Home » 2014 » December » 25

Daily Archives: December 25, 2014

बहिर्विकारम् nAs

Today we will look at the form बहिर्विकारम् nAs from शिशुपालवधम् verse 1-33.

उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ।। १-३३ ।।

टीका –
उदासितारमिति । पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैर्योगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह – उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । ‘2-1-12 अपपरिबहिरञ्चवः पञ्चम्या’ इत्यव्ययीभावः । किञ्च प्रकृतेस्त्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । ‘प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे’ इति यादवः । पुरा भवं पुरातनमादिम् । ‘4-3-23 सायंचिरम्-‘ इत्यादिना ट्यु प्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । ‘3-4-83 विदो लटो वा’ इति झेरुसादेशः । यथाहुः – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।’ इति । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिश्रुतिश्च । सोऽपि त्वमेव ‘तत्त्वमसि’ इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः ।

Translation – Those who know the past know you as the one who is outside of transformations, separate form primordial nature, the indifferent ancient person who is somehow grasped by a vision that is turned (inwards) to the self by those (yogīs) who have controlled the mind.

लौकिक-विग्रह: –
(1) विकारेभ्यो बहिः = बहिर्विकारम् = outside of transformations

अलौकिक-विग्रह: –
(2) विकार भ्यस् + बहिस् । By 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या – The indeclinables ‘अप’, ‘परि’, ‘बहिस्’ as well as those ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) optionally compound with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: The सूत्रम् 5-3-30 अञ्चेर्लुक् is used to form indeclinables ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५).

(3) बहिस् + विकार भ्यस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अपपरिबहिरञ्चवः’ in the सूत्रम् 2-1-12 ends in the nominative case. Therefore ‘बहिस्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘बहिस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘बहिस् + विकार भ्यस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) बहिस् + विकार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) बहिर्विकार । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

Note: Here ‘बहिर्विकार’ is an adjective to ‘त्वाम्’। Therefore it is used in the accusative case.

(6) बहिर्विकार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) बहिर्विकार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) बहिर्विकारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या (used in step 2) the तत्त्वबोधिनी says – अपपरियोगे ‘पञ्चम्यपाङ्परिभि:’ इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ इत्यादिना विहितैव। तेनात्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। Please explain.

2. The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in which अधिकार:?

3. Which कृत् affix is used to derive the form उदासितारम् (प्रातिपदिकम् ‘उदासितृ’, पुंलिङ्गे द्वितीया-एकवचनम्)?

4. Which सूत्रम् prescribes the elongation (of the augment इट्) in the form गृहीतम् (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे द्वितीया-एकवचनम्)?

5. Where has the सूत्रम् 7-2-83 ईदासः been used in the commentary?

6. How would you say this in Sanskrit?
“The Sannyāsī lives outside the village.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘उस्’ in the form विदु: used in the verse?

2. What is the alternate form for विदु:?

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics