अग्रहीत् 3As-लुँङ्

Today we will look at the form अग्रहीत् 3As-लुँङ् from श्रीमद्भागवतम् 4.5.17.

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान्प्रत्यासन्नान्पलायितान् ।। ४-५-१६ ।।
भृगुं बबन्ध मणिमान्वीरभद्रः प्रजापतिम् । चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ।। ४-५-१७ ।।

श्रीधर-स्वामि-टीका
प्रत्यासन्नान्पलायितान्समीपस्थान्पलायितानपि जगृहुः ।। १६ ।। ।। १७ ।।

Gita Press translation – Some molested the hermits, while others threatened the wives (of the sacrificer and the priests) and still others seized the divinities who were sitting close to them, even though they tried to run away (16). Maṇimān bound the sage Bhṛgu; Vīrabhadra, Dakṣa (the lord of created beings) himself; Caṇḍīśa, the god Pūṣā (one of the twelve sons of Aditi who preside over the sun month by month) and Nandīśwara seized Bhaga (another god presiding over the sun) (17).

अग्रहीत् is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातुः is उभयपदी।  By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) ग्रह् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) ग्रह् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) ग्रह् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) ग्रह् + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) ग्रह् + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ग्रह् + इ स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(12) ग्रह् + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: At this stage 7-2-3 वदव्रजहलन्तस्याचः would ordain a वृद्धिः substitute in place of the अकारः of the अङ्गम् “ग्रह्”, but it is prohibited by 7-2-4 नेटि
Now 7-2-7 अतो हलादेर्लघोः would prescribe an optional वृद्धिः, but it is prohibited by 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् – When the affix “सिँच्” (which begins with the augment “इट्” and is followed by a परस्मैपदम् affix) follows, the वृद्धिः substitution is prohibited for a अङ्गम् which either – i) ends in the letter “ह्”, “म्” or “य्” or ii) consists of the verbal root √क्षण् (क्षणुँ हिंसायाम् ८. ३), √श्वस् (श्वसँ प्राणने २. ६४), √जागृ (जागृ निद्राक्षये २. ६७) or √श्वि (ट्वोश्वि गतिवृद्ध्योः १. ११६५) or iii) ends in the affix “णि” or iv) has “ए” as a इत्।

(13) ग्रह् + ई स् + ईत् । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(14) अट् ग्रह् + ई स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ ग्रह् + ई स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ ग्रह् + ई + ईत् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

See advanced question.

(17) अग्रहीत् । By the वार्त्तिकम् (under 8-2-3सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

Questions:

1. Where has the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) been used in a तिङन्तं पदम् in Chapter 2 of the गीता?

2. What would have been the final form in this example if लँङ् were used (instead of लुँङ्)? What would be the form if लिँट् were used?

3. Which सूत्रम् is used for the सम्प्रसारणम् in the form जगृहुः?

4. In the verses can you spot a तिङन्तं पदम् where the affix णिच् has been used?

5. How would you say this in Sanskrit?
“The disciple grasped the teacher’s feet.”

Advanced Questionः

1. The सूत्रम् 8-2-28 इट ईटि says that – A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided. But in the present example (in step 16), we have a ईकारः preceding the सकारः। Then how can the application of 8-2-28 इट ईटि be justified? It is justified by the परिभाषा – “एकदेशविकृतमनन्यवत्।” Please explain.

Easy Questions:

1. The form पूषणम् (द्वितीया-एकवचनम्) is derived from the प्रातिपदिकम् “पूषन्”। Can you recall a सूत्रम् (that we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्”?

2. In the verses can you spot a place where the सन्धि-कार्यम् has not been done?

मा गृधः 2As-लुँङ्

Today we will look at the form मा गृधः 2As-लुँङ् from श्रीमद्भागवतम् 8.1.10.

आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। ८-१-१० ।।
यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ।। ८-१-११ ।।

श्रीधर-स्वामि-टीका
तस्येश्वरत्वं दर्शयन् लोकस्य हितमुपदिशति – आत्मना ईश्वरेणावास्यं सत्ताचैतन्याभ्यां संव्याप्यं विश्वं सर्वं जगत्यां लोके यत्किंचिज्जगद्भूतजातं अतस्तेनैवेश्वरेण यत्किंचित्त्यक्तं दत्तं धनं तेनैभुञ्जीथाः भागान्भुङ्क्ष्व । यद्वा तेन हेतुना त्यक्तेनेश्वरार्पणेन भुञ्जीथा न स्वार्थम् । कस्यस्वित्कस्यचिदपि धनं मा गृधो माऽभिकाङ्क्षीः। यद्वा कस्यस्विदिति कस्यान्यस्य धनमस्ति, यतो धनकाङ्क्षा क्रियेतेत्यर्थः । तथा च श्रुतिः – ‘ईशावास्यम्’ इति यथाश्लोकमेव ।। १० ।। ननु यदि सर्वं व्याप्नोति तर्हि चक्षुरादिभिः किं न प्रतीयते तत्राह – यं पश्यन्तं जनश्चक्षुर्वा न पश्यति, चक्षुराद्यविषयत्वात् । नहि प्रमातारं प्रमाणं विषयीकरोतीति भावः । तथा च श्रुतिः – ‘चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्’ इत्यादि । ननु तर्हि घटनाशे देवदत्तस्य तद्विषयं चाक्षुषं ज्ञानमिवेश्वरस्यापि स्वरूपभूतं तद्विषयं ज्ञानं नश्येत्तत्राह – यस्य तु पश्यतश्चक्षुर्ज्ञानं न रिष्यति न नश्यति ।तत्तदाकारेणोत्पन्नाया वृत्तेरेव नाशो न स्वतःसिद्धज्ञानस्य । नहि सवितृप्रकाशः प्रकाश्यनाशे नश्यतीति भावः । भूतानि निलयो यस्य तं सर्वान्तर्यामिणं, तथापि सुपर्णं शोभनपतनमसङ्गमुपधावत भजध्वम् ।। ११ ।।

