Home » 2012 » August » 30

Daily Archives: August 30, 2012

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from माघकाव्यम् 1.68.

स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ 1-68 ॥

मल्लिनाथ-टीका –
भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । “अत इञ्” इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः । अत एव चलन्ति जलानि यस्य स च । अत एवाविलश्च तमाबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे ‘समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ’ इति हलायुधः । “अभितः परितः समयानिकषाहाप्रतियोगेऽपि” इति द्वितीया । हनिष्यति अवधीत् । “अभिज्ञावचने लृट्” इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥

Translation – (Does) thou remember that – being the son of (King) Daśaratha, thou having crossed the bridged turbid ocean with turbulent waters, killed in the vicinity of Lañkā that (Rāvaṇa) – the abductor of the lady (Sītā) from the (Danḍaka) forest.

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । By 3-2-112 अभिज्ञावचने लृट् – In the presence of an adjoining word implying recollection, a verbal root takes the affix लृँट् in the sense of past not of today. See question 2.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √हन् (हनँ हिंसागत्योः २. २) been used with the affix लृँट् in the गीता?

2. The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the तत्त्वबोधिनी says ‘भूते’ इत्यधिक्रियते। ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते। Please explain.

4. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the काशिका says वचनग्रहणं पर्यायार्थम् । अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति ॥ Please explain.

5. Why doesn’t the सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevent the augment इट् in the form अवधीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“O friend! (Do) you recall (that) we (two) lived in Mumbai?”

Easy Questions:

1. In the verse can you spot two words which are derived from the प्रातिपदिकम् “अदस्”?

2. From which प्रातिपदिकम् is the form भवन् derived? From which one is the form भवान् derived?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics