Today we will look at the form अभोजि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.14.45.
ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ १०-१४-४५ ॥
ततो हसन्हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ १०-१४-४६ ॥
श्रीधर-स्वामि-टीका –
अत एवमूचुश्च – ते त्वयाऽतिवेगेन स्वागतं सम्यगागतम् । एकोऽपि ग्रासस्त्वां विनास्माभिर्नाभोजि न भुक्तः । इत एहि, साधु अविक्षेपेण भुज्यतामिति ॥ ४५ ॥ अभ्यवहृत्य भुक्त्वा ॥ ४६ ॥
Gita Press translation – And (lo!) the friends of (Śrī Kṛṣṇa) said, “It is well that You have come (back) with great expedition. Not a morsel has (yet) been swallowed by us; come this side and dine (with us) to your heart’s content.” (45) Thereupon Śrī Kṛṣṇa (the Ruler of the senses) laughed (a hearty laugh), took His meal with the (cowherd) boys and; showing them the skin of the python, He returned from the forest to Vraja.
अभोजि is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७)
Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
Note: The सूत्रम् 1-3-66 भुजोऽनवने (the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting) has application only in the active voice. In the passive voice 1-3-13 भावकर्मणोः always applies.
The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) भुज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भुज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।
(4) भुज् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
(5) भुज् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)
(6) भुज् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(7) भुज् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire term “त” is elided.
(8) भोज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
(9) अट् भोजि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
(10) अभोजि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
Questions :
1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used for the first time in a तिङन्तं पदम् in the गीता?
2. Which सूत्रम् is used for the सम्प्रसारणम् in the form ऊचुः?
3. From which verbal root is the form एहि (used in the verses) been derived?
4. Can you spot an augment “अट्” in the verses?
5. How would you say this in Sanskrit?
“I didn’t eat even a single morsel.” Paraphrase this to “Not even a single morsel was eaten by me.” Use a word from the verses for “morsel.”
6. How would you say this in Sanskrit?
“My brother ate the last laddu.” Paraphrase this to “The last laddu was eaten by my brother.” Use adjective प्रातिपदिकम् “चरम” for “last.”
Easy Questions:
1. In the verses can you spot a प्रातिपदिकम् which ends in a नकारः?
2. Where has the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” been used in the verses?
1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used for the first time in a तिङन्तं पदम् in the गीता?
Answer: The verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) has been used for the first time in the गीता in the form भुञ्जीय in the following verse:
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ 2-5 ॥
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
भुज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भुज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-66 भुजोऽनवने। Note: As per 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting.
= भुज् + अ । By 3-4-106 इटोऽत्। The affix “अ” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
= भुज् + सीयुट् अ । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
= भुज् + सीय् अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= भु श्नम् ज् + सीय । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात् परः।
= भु न ज् + सीय । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भु न् ज् + सीय । By 6-4-111 श्नसोरल्लोपः । Note: Since the सार्वधातुक-प्रत्यय: “सीय” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
= भु न् ज् + ईय । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= भुंजीय । By 8-3-24 नश्चापदान्तस्य झलि।
= भुञ्जीय । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
2. Which सूत्रम् is used for the सम्प्रसारणम् in the form ऊचुः?
Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति is used for the सम्प्रसारणम् in the form ऊचुः derived from √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वच् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= वच् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। As per 1-2-5 असंयोगाल्लिट् कित्, the affix “उस्” is a कित् here. This allows 6-1-15 to apply (in the next step.)
= उ अ च् + उस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित्।
Note: 6-1-15 applies first as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
= उच् + उस् । By 6-1-108 सम्प्रसारणाच्च।
= उच् उच् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
= उ उच् + उस् । By 7-4-60 हलादिः शेषः।
= ऊचुस् । By 6-1-101 अकः सवर्णे दीर्घः।
= ऊचुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
3. From which verbal root is the form एहि (used in the verses) been derived?
Answer: The form एहि is derived from the verbal root √इ (इण् गतौ २. ४०).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
इ + लोँट् । By 3-3-162 लोट् च।
= इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= इ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + हि । By 3-4-87 सेर्ह्यपिच्च, 1-1-55 अनेकाल्शित्सर्वस्य।
= इ + शप् + हि । By 3-1-68 कर्तरि शप्।
= इहि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
आङ् + इहि = आ + इहि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= एहि । By 6-1-87 आद्गुणः।
4. Can you spot an augment “अट्” in the verses?
Answer: An augment “अट्” can be seen in the form न्यवर्तत derived from √वृत् (वृतुँ वर्तने १. ८६२).
The विवक्षा is लँङ्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
वृत् + लँङ् । By 3-2-111 अनद्यतने लङ्।
= वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= वृत् + शप् + त । By 3-1-68 कर्तरि शप्।
= वृत् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वर्तत । By 7-3-86 पुगन्तलघूपधस्य, 1-1-51 उरण् रपरः।
= अट् वर्तत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ, the “अट्”-आगम: joins at the beginning of the अङ्गम्।
= अवर्तत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + अवर्तत = न्यवर्तत । By 6-1-77 इको यणचि।
5. How would you say this in Sanskrit?
“I didn’t eat even a single morsel.” Paraphrase this to “Not even a single morsel was eaten by me.” Use a word from the verses for “morsel.”
Answer: मया न एकः अपि कवलः अभोजि = मया नैकोऽपि कवलोऽभोजि।
6. How would you say this in Sanskrit?
“My brother ate the last laddu.” Paraphrase this to “The last laddu was eaten by my brother.” Use adjective प्रातिपदिकम् “चरम” for “last.”
Answer: मम भ्रात्रा चरमः लड्डुकः अभोजि = मम भ्रात्रा चरमो लड्डुकोऽभोजि।
– अथवा –
मम भ्रात्रा अन्तिमः लड्डुः अभोजि = मम भ्रात्रान्तिमो लड्डुरभोजि।
Easy Questions:
1. In the verses can you spot a प्रातिपदिकम् which ends in a नकारः?
Answer: The नपुंसकलिङ्ग-प्रातिपदिकम् “चर्मन्” ends in a नकारः। It is seen in the form चर्म। The विवक्षा is द्वितीया-एकवचनम्।
चर्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
= चर्मन् । By 7-1-23 स्वमोर्नपुंसकात्। “चर्मन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= चर्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
2. Where has the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” been used in the verses?
Answer: The word ते used in the verses has not been used as a replacement for either तुभ्यम् (प्रातिपदिकम् “युष्मद्”, चतुर्थी-एकवचनम्) or तव (प्रातिपदिकम् “युष्मद्”, षष्ठी-एकवचनम्) (ref: 8-1-22 तेमयावेकवचनस्य।) Instead it is used in the sense of त्वया which is तृतीया-एकवचनम् of the प्रातिपदिकम् “युष्मद्”। In order to justify this usage, ते is taken as a विभक्ति-प्रतिरूपक-निपात: (and hence अव्ययम् by 1-1-37 स्वरादिनिपातमव्ययम्) by the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” under 1-4-57 चादयोऽसत्त्वे।