Today we will look at the form दिधक्षामि 1As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 3.68.27.
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ ३-६८-२७ ॥
नाथं पतगलोकस्य चितिमारोपयाम्यहम् । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ ३-६८-२८ ॥
Gita Press translation – Fetch logs of wood, O darling of Sumitrā, so that I shall produce fire by attrition, as I intend to cremate the king of vultures, who has suffered death for my sake (27). I will place the lord of the feathered kingdom on a funeral pile, and will (then) set fire to this bird killed by the fierce ogre, O darling of Sumitrā! (28)
दिधक्षामि is a desiderative form derived from the धातुः √दह् (भ्वादि-गणः, दहँ भस्मीकरणे धातु-पाठः #१. ११४६)
दह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
= दह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= दह् स् दह् + स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
= द दह् + स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
= दि दह् + स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
= दि दघ् + स । By 8-2-32 दादेर्धातोर्घः – The हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्।
= दि धघ् + स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।
= दि धघ् + ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
= दिधक्ष । By 8-4-55 खरि च – A झल् letter is replaced by a चर् letter when a खर् letter follows.
“दिधक्ष” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
In the धातु-पाठः, the verbal root √दह् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √दह् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “दिधक्ष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।
The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
(1) दिधक्ष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) दिधक्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) दिधक्ष + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मिप्” as the substitute for the लकारः।
(4) दिधक्ष + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः ।
(5) दिधक्ष + शप् + मि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) दिधक्ष + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
(7) दिधक्ष + मि । By 6-1-97 अतो गुणे।
(8) दिधक्षामि । By 7-3-101 अतो दीर्घो यञि – the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।
Questions:
1. Where has the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) been used in a तिङन्तं पदम् for the first time in the गीता?
2. Where else (besides in दिधक्षामि) has the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) been used in a तिङन्तं पदम् in the verses?
3. What would be an alternate form for आरोपयामि?
4. From which verbal root has the form निर्मथिष्यामि been derived?
5. How would you say this in Sanskrit?
“With His third eye, Lord Śiva wanted to burn Cupid.” Use a लिँट् form to express the past tense. Use the adjective प्रातिपदिकम् “तृतीय” for “third.”
6. How would you say this in Sanskrit?
“I want to know the essence of the Veda.”
Easy Questions:
1. The सूत्रम् 8-2-32 दादेर्धातोर्घः (used in this example) is a अपवादः for which सूत्रम्?
2. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?
1. Where has the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) been used in a तिङन्तं पदम् for the first time in the गीता?
Answer: The verbal root √दह् (दहँ भस्मीकरणे १. ११४६) has been used in a तिङन्तं पदम् for the first time in the form परिदह्यते।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 1-30 ॥
The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।
दह् + लँट् । By 3-2-123 वर्तमाने लट्।
= दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= दह् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= दह् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
= दह्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
“परि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
परि + दह्यते = परिदह्यते।
2. Where else (besides in दिधक्षामि) has the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) been used in a तिङन्तं पदम् in the verses?
Answerः The verbal root √दह् (दहँ भस्मीकरणे १. ११४६) has also been used in the form धक्ष्यामि।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
दह् + लृँट् । 3-3-13 लृट् शेषे च।
= दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= दह् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह् + स्य + मि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
= दह् स्यामि । By 7-3-101 अतो दीर्घो यञि।
= दघ् स्यामि । By 8-2-32 दादेर्धातोर्घः।
= धघ् स्यामि । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः।
= धघ् ष्यामि । By 8-3-59 आदेशप्रत्यययो:।
= धक्ष्यामि । By 8-4-55 खरि च।
3. What would be an alternate form for आरोपयामि?
Answer: The alternate form for आरोपयामि would be आरोहयामि। As per 7-3-43 रुहः पोऽन्यतरस्याम्, the ending letter (as per 1-1-52 अलोऽन्त्यस्य) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) takes the पकारादेश: optionally when the “णि”-प्रत्यय: follows.
The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), उत्तम-पुरुषः, एकवचनम्।
रुह् + णिच् । By 3-1-26 हेतुमति च।
Note: Here we consider the case when the verbal root √रुह् does not take the पकारादेशः by 7-3-43 रुहः पोऽन्यतरस्याम्।
= रुह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= रोहि । By 7-3-86 पुगन्तलघूपधस्य च।
“रोहि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
रोहि + लँट् । By 3-2-123 वर्तमाने लट्।
= रोहि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रोहि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= रोहि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रोहि + शप् + मि । By 3-1-68 कर्तरि शप्।
= रोहि + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= रोहे + अ + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= रोहय + मि । By 6-1-78 एचोऽयवायावः।
= रोहयामि । By 7-3-101 अतो दीर्घो यञि।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
आङ् + रोहयामि = आरोहयामि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
4. From which verbal root has the form निर्मथिष्यामि been derived?
Answer: The form निर्मथिष्यामि is derived from the verbal root √मथ् (मथेँ विलोडने १. ९८३).
The विवक्षा is लृँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
मथ् + लृँट् । By 3-3-13 लृट् शेषे च।
= मथ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मथ् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= मथ् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मथ् + स्य + मि । 3-1-33 स्यतासी लृलुटोः।
= मथ् + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= मथ् + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मथिस्यामि । By 7-3-101 अतो दीर्घो यञि।
= मथिष्यामि । By 8-3-59 आदेशप्रत्यययो:।
“निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
निर्/निस् + मथिष्यामि = निर्मथिष्यामि । By 8-2-66 ससजुषो रुः।
5. How would you say this in Sanskrit?
“With His third eye, Lord Śiva wanted to burn Cupid.” Use a लिँट् form to express the past tense. Use the adjective प्रातिपदिकम् “तृतीय” for “third.”
Answer: भगवान् शिवः स्वस्य/स्वेन तृतीयेन अक्ष्णा कामम् दिधक्षामास/दिधक्षाम्बभूव = भगवाञ्शिवः स्वस्य/स्वेन तृतीयेनाक्ष्णा कामं दिधक्षामास/दिधक्षाम्बभूव।
– अथवा –
भगवान् शिवः स्वस्य/स्वेन तृतीयेन नेत्रेण मन्मथम् दिधक्षाञ्चकार = भगवाञ्छिवः स्वस्य/स्वेन तृतीयेन नेत्रेण मन्मथं दिधक्षाञ्चकार।
6. How would you say this in Sanskrit?
“I want to know the essence of the Veda.”
Answer: वेदस्य सारम् जिज्ञासे = वेदस्य सारं जिज्ञासे। Note: आत्मनेपदम् is used in the form जिज्ञासे as per the सूत्रम् 1-3-57 ज्ञाश्रुस्मृदृशां सनः – A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots – √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
Easy Questions:
1. The सूत्रम् 8-2-32 दादेर्धातोर्घः (used in this example) is a अपवादः for which सूत्रम्?
Answer: The सूत्रम् 8-2-32 दादेर्धातोर्घः is a अपवादः for 8-2-31 हो ढः – A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्।
2. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?
Answer: The सूत्रम् 7-2-109 दश्च has been used in the form ‘इमम्’ derived from the सर्वनाम-प्रातिपदिकम् “इदम्” । The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम् ।
इदम् + अम् । 4-1-2 स्वौजसमौट्छष्टा…………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
= इद अ + अम् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= इद + अम् । By 6-1-97 अतो गुणे।
= इम + अम् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.
= इमम् । By 6-1-107 अमि पूर्वः।