Home » Example for the day » तटम् nNs

तटम् nNs

Today we will look at the form तटम् nNs from the commentary on वैराग्यशतकम् verse 98.

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

Note: This verse has also been previously posted in the following post – कण्डूयन्ते-3ap-लँट्

The form तटम् is derived from the पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् ‘तट’। The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।

(1) तट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) तट + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(3) तटम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य। Please explain.

2. In the quotation – ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु‘ – from the अमर-कोष: given in the commentary, what does त्रिषु mean?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अभ्यसन’? Which one is used to form the प्रातिपदिकम् ‘अभ्यास’? Which one is used to form the प्रातिपदिकम् ‘विधि’?

4. In the form गतस्य (used in the verse) the affix ‘क्त’ has been used –
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above

5. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”

6. How would you say this in Sanskrit?
“There are many beautiful trees on the bank of this river.”

Easy questions:

1. Which सूत्रम् prescribes the augment याट् in the form गङ्गायाः used in the commentary?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य। Please explain.
    Answer: अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। Those प्रातिपदिकानि (nominal stems) which have no gender or have a fixed gender are examples of प्रातिपदिकार्थमात्रे (denoting only the meaning of the nominal stem.)
    अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । Those प्रातिपदिकानि (nominal stems) which have no fixed gender are examples of लिङ्गमात्राधिक्‍ये (denoting only the additional sense of gender.)

    2. In the quotation – ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ – from the अमर-कोष: given in the commentary, what does त्रिषु mean?
    Answer: त्रिषु means त्रिषु लिङ्गेषु – in all three genders. Hence तटं त्रिषु means that the प्रातिपदिकम् (nominal stem) ‘तट’ is used in all three genders in the language.

    3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अभ्यसन’? Which one is used to form the प्रातिपदिकम् ‘अभ्यास’? Which one is used to form the प्रातिपदिकम् ‘विधि’?
    Answer: The कृत् affix ल्युट्‌ is used to form the प्रातिपदिकम् ‘अभ्यसन’ – derived from the verbal root √अस् (असुँ क्षेपणे ४. १०६) preceded by the उपसर्गः ‘अभि’।
    अभि + अस् + ल्युट् । By 3-3-115 ल्युट् च – (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.
    = अभि + अस् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अभि + अस् + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = अभ्यसन । By 6-1-77 इको यणचि। ‘अभ्यसन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The कृत् affix ‘घञ्’ is used to form the प्रातिपदिकम् ‘अभ्यास’ – derived from the verbal root √अस् (असुँ क्षेपणे ४. १०६) preceded by the उपसर्गः ‘अभि’।
    अभि + अस् + घञ् । By 3-3-18 भावे – The affix घञ् may be used following a verbal root to denote the sense of the verbal root as having attained to a completed state.
    = अभि + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अभि + आस् + अ । By 7-2-116 अत उपधायाः।
    = अभ्यास । By 6-1-77 इको यणचि। ‘अभ्यास’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    The कृत् affix ‘कि’ is used to form the प्रातिपदिकम् ‘विधि’ – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके #३. ११) preceded by the उपसर्गः ‘वि’।
    Please refer to the answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘विधि’ – http://avg-sanskrit.org/2013/05/22/चोदनाम्-fas/#comment-23677

    4. In the form गतस्य (used in the verse) the affix ‘क्त’ has been used –
    (i) कर्तरि
    (ii) कर्मणि
    (iii) भावे
    (iv) None of the above
    Answer: i) कर्तरि – The affix ‘क्त’ has been used कर्तरि in the form गतस्य as per the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।

    The प्रातिपदिकम् ‘गत’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) as follows:
    गम् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent of the action) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = गम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गत । By 6-4-37अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति।
    ‘गत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।
    गत + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गतस्य । By 7-1-12 टाङसिङसामिनात्स्याः।

    5. How would you say this in Sanskrit?
    “Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”
    Answer: श्रीकृष्णः गोपीभिः सह यमुनायाः तटे चिक्रीड = श्रीकृष्णो गोपीभिः सह यमुनायास्तटे चिक्रीड।

    6. How would you say this in Sanskrit?
    “There are many beautiful trees on the bank of this river.”
    Answer: अस्याः नद्याः तटे बहवः शोभना: वृक्षाः सन्ति = अस्या नद्यास्तटे बहवः शोभना वृक्षाः सन्ति।

    Easy questions:

    1. Which सूत्रम् prescribes the augment याट् in the form गङ्गायाः used in the commentary?
    Answer : The augment ‘याट्’ in the form गङ्गायाः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘गङ्गा’, षष्ठी-एकवचनम्) is prescribed by the सूत्रम् 7-3-113 याडापः।

    गङ्गा + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गङ्गा + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = गङ्गा + याट् अस् । By 7-3-113 याडापः – The ‘ङित्’ (having the letter ‘ङ्’ as a इत्) affixes following a base ending in a ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ attaches to the beginning of the affix ‘अस्’।
    = गङ्गा + या अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गङ्गायास् । By 6-1-101 अकः सवर्णे दीर्घः।
    = गङ्गायाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?
    Answer: The सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the सन्धि-कार्यम् between सन् + अहम् = सन्नहम् ।

    सन् + अहम् । As per 1-4-14 सुप्तिङन्तं पदम्, ‘सन्’ has the पद-सञ्ज्ञा। This allows 8-3-32 to apply in the next step.
    = सन् + नुँट् अहम् । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case the letter ‘न्’) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case the letter ‘अ’), then the following vowel (long or short – in this case the letter ‘अ’ at the beginning of अहम्) always gets the augment ङमुँट् (in this case नुँट्)। Note: ङम् stands for the प्रत्याहार: ‘ङम्’ which includes the letters ‘ङ्’, ‘ण्’ and ‘न्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the letter ‘अ’।
    = सन् + न् अहम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सन्नहम् ।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics