Today we will look at the form जगदिषे 2Ps-लिँट् from श्रीमन्नारायणीयम् 13.4
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥ १३-४ ॥
पदान्वयः –
दैत्ये हि गदापाणौ त्वमपि गृहीतोन्नतगदः घटघटरवोद्घुष्टवियता नियुद्धेन क्रीडन् रणालोकौत्सुक्यात् सुरसङ्घे मिलति सति धात्रा जगदिषे ।
टीका –
दैत्ये हिरण्याक्षे । हीति त्वर्थे । गदापाणौ गदां गृहीतवति । यतो गदां गृहीतवांस्तत इत्यर्थः । गृहीता स्मृतमात्र एव कराम्बुजं प्राप्ता धृता उन्नता महती गदा कौमोदकी येन स गृहीतोन्नतगदो । घटघटरवेण परस्परगदाघातोत्पन्नेन शब्दविशेषेण । घटघटेति शब्दानुकरणम् । उद्घुष्टमुच्चैः शब्दायमानं वियदम्बरं यस्य तेन घटघटरवोद्घुष्टवियता । नियुद्धेन द्वन्द्वयुद्धेन । क्रीडन् खेलन् । अनेन भगवतोऽनायासो ध्वन्यते । रणालोकौत्सुक्यात् रणालोको युद्धदर्शनं तत्रौत्सुक्यात् कौतुकातिशयेन । भगवतः श्रीवराहस्य पराक्रमदर्शनकौतुकातिशयतेनेत्यर्थः । सुरसङ्घे देवसञ्चये । मिलति अहमहमिकया ससम्मर्दं स्थितवति । इति अनेन प्रकारेण । धात्रा ब्रह्मणा । जगदिषे विज्ञापितः । विज्ञापनप्रकारमाह – सन्ध्यातः प्रथमं द्रुतममुं निरुन्ध्याः इति । सन्ध्यातः सन्ध्याकालात् । प्रथमं पूर्वम् । द्रुतं झटिति । अमुमसुराधमम् । निरुन्ध्याः निगृहाण । अन्यथाऽयं सन्ध्यायामन्तर्हितो भविष्यतीति भावः ॥
Translation – The Asura being armed with a mace, Thou also didst hold a mighty mace and didst entertain Thyself with a duel which the sky resounded with the clash of maces. The hosts of gods then assembled out of eagerness to see the fight. “Quickly, before dusk kill this (Asura)” thus Thou wert requested by Brahmā.
जगदिषे is derived from the धातुः √गद् (भ्वादि-गणः, गदँ व्यक्तायां वाचि धातु-पाठः # १.५४).
The ending अकारः of “गदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः।
Since this is a कर्मणि प्रयोग:, the verbal root √गद् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः।
The विवक्षा is लिँट्, कर्मणि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
(1) गद् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) गद् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः।
(4) गद् + से । By 3-4-80 थासस्से – The affix “थास्” which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.
(5) गद् गद् + से । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(6) जद् गद् + से । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
(7) ज गद् + से । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(8) ज गद् + इट् से । By 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि – वृत्तिः क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्। A लिँट् affix does not take the augment इट् only when following one of the eight verbal roots – √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). A लिँट् affix does take the augment इट् when following any other verbal root even if that verbal root is अनिट्। As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “से”।
Note: The सूत्रम् 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि has not been discussed in the class.
(9) ज गद् + इसे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(10) जगदिषे । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions:
1. Where has the सूत्रम् 3-4-80 थासस्से (used in step 4) been used for the last time in the गीता?
2. Can you spot an affix श्नम् in the verse?
3. Where has the सूत्रम् 3-1-83 हलः श्नः शानज्झौ been used in the commentary?
4. How would you say this in Sanskrit?
“‘I don’t want to fight.’ – thus Śrī Kṛṣṇa was spoken to by Arjuna.” Use the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) for “to fight” and the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) for “to speak.”
5. How would you say this in Sanskrit?
“Rāvaṇa was killed by Śrī Rāma.” Use a passive लिँट् form of the verbal root √हन् (हनँ हिंसागत्योः २. २) for “was killed.”
6. How would you say this in Sanskrit?
“I don’t want to argue.” Use the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) with the उपसर्गः “वि” for “to argue.”
