Home » Example for the day » अवाप्स्यः 2As-लृँङ्

अवाप्स्यः 2As-लृँङ्

Today we will look at the form अवाप्स्यः 2As-लृँङ् from विक्रमोर्वशीयम् 4.22.

मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं वरतनुरथ वासौ नैव दृष्टा त्वया मे ।
यदि सुरभिमवाप्स्यस्तन्मुखोच्छासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् ॥ ४-२२ ॥

टीका –
हे मधुकर भ्रमर मदिराक्ष्या मत्तलोचनायास्तस्याः प्रवृत्तिं वार्तां शंस कथय । अथ वा वरतनुश्चारुगात्री मे प्रिया त्वया नैव दृष्टा । कुत इदं निश्चीयते इत्याह – सुरभिं घ्राणतर्पणं तन्मुखोच्छ्वासगन्धं तन्मुखमारुतसौगन्ध्यमवाप्स्यो यदि आस्वादयिष्यथाश्चेदस्मिंस्त्वयाधिष्ठिते पुण्डरीके तव रतिः प्रीतिरभविष्यत्किम् । नैवाभविष्यत् । तस्य असामान्यमुखोच्छ्वासगन्धलोलुपस्त्वं तां नानुगतोऽत्रैव तिष्ठसीति सा नैव त्वया दृष्टेति भावः ॥ २२ ॥

Translation – O bee, tell me some intelligence of her who has bewitching eyes. (Musing) – Or why, you have not at all seen that beautiful lady, my beloved. If you had experienced the sweet fragrance of her breath, could your affection ever have been fixed on this lotus? (22)

आप्स्यः is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).

The ending ऌकारः of “आपॢँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √आप् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) आप् + लृँङ् । By 3-3-140 भूते च – The affix लृँङ् is employed after a verbal root to also denote a past action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.

(2) आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आप् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) आप् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) आप् + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) आप् + स्य + स् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) आट् आप्स्यस् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets “आट्” as an augment. 1-1-46 आद्यन्तौ टकितौ places the “आट्”-आगमः at the beginning of the अङ्गम् ।

(8) आ + आप्स्यस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) आप्स्यस् । By 6-1-90 आटश्च, a वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(10) आप्स्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + आप्स्यः = अवाप्स्यः । By 6-1-101 अकः सवर्णे दीर्घः।

Questions:

1. Where else (besides in अवाप्स्यः) has लृँङ् been used in the verses?

2. Where else (besides in अवाप्स्यः and in answer to question 1) has लृँङ् been used in the commentary?

3. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the commentary?

4. How would you say this in Sanskrit?
“If you had followed my advice (which clearly you did not) would you be sorry today?” Use the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) with the उपसर्गः “अनु” for “to follow.” Use the adjective प्रातिपदिकम् “दुःखिन्” for “(one who is) sorry.”

5. How would you say this in Sanskrit?
“If I had not rushed (which clearly I did) I would not have fallen.” Use the verbal root √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) for “to rush.”

6. How would you say this in Sanskrit?
“If I had seen you in the morning (which I clearly did not) I would have told you the good news.” Use the adjective प्रातिपदिकम् “शुभ” (feminine “शुभा”) for “good.” Use a word from the commentary for “news.” Use a चतुर्थी-विभक्तिः with “you.”

Easy Questions:

1. Which सूत्रम् is used for the आडागमः in the form मदिराक्ष्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “मदिराक्षी”, षष्ठी-एकवचनम्।)

2. How would you say this in Sanskrit?
“This (is) the second question.” Use the adjective प्रातिपदिकम् “द्वितीय” for “second.”


1 Comment

  1. 1. Where else (besides in अवाप्स्यः) has लृँङ् been used in the verses?
    Answer: लृँङ् has also been used in the form अभविष्यत् derived from √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

    The विवक्षा is लृँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लृँङ् । By 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + स्य + त् । By 3-1-33 स्यतासी लृलुटोः।
    = भू + इट् स्य + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = भू + इस्य + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भो + इस्य + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भविस्य + त् । By 6-1-78 एचोऽयवायावः।
    = अट् भविस्यत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभविस्यत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अभविष्यत् । By 8-3-59 आदेशप्रत्यययो:।

    2. Where else (besides in अवाप्स्यः and in answer to question 1) has लृँङ् been used in the commentary?
    Answer: लृँङ् has also been used in the commentary in the form आस्वादयिष्यथाः derived from √स्वद् (ष्वदँ आस्वादने १०. ३३६). The beginning षकार: of “ष्वदँ” takes the सकारादेश: as per 6-1-64 धात्वादेः षः सः।

    स्वद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = स्वद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्वादि । By 7-2-116 अत उपधायाः। “स्वादि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लृँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    स्वादि + लृँङ् । By 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ।
    = स्वादि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्वादि + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “थास्” from getting the इत्-सञ्ज्ञा।
    = स्वादि + स्य + थास् । By 3-1-33 स्यतासी लृलुटोः।
    = स्वादि + इट् स्य + थास् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = स्वादि + इस्य + थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्वादे + इस्य + थास् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्वादयिस्य + थास् । By 6-1-78 एचोऽयवायावः।
    = अट् स्वादयिस्यथास् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अस्वादयिस्यथास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस्वादयिस्यथाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = अस्वादयिष्यथाः । By 8-3-59 आदेशप्रत्यययो:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अस्वादयिष्यथाः
    = आ + अस्वादयिष्यथाः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आस्वादयिष्यथाः । By 6-1-101 अकः सवर्णे दीर्घः।

    3. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the commentary?
    Answer: The सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः has been used in the form निश्चीयते derived from √चि (चिञ् चयने ५. ५).

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।

    चि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = चि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चि + यक् + ते । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चीयते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

    “निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    निर्/निस् + चीयते
    = निः + चीयते । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = निस् + चीयते । By 8-3-34 विसर्जनीयस्य सः।
    = निश्चीयते । By 8-4-40 स्तोः श्चुना श्चुः।

    4. How would you say this in Sanskrit?
    “If you had followed my advice (which clearly you did not) would you be sorry today?” Use the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) with the उपसर्गः “अनु” for “to follow.” Use the adjective प्रातिपदिकम् “दुःखिन्” for “(one who is) sorry.”
    Answer: मम उपदेशम् अन्वचरिष्यः चेत् अद्य दुःखी अभविष्यः किम् = ममोपदेशमन्वचरिष्यश्चेदद्य दुःख्यभविष्यः किम्।
    – अथवा (स्त्रीलिङ्गे) –
    मम उपदेशम् अन्वचरिष्यः चेत् अद्य दुःखिनी अभविष्यः किम् = ममोपदेशमन्वचरिष्यश्चेदद्य दुःखिन्यभविष्यः किम्।

    5. How would you say this in Sanskrit?
    “If I had not rushed (which clearly I did) I would not have fallen.” Use the verbal root √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) for “to rush.”
    Answer: न अत्वरिष्ये चेत् न अपतिष्यम् = नात्वरिष्ये चेन्नापतिष्यम्।

    6. How would you say this in Sanskrit?
    “If I had seen you in the morning (which I clearly did not) I would have told you the good news.” Use the adjective प्रातिपदिकम् “शुभ” (feminine “शुभा”) for “good.” Use a word from the commentary for “news.” Use a चतुर्थी-विभक्तिः with “you.”
    Answer: प्रातः त्वाम् अद्रक्ष्यम् चेत् तुभ्यम्/ते शुभाम् वार्ताम् अवक्ष्यम् = प्रातस्त्वामद्रक्ष्यं चेत्तुभ्यं/चेत्ते शुभां वार्तामवक्ष्यम्।
    – अथवा –
    प्रभाते त्वाम् अवालोकयिष्यम् चेत् तुभ्यम्/ते शुभाम् वार्ताम् अकथयिष्यम् = प्रभाते त्वामवालोकयिष्यं चेत्तुभ्यं/चेत्ते शुभां वार्तामकथयिष्यम्।

    Easy Questions:

    1. Which सूत्रम् is used for the आडागमः in the form मदिराक्ष्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “मदिराक्षी”, षष्ठी-एकवचनम्।)
    Answer: The सूत्रम् 7-3-112 आण्नद्याः is used for the आडागमः in the form मदिराक्ष्याः।

    मदिराक्षी + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। “मदिराक्षी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = मदिराक्षी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्-सञ्ज्ञा।
    = मदिराक्षी + आट् अस् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of the प्रत्यय: “ङस्”।
    = मदिराक्षी + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मदिराक्षी + आस् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    = मदिराक्ष्यास् । By 6-1-77 इको यणचि।
    = मदिराक्ष्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. How would you say this in Sanskrit?
    “This (is) the second question.” Use the adjective प्रातिपदिकम् “द्वितीय” for “second.”
    Answer: अयम्/एषः द्वितीयः प्रश्नः = अयं/एष द्वितीयः प्रश्नः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics