपि” has taken a परस्मैपद-प्रत्ययः।
(1) कृपि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) कृपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) कृपि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।
(4) कृपि + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(5) कृपि + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
(6) कृपि + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(7) कृपि + चङ् + अन्त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).
Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्।
(8) कृपि + अ + अन्त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) कृप् कृपि + अ + अन्त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(10) कर् प् कृपि + अ + अन्त् । By 7-4-66 उरत् – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रँपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
(11) क कृपि + अ + अन्त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(12) च कृपि + अ + अन्त् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
(13) चि कृपि + अ + अन्त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the ऋकारः in “कृपि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
(14) ची कृपि + अ + अन्त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.
(15) ची कृप् + अ + अन्त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।
Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
(16) चीकृपन्त् । By 6-1-97 अतो गुणे।
(17) अट् चीकृपन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
(18) अ चीकृपन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(19) अचीकॢपन्त् । By 8-2-18 कृपो रो लः – The रेफः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes लकारः as a substitute. So also the ऋकारः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes ऌकारः as a substitute. (We have not studied this सूत्रम् in the class.)
(20) अचीकॢपन् । By 8-2-23 संयोगान्तस्य लोपः।
Questions:
1. In the second last verse of which Chapter of the गीता has the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) been used in a तिङन्तं पदम्?
2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?
3. Besides in the form अचीकॢपन् where else has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?
4. Which सूत्रम् is used for the एकारादेशः in the form शुशुभे used in the commentary?
5. Where has the सूत्रम् 7-1-4 अदभ्यस्तात् been used in the commentary?
6. How would you say this in Sanskrit?
“The students prepared a seat for the teacher.” Use some words from the verse for “prepared a seat.”
Easy Questions:
1. Which सूत्रम् stops the augment नुँम् in the form दधत् (प्रातिपदिकम् “दधत्”, पुलिङ्गे प्रथमा-एकवचनम्।) Note: The “दध्” of दधत् has the अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्।
2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् apply in the form लक्ष्मीः (स्त्रीलिङ्ग-प्रातिपदिकम् “लक्ष्मी”, प्रथमा-एकवचनम्)?
1. In the second last verse of which Chapter of the गीता has the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) been used in a तिङन्तं पदम्?
Answer: In verse 26 (the second last verse) of Chapter 14, the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) been used in the form कल्पते।
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 14-26 ॥
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृप् + लँट् । By 3-2-123 वर्तमाने लट्।
= कृप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृप् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= कृप् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= कृप् + शप् + ते । By 3-1-68 कर्तरि शप्।
= कृप् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= कर्प् + अ + ते । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
= कल्पते । By 8-2-18 कृपो रो लः – The रेफः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes लकारः as a substitute.
2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?
Answer: The alternate final form would be अचकल्पन् ।
The विवक्षा is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
कृप् + णिच् । By 3-1-26 हेतुमति च।
= कृप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कर्प् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः। Note: We are considering the case when the optional rule 7-4-7 उरृत् is not used. Hence 7-3-86 पुगन्तलघूपधस्य च applies.
= कर्पि । “कर्पि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
कर्पि + लुँङ् । By 3-2-110 लुङ्।
= कर्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर्पि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कर्पि + झ् । By 3-4-100 इतश्च।
= कर्पि + अन्त् । By 7-1-3 झोऽन्तः।
= कर्पि + च्लि + अन्त् । By 3-1-43 च्लि लुङि।
= कर्पि + चङ् + अन्त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
= कर्पि + अ + अन्त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर्प् कर्पि + अ + अन्त् । By 6-1-11 चङि।
= क कर्पि + अ + अन्त् । By 7-4-60 हलादिः शेषः।
= च कर्पि + अ + अन्त् । By 7-4-62 कुहोश्चुः।
= च कर्प् + अ + अन्त् । By 6-4-51 णेरनिटि।
Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः by 7-2-35 आर्धधातुकस्येड् वलादेः।
= चकर्पन्त् । By 6-1-97 अतो गुणे।
= अट् चकर्पन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
= अ चकर्पन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अचकल्पन्त् । By 8-2-18 कृपो रो लः – The रेफः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes लकारः as a substitute.