Easy Questions:
1. Where has the सर्वनाम-प्रातिपदिकम् “अदस्” been used in the verse?
2. In the verse can you spot a प्रातिपदिकम् ending in the ऋकारः?
1. Where has the सूत्रम् 3-4-80 थासस्से (used in step 4) been used for the last time in the गीता?
Answer: The सूत्रम् 3-4-80 थासस्से (used in step 4) has been used for the last time in the form मन्यसे derived from √मन् (मनँ ज्ञाने ४. ७३).
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 18-59 ॥
The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
मन् + लँट् । By 3-2-123 वर्तमाने लट्।
= मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मन् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= मन् + से । By 3-4-80 थासस्से – The affix “थास्” which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term “थास्” is replaced.
= मन् + श्यन् + से । By 3-1-69 दिवादिभ्यः श्यन्।
= मन्यसे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
2. Can you spot an affix श्नम् in the verse?
Answer: An affix श्नम् has been used in the form निरुन्ध्या: derived from √रुध् (रुधिँर् आवरणे ७. १).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, मध्य-पुरुषः, एकवचनम्।
रुध् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= रुध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रुध् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= रुध् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रुध् + स् । By 3-4-100 इतश्च।
= रुध् + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= रुध् + यास् स् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
= रुध् + या स् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= रु श्नम् ध् + यास् । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “रुध्”।
= रुनध् + यास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= रुन् ध् + यास् । By 6-4-111 श्नसोरल्लोपः। Note: The प्रत्यय: “यास्” is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-111 to apply.
= रुन्ध्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + रुन्ध्याः = निरुन्ध्याः।
3. Where has the सूत्रम् 3-1-83 हलः श्नः शानज्झौ been used in the commentary?
Answer: The सूत्रम् 3-1-83 हलः श्नः शानज्झौ has been used in the form निगृहाण derived √ग्रह् (ग्रहँ उपादाने ९.७१).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
ग्रह् + लोँट् । By 3-3-162 लोट् च।
= ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रह् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= ग्रह् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रह् + हि । By 3-4-87 सेर्ह्यपिच्च, 1-1-55 अनेकाल्शित्सर्वस्य।
= ग्रह् + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना।
= ग्रह् + शानच् + हि । By 3-1-83 हलः श्नः शानज्झौ, after a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.
Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “श्ना” gets replaced.
= ग्रह् + आन + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= ग् ऋ अ ह् + आन + हि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
Note: Since the सार्वधातुक-प्रत्यय: “शानच्” is अपित्, by 1-2-4 सार्वधातुकमपित्, it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
= गृह् + आन + हि । By 6-1-108 सम्प्रसारणाच्च।
= गृहान । By 6-4-105 अतो हेः।
= गृहाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + गृहाण = निगृहाण।
4. How would you say this in Sanskrit?
“‘I don’t want to fight.’ – thus Śrī Kṛṣṇa was spoken to by Arjuna.” Use the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) for “to fight” and the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) for “to speak.”
Answer: न युयुत्से इति अर्जुनेन श्रीकृष्णः जगदे = न युयुत्स इत्यर्जुनेन श्रीकृष्णो जगदे।
5. How would you say this in Sanskrit?
“Rāvaṇa was killed by Śrī Rāma.” Use a passive लिँट् form of the verbal root √हन् (हनँ हिंसागत्योः २. २) for “was killed.”
Answer: श्रीरामेण रावणः जघ्ने = श्रीरामेण रावणो जघ्ने।
6. How would you say this in Sanskrit?
“I don’t want to argue.” Use the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) with the उपसर्गः “वि” for “to argue.”
Answer: न विविवदिषामि।
Easy Questions:
1. Where has the सर्वनाम-प्रातिपदिकम् “अदस्” been used in the verse?
Answer: The सर्वनाम-प्रातिपदिकम् “अदस्” has been used in the form अमुम्। The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
अदस् + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
= अद अ + अम् । By 7-2-102 त्यदादीनाम:, 1-1-52 अलोऽन्त्यस्य।
= अद + अम् । By 6-1-97 अतो गुणे।
= अदम् । By 6-1-107 अमि पूर्वः।
= अमुम् । By 8-2-80 अदसोऽसेर्दादु दो मः – There is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।
2. In the verse can you spot a प्रातिपदिकम् ending in the ऋकारः?
Answer: A प्रातिपदिकम् ending in ऋकारः is “धातृ” – used in the form धात्रा। The विवक्षा is पुंलिङ्गे तृतीया-एकवचनम्।
धातृ + टा । By 4-1-2 स्वौजसमौट्छष्टा…।
= धात् ऋ + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= धात्रा । By 6-1-77 इको यणचि।