Today we will look at the form जिहासति 3As-लँट् from श्रीमद्भागवतम् 8.20.12.
यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ ८-२०-१२ ॥
एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ ८-२०-१३ ॥
श्रीधर-स्वामि-टीका –
यद्यदि यशो न जिहासति तर्हि युद्धेऽयं मां हत्वैनां भूमिं हरेच्छयीत वा । सम्यग्ज्ञातः सन्मम चित्ते शयीतेति वास्तवोऽर्थः ॥ १३ ॥
Gita Press translation – Even if he unrighteously puts me – even though faultless – in bonds, yet I shall not hurt him, my enemy disguised as a Brāhmaṇa, and (therefore) afraid (of me) (12). If he is really Lord Viṣṇu (of excellent fame), he would not forfeit his fair name (by playing me false) and might (as well) wrest the earth (from me, even if I were loth to part with it) after killing me in battle; or, being slain by me, he might lie in (eternal) sleep (if he is an impostor) (13).
जिहासति is a desiderative form derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३. ९)
The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
हा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
= हा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= हा स् हा + स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
= हा हा + स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
= ह हा + स । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
= झ हा + स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
= झि हा + स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
= जिहास । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
“जिहास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
In the धातु-पाठः, the verbal root √हा (ओँहाक् त्यागे ३. ९) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √हा (ओँहाक् त्यागे ३. ९) takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिहास” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।
(1) जिहास + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) जिहास + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) जिहास + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।
(4) जिहास + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) जिहास + शप् + ति । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) जिहास + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(7) जिहासति । By 6-1-97 अतो गुणे।
Questions:
1. Where has the verbal root √हा (ओँहाक् त्यागे ३. ९) been used in a तिङन्तं पदम् for the first time in the गीता?
2. Which सूत्रम् is used for the गुणादेशः in the form शयीत?
3. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?
4. Please do पदच्छेदः of वा उत्तमश्लोकः।
5. How would you say this in Sanskrit?
“I did not want to give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययन” for “study.”
6. How would you say this in Sanskrit?
“No one wants to drink the water of this river.”
Easy Questions:
1. Where has the सूत्रम् 8-1-23 त्वामौ द्वितीयायाः been used in the verses?
2. Which सूत्रम् is used for the “एन”-आदेशः in the form एनाम्?
1. Where has the verbal root √हा (ओँहाक् त्यागे ३. ९) been used in a तिङन्तं पदम् for the first time in the गीता?
Answer: The verbal root √हा (ओँहाक् त्यागे ३. ९) has been used in a तिङन्तं पदम् for the first time in the form प्रहास्यसि।
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ 2-39 ॥
The विवक्षा is लृँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
हा + लृँट् । By 3-3-13 लृट् शेषे च।
= हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= हा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + स्य + सि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
= हास्यसि ।
“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
प्र + हास्यसि = प्रहास्यसि ।
2. Which सूत्रम् is used for the गुणादेशः in the form शयीत?
Answer: The सूत्रम् 7-4-21 शीङः सार्वधातुके गुणः is used for the गुणादेशः in the form शयीत derived from √शी (शीङ् स्वप्ने २. २६).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
शी + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शी + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= शी + सीयुट् त । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
= शी + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थः)। The टकारः is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
= शी + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= शी + ईत । By 6-1-66 लोपो व्योर्वलि।
= शी + शप् + ईत । By 3-1-68 कर्तरि शप्।
= शी + ईत । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= शे + ईत । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows. As per 1-1-52 अलोऽन्त्यस्य, the ending ईकार: of “शी” takes the गुण-आदेशः (एकार:)। Note: In the absence of 7-4-21, no गुणादेशः would have been possible here because the सार्वधातुकम् affix “ईत” (which is not a पित्) is ङिद्वत् by 1-2-4 सार्वधातुकमपित् and hence 1-1-5 क्क्ङिति च would block 7-3-84 सार्वधातुकार्धधातुकयोः।
= शयीत । By 6-1-78 एचोऽयवायावः।
3. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?
Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति has been used in the form बध्नीयात् derived from √बन्ध् (बन्धँ बन्धने ९. ४४).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
बन्ध् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बन्ध् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= बन्ध् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बन्ध् + त् । By 3-4-100 इतश्च।
= बन्ध् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= बन्ध् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
= बन्ध् + श्ना + यास् त् । By 3-1-81 क्र्यादिभ्यः श्ना।
= बन्ध् + ना + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= बन्ध् + ना + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= बध् + ना + या त् । By 6-4-24 अनिदितां हल उपधायाः क्ङिति – The penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker. Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.
= बध् + नी + या त् । By 6-4-113 ई हल्यघोः।
= बध्नीयात्।
4. Please do पदच्छेदः of वा उत्तमश्लोकः।
Answer: The पदच्छेदः of वा उत्तमश्लोकः is वै, उत्तमश्लोकः।
वै + उत्तमश्लोकः
= वाय् उत्तमश्लोकः । By 6-1-78 एचोऽयवायावः।
= वा उत्तमश्लोकः । By 8-3-19 लोपः शाकल्यस्य। Note: After this 6-1-87 आद्गुणः does not apply because of 8-2-1 पूर्वत्रासिद्धम्।
5. How would you say this in Sanskrit?
“I did not want to give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययन” for “study.”
Answer: व्याकरणस्य अध्ययनम् न अजिहासम् = व्याकरणस्याध्ययनं नाजिहासम्।
-अथवा-
व्याकरणस्य अध्ययनम् न अतित्यक्षम् । = व्याकरणस्याध्ययनं नातित्यक्षम्। Note: The सन्नन्त-धातुः “तित्यक्ष” is derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१).
6. How would you say this in Sanskrit?
“No one wants to drink the water of this river.”
Answer: न कः अपि अस्याः नद्याः जलम्/सलिलम् पिपासति = न कोऽप्यस्या नद्या जलं/सलिलं पिपासति।
Easy Questions:
1. Where has the सूत्रम् 8-1-23 त्वामौ द्वितीयायाः been used in the verses?
Answer: The सूत्रम् 8-1-23 त्वामौ द्वितीयायाः has been used in the form मा which is the alternate form for माम् (प्रातिपदिकम् “अस्मद्”, द्वितीया-एकवचनम्।)
As per 8-1-23 त्वामौ द्वितीयायाः – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a singular affix of the second case, get “त्वा” and “मा” as replacements respectively when the two conditions mentioned below are satisfied:
i) There is a पदम् (in this case हत्वा) in the same sentence preceding “युष्मद्”/”अस्मद्”।
ii) “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।
Note: मा + एनाम् = मैनाम् । By 6-1-88 वृद्धिरेचि।
2. Which सूत्रम् is used for the “एन”-आदेशः in the form एनाम्?
Answer: The सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः is used for the “एन”-आदेशः in the form एनाम् (सर्वनाम-प्रातिपदिकम् ‘इदम्’/‘एतद्’, स्त्रीलिङ्गे द्वितीया-एकवचनम्।)
इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
= एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘इदम्’/‘एतद्’ gets replaced.
= एन + टाप् + अम् । By 4-1-4 अजाद्यतष्टाप्।
= एन + आ + अम् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्।
= एना + अम् । By 6-1-101 अकः सवर्णे दीर्घः।
= एनाम् । By 6-1-107 अमि पूर्वः।