Gita Press translation – Whatever animate (or inanimate) creation there exists in the world, all that is pervaded by the (cosmic) Spirit (who not only sustains it but also enlivens it.) (Therefore,) live upon what has been assigned (to you) by Him (or what has been consecrated to Him); do not covet the wealth of anyone (else) (10). Flee (for protection) to that self-effulgent Lord, the abode (Inner Controller) of (all) created beings, (and who has been figuratively depicted in the Upaniṣads as) a bird with beautiful wings (dwelling on the tree of this body as an unconcerned witness along with the Jīva, represented as its companion attached to the tree,) whom, as the Perceiver (of all,) the world (or the sense of sight) cannot perceive (because He is above sense-perception and because the knower cannot be known by means of knowledge) and whose perception (knowledge) never fails (inasmuch as it constitutes His very being, unlike the consciousness of the finite Jīva, which disappears with the disappearance of its object) (11).

गृधः is derived from the धातुः √गृध् (गृधुँ अभिकाङ्क्षायाम्, दिवादि-गणः, धातु-पाठः #४. १६१)

In the धातु-पाठः, “गृधुँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the उकार: following the धकार:। This इत् letter has a उदात्त-स्वर:। Thus √गृध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √गृध् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) माङ् गृध् + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा गृध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा गृध् + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) मा गृध् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मा गृध् + स् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) मा गृध् + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) मा गृध् + अङ् + स् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

Note: 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) मा गृध् + अ + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(9) मा गृधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter 16 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?

2. Can you recall a सूत्रम् which justifies the use of आत्मनेपदम् in the form भुञ्जीथा:?

3. Where has लोँट् been used in the verses?

4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the commentary?

5. In which तिङन्तं पदम् in the commentary has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
“Do not covet anyone’s wife.”

Easy Questions:

1. Where has the सूत्रम् 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?

2. Which सूत्रम् has been used for the “ना”-आदेशः in the form हेतुना (पुंलिङ्ग-प्रातिपदिकम् “हेतु”, तृतीया-एकवचनम्)?

व्यवोचत् 3As-लुँङ्

Today we will look at the form व्यवोचत् 3As-लुँङ् from श्रीमद्भागवतम् 3.17.29.

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः । रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ।। ३-१७-२९ ।।
पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ।। ३-१७-३० ।।

श्रीधर-स्वामि-टीका
उपशमं युद्धादिकौतुकादुपरमम् ।। २९ ।। युद्धमार्गनिपुणं त्वां यस्तोषयिष्यति तमिहि गच्छ । गृणते स्तुवन्ति ।। ३० ।।

Gita Press translation – Thus wantonly mocked by an enemy whose vanity knew no bounds, the worshipful lord of waters waxed angry: but he managed to curb the anger that had sprung in him by dint of his reason and replied, “O dear one, we have (now) desisted from warfare (have grown too old for a combat) (29). I do not see anyone else than the most ancient Person (Lord Viṣṇu), who will give satisfaction in battle to you, who are so skilled in the ways of war. Therefore, O chief of the Asuras, approach Him, whom even heroes like you mention with praise (30).

अवोचत् is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः #२. ५८).
Note: The verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) can also be used to derive the form अवोचत्। As per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:।

In the धातु-पाठः, “वचँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वच् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वच् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वच् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) वच् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) वच् + अङ् + त् । By 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् – In the active voice, the affix “च्लि” takes the substitute “अङ्” when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53 ब्रुवो वचिः) or √ख्या (the substitute “ख्याञ्” which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54).

(8) वच् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) व उम् च् + अ + त् । By 7-4-20 वच उम् – A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment “उम्” when followed by the affix “अङ्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “उम्” joins after the last vowel (अकार:) of the अङ्गम् “वच्”।

(10) व उ च् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) वोच् + अ + त् । By 6-1-87 आद्गुणः

(12) अट् वोच् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अवोचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अवोचत् = व्यवोचत् । By 6-1-77 इको यणचि

Questions:

1. Where has the सूत्रम् 3-4-100 इतश्च (used in step 5) been used for first time in the गीता?

2. Commenting on the सूत्रम् 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ्  (used in step 7), the काशिका says “अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। ” Please explain.