= अचकल्पन् । By 8-2-23 संयोगान्तस्य लोपः।
3. Besides in the form अचीकॢपन् where else has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?
Answer: The सूत्रम् 7-4-62 कुहोश्चुः has also been used in the form चकास derived from √कस् (कसँ गतौ १. ९९६). Note: Here the verbal root √कस् has been used in the sense of दीप्तौ (to shine) and not गतौ (to go).
The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कस् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= कस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
= कस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= कस् कस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
= क कस् + अ । By 7-4-60 हलादिः शेषः।
= च कस् + अ। By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= चकास । By 7-2-116 अत उपधायाः।
4. Which सूत्रम् is used for the एकारादेशः in the form शुशुभे used in the commentary?
Answer: The सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् is used for the एकारादेशः in the form शुशुभे derived from √शुभ् (शुभँ दीप्तौ १. ८५३).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
शुभ् + लिँट् । By 3-2-115 परोक्षे लिँट।
= शुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शुभ् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= शुभ् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively. As per 1-1-55 अनेकाल् शित् सर्वस्य, the entire term “त” is replaced by “एश्”।
= शुभ् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शुभ् शुभ् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
= शु शुभ् + ए । By 7-4-60 हलादिः शेषः।
Note: The affix “एश्” is a कित् (having the letter ‘क्’ as a इत्) here as per 1-2-5 असंयोगाल्लिट् कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
= शुशुभे ।
5. Where has the सूत्रम् 7-1-4 अदभ्यस्तात् been used in the commentary?
Answer: The सूत्रम् 7-1-4 अदभ्यस्तात् has been used in the form जहति derived from √हा (ओँहाक् त्यागे ३. ९).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथमा-पुरुषः, बहुवचनम्।
हा + लँट् । By 3-2-123 वर्तमाने लट्।
= हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= हा + शप् + झि । By 3-1-68 कर्तरि शप्।
= हा + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= हा हा + झि । By 6-1-10 श्लौ।
= झा हा + झि । By 7-4-62 कुहोश्चुः।
= झ हा + झि । By 7-4-59 ह्रस्वः।
= झ हा + अत् इ। By 7-1-4 अदभ्यस्तात् – The झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
= झहति । By 6-4-112 श्नाभ्यस्तयोरातः।
Note: Since the सार्वधातुक-प्रत्यय: “अत् इ” is अपित्, by 1-2-4 सार्वधातुकम् अपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.
= जहति । By 8-4-54 अभ्यासे चर्च।
6. How would you say this in Sanskrit?
“The students prepared a seat for the teacher.” Use some words from the verse for “prepared a seat.”
Answer: छात्राः अध्यापकाय आसनम् अचीकॢपन्/अचकल्पन् = छात्रा अध्यापकायासनमचीकॢपन्/अध्यापकायासनमचकल्पन्।
– अथवा –
शिष्याः गुरवे आसनम् अचीकॢपन्/अचकल्पन् = शिष्या गुरव आसनमचीकॢपन्/आसनमचकल्पन्।
Easy Questions:
1. Which सूत्रम् stops the augment नुँम् in the form दधत् (प्रातिपदिकम् “दधत्”, पुंलिङ्गे प्रथमा-एकवचनम्।) Note: The “दध्” of दधत् has the अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्।
Answer: The प्रातिपदिकम् “दधत्” ends in the affix “शतृँ”। There is no “नुँम्”-आगम: in the form दधत् (पुंलिङ्गे प्रथमा-एकवचनम्) because of the निषेध-सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः – The “शतृँ” affix that follows an अभ्यस्तम् (ref 6-1-5 उभे अभ्यस्तम्) does not get the नुँम् augment.
दधत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
= दधत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Note: 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः।
= दधत् । सकारलोप: by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् apply in the form लक्ष्मीः (स्त्रीलिङ्ग-प्रातिपदिकम् “लक्ष्मी”, प्रथमा-एकवचनम्)?
Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “लक्ष्मी” used in the form लक्ष्मीः does not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् because it doesn’t end in the स्त्री-प्रत्यय: “ङी”।
Note: There are nine such ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। They are given in the following verse –
अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।
These nine स्त्रीलिङ्ग-प्रातिपदिकानि end in a ईकार: but for these there is no elision of सुँ-प्रत्ययः because they don’t end in the स्त्री-प्रत्यय: “ङी”। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.