Today we will look at the form अभविष्यन् 3Ap-लृँङ् from श्रीमद्भागवतम् 4.15.24.
महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि ।
तेऽस्याभविष्यन्निति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥ ४-१५-२४ ॥
ननु संभावितैरेव गुणैरात्मानं जनः स्तावयतीति चेत्तत्राह । महतां गुणानात्मनि संपादयितुं शक्तोऽप्यसतो गुणान्संभावनामात्रेण कः स्तावयते । यद्वा आदावेव सतोऽपि कः स्तावयते स्वत एव प्रख्यातिसिद्धेः । अन्यस्तु मिथ्यागुणस्तुतिश्लाघी मन्द इत्याह – त इति । यद्ययं शास्त्राभ्यासादिकमकरिष्यत्तर्ह्यस्य ते विद्यादयो गुणा अभविष्यन्निति क्रियातिपत्त्या विप्रलब्धो जनानामवहासं न वेद ॥ २४ ॥
Gita Press translation – (If you urge that it is possible for me to prove the existence of such and such virtues in my conduct and therefore you should extol me for the same. I do not fall in your view.) Who would have himself extolled by bards for the qualities which are non-existent in him, even though he may be able to manifest remarkable virtues in himself? Such and such qualities, it may be urged, are likely* to fall to his lot. But to get oneself praised thus on mere possibilities is to be an object of people’s ridicule. A fool, however, will not understand this banter (24).
*Note: The use of the word अभविष्यन् in the verse has been clearly explained in the commentary as follows:
यद्ययं शास्त्राभ्यासादिकमकरिष्यत्तर्ह्यस्य ते विद्यादयो गुणा अभविष्यन् – If this person were to do a study of the scriptures etc. (which clearly is not the case) then those qualities like knowledge etc. would be his.
अभविष्यन् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)
This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes परस्मैपद-प्रत्यया: by default.
The विवक्षा is लृँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
(1) भू + लृँङ् । By 3-3-139 लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ – The affix लृँङ् is employed after a verbal root to denote a future action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.
(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।
(4) भू + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(5) भू + स्य + झ् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) भू + इट् स्य + झ् । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(7) भू + इस्य + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) भो + इस्य + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुणादेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(9) भविस्य + झ् । By 6-1-78 एचोऽयवायावः।
(10) भविस्य + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
(11) भविस्यन्त् । By 6-1-97 अतो गुणे।
(12) अट् भविस्यन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
(13) अभविस्यन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(14) अभविस्यन् । By 8-2-23 संयोगान्तस्य लोपः।
(15) अभविष्यन् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions:
1. How many times has लृँङ् been used in the गीता?
2. Commenting on the सू्त्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5) the सिद्धान्त-कौमुदी says लृ इति लृङ्लृटोर्ग्रहणम् । Please explain.
3. Commenting on the सूत्रम् 3-3-156 हेतुहेतुमतोर्लिङ् (referred to in step 1) the सिद्धान्त-कौमुदी quotes from the महाभाष्यम् – “भविष्यत्येवेष्यते।” The तत्त्वबोधिनी comments on this statement as follows – लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः। Please explain.
4. Where else (besides in अभविष्यन्) has लृँङ् been used in the commentary?
5. How would you say this in Sanskrit?
“If Śrī Rāma had been there (which clearly he wasn’t), Rāvaṇa would not have abducted Sītā.” Use the verbal root √हृ (हृञ् हरणे १. १०४६) with the उपसर्गः “अप” for “to abduct” and use the अव्ययम् “तत्र” for “there.”
6. How would you say this in Sanskrit?
“If you had paid attention (which you clearly did not) you would have known the answer to this question.” Use the verbal root √दा (डुदाञ् दाने ३. १०) for “to pay” (“to give.”)
Easy Questions:
1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?
2. Can you spot the augment “नुँट्” in the commentary?
1. How many times has लृँङ् been used in the गीता?
Answer: There is no usage of लृँङ् in the गीता। Note: Among the ten लकाराः (लँट्, लिँट्, लुँट्, लृँट्, लोँट्, लँङ्, विधिलिँङ्, आशीर्लिँङ्, लुँङ् and लृँङ्) only लृँङ् has not been used in the गीता।
2. Commenting on the सू्त्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5) the सिद्धान्त-कौमुदी says लृ इति लृङ्लृटोर्ग्रहणम् । Please explain.