3. Which सूत्रम् is used for the ह्रस्वादेशः (ऋकारः) in the form गृणते?

4. Where has the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ  been used in the commentary?

5. In which तिङन्तं पदम् in the verses has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
The teacher said to me “You know the answer to (of) this question.”

Easy Questions:

1. Where has the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ  been used in the verses?

2. Which सूत्रम् is used for the substitution “आत्” (in place of  “ङसिँ”) in the form पुरुषात् (पुंलिङ्ग-प्रातिपदिकम् “पुरुष”, पञ्चमी-एकवचनम्)?

अध्यगमत् 3As-लुँङ्

Today we will look at the form अध्यगमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.36.29.

अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः ।। १०-३६-२९ ।।
गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः । आसाते ताविहानेन रथेनानय मा चिरम् ।। १०-३६-३० ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – I therefore depend on you, O gentle one, as the means of accomplishing a great purpose, (even) as the mighty Indra attained his end (in the form of sovereignity of the three worlds, that had been usurped by Bali, the demon king), depending as he did on Lord Viṣṇu (descended in the form of Vāmana, the Divine Dwarf, his younger Brother) (29). Proceed (at once) to Nanda’s Vraja; there reside the two sons of Ānakadundubhi (Vasudeva.) (Please) bring them both here in this chariot; let there be no delay (30).

अगमत् is derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७)

In the धातु-पाठः, ‘गमॢँ’ has one इत् letter – the letter ‘ऌ’ following the letter ‘म्’। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपदम् affixes। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपदम् affixes by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine affixes from ‘तिप्’ to ‘मस्’ get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine affixes in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) गम् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + त् । By 3-4-100 इतश्‍च, the ending letter ‘इ’  of a परस्मैपदम् affix which came in the place of a ङित्-लकारः is elided.

(6) गम् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the affix ‘च्लि’ is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) गम् + अङ् + त् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix ‘च्लि’ is replaced by ‘अङ्’ when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

See questions 2 and 3.

(8) गम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

See question 4.

(9) अट् गम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’ augment which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the ‘अट्’ augment at the beginning of the अङ्गम्।

(10) अगमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

‘अधि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अधि + अगमत् = अध्यगमत् । By 6-1-77 इको यणचि

Questions:

1. Where has √गम् (गमॢँ गतौ १. ११३७) been used with लुँङ् in the गीता?

2. How do we know that in the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, the verbal root √पुष् does not refer to पुषँ पुष्टौ १. ७९७? The तत्त्वबोधिनी gives the answer as follows – यदि तु पुष पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्येत तदा द्युतादिग्रहणमनर्थकं भवेत्। पुषेरुत्तरत्र द्युतादीनां पाठात्। Please explain.

3. In the absence of 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, which सूत्रम् would have applied in step 7?

4. After step 8, why doesn’t the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि apply?

5.  In the verses can you spot a word in which the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Seeing (having seen) his (own) mother, the child calmed down.” Paraphrase “calmed down” to “went to calmness.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, the pronoun “स्व” (feminine “स्वा”) for “own” and feminine प्रातिपदिकम् “शान्ति” for “calmness.”

Easy Questions:

1. Where has 7-2-112 अनाप्यकः been used in the verses?

2. Which सूत्रम् is used to get यथा + इन्द्रः = यथेन्द्रः?

अवधीत् 3As-लुँङ्

Today we will look at the form अवधीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.3.12.

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ।। ३-३-११ ।।
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान् । चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ।। ३-३-१२ ।।

श्रीधर-स्वामि-टीका
शम्बरद्विविदबल्वलानन्यानपि कांश्चित्प्रद्युम्नरामादिभिर्घातयदघातयत् । ‘घातयन्’ इति वा पाठः । दन्तवक्रादीन्स्वमवधीत् ।। ११ ।। नृपान्घातयदित्यनुषङ्गः । कथंभूतान् । कुरुक्षेत्रमापततां गच्छतां येषां बलैः सैन्यैर्भूः सर्वापि चचाल चकम्पे ।। १२ ।।

Gita Press translation – Of the demons Śambara, Bāṇa, Mura and Balwala, Dwivida (the monkey chief) and other warriors like Dantavaktra, some He disposed of Himself, while others he caused to be despatched (by Balarāma, Pradyumna and so on) (11). Thereafter He brought about the destruction of monarchs who had joined the sides of your nephews (the sons of Dhṛtarāṣṭra and Pāṇḍu,) and who made the entire globe rock as they marched to Kurukṣetra (the scene of Mahābhārata war) with their armies (12).

अवधीत् is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वध + लुँङ् । By 2-4-43 लुङि च – When the intention is to add the affix लुँङ्, there is a substitution of “वध” in place of √हन् (हनँ हिंसागत्योः २. २). As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “हन्” is replaced by “वध”। By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
Note: The substitute “वध” ends in a अकारः।

(2) वध + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वध + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वध + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वध