Answer: This elucidates the fact that “लृ” in the सृत्रम् 3-1-33 स्यतासी लृलुटोः stands for both लृँङ् as well as लृँट्। Therefore, the affix “स्य” is prescribed after a धातुः when followed by either लृँट् or लृँङ्।
3. Commenting on the सूत्रम् 3-3-156 हेतुहेतुमतोर्लिङ् (referred to in step 1) the सिद्धान्त-कौमुदी quotes from the महाभाष्यम् – “भविष्यत्येवेष्यते।” The तत्त्वबोधिनी comments on this statement as follows – लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः। Please explain.
Answer: पाणिनिः mentions लिँङ् in the सूत्रम् 3-3-152 उताप्योः समर्थयोर्लिङ्। The अनुवृत्तिः of this लिँङ् from 3-3-152 could have been used in the सूत्रम् 3-3-156 हेतुहेतुमतोर्लिङ्। Then why does पाणिनिः mention लिँङ् again in the सूत्रम् 3-3-156 हेतुहेतुमतोर्लिङ्? The answer is given as कालविशेषप्रतिपत्त्यर्थम् – meaning that mentioning लिङ् again in the सूत्रम् 3-3-156 is to indicate that this लिँङ् carries a special meaning in terms of time. This explains the statement “भविष्यत्येवेष्यते।”, i.e the usage of the लिँङ् prescribed by 3-3-156 is only desired (and hence should only be used) when an event in the future is to be described.
4. Where else (besides in अभविष्यन्) has लृँङ् been used in the commentary?
Answer: लृँङ् has also been used in the form अकरिष्यत् derived from √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
The विवक्षा is लृँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कृ + लृँङ् । By 3-3-139 लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + त् । By 3-4-100 इतश्च।
= कृ + स्य + त् । By 3-1-33 स्यतासी लृलुटोः।
= कृ + इट् स्य + त् । By 7-2-70 ऋद्धनोः स्ये, 1-1-46 आद्यन्तौ टकितौ। Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात् would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः।
= कृ + इस्य + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर् + इस्य + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= अट् करिस्यत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अकरिस्यत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अकरिष्यत् । By 8-3-59 आदेशप्रत्यययो:।
5. How would you say this in Sanskrit?
“If Śrī Rāma had been there (which clearly he wasn’t), Rāvaṇa would not have abducted Sītā.” Use the verbal root √हृ (हृञ् हरणे १. १०४६) with the उपसर्गः “अप” for “to abduct” and use the अव्ययम् “तत्र” for “there.”
Answer: श्रीरामः तत्र अभविष्यत् चेत् रावणः सीताम् न अपाहरिष्यत् = श्रीरामस्तत्राभविष्यच्चेद् रावणः सीतां नापाहरिष्यत्।
-अथवा-
यदि श्रीरामः तत्र अभविष्यत् तर्हि रावणः सीताम् न अपाहरिष्यत् = यदि श्रीरामस्तत्राभविष्यत् तर्हि रावणः सीतां नापाहरिष्यत्।
6. How would you say this in Sanskrit?
“If you had paid attention (which you clearly did not) you would have known the answer to this question.” Use the verbal root √दा (डुदाञ् दाने ३. १०) for “to pay” (“to give.”)
Answer: अवधानम् अदास्यः चेत् अस्य प्रश्नस्य उत्तरम् अज्ञास्यः = अवधानमदास्यश्चेदस्य प्रश्नस्योत्तरमज्ञास्यः।
-अथवा-
यदि अवधानम् अदास्यः तर्हि अस्य प्रश्नस्य समाधानम् अज्ञास्यः = यद्यवधानमदास्यस्तर्ह्यस्य प्रश्नस्य समाधानमज्ञास्यः।
Easy Questions:
1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?
Answer: The सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the सन्धि-कार्यम् between अभविष्यन् + इति = अभविष्यन्निति।
अभविष्यन् + इति । As per 1-4-14 सुप्तिङन्तं पदम्, “अभविष्यन्” has the पद-सञ्ज्ञा।
= अभविष्यन् + नुँट् इति । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case अकार:), then the following vowel (long or short – in this case the इकार: at the beginning of इति) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the इकार:।
= अभविष्यन् + न् इति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अभविष्यन्निति ।
2. Can you spot the augment “नुँट्” in the commentary?
Answer: The augment “नुँट्” can be seen in the form जनानाम् (पुंलिङ्ग-प्रातिपदिकम् “जन”, षष्ठी-बहुवचनम्।)
जन + आम् । By 4-1-2 स्वौजसमौट्छष्टा… । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting the इत्-सञ्ज्ञा।
= जन + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् -the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् attaches itself to the beginning of आम्।
= जन + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जनानाम् । By 6-4-3 नामि the ending vowel of a अङ्गम् gets elongated if followed by the term “नाम्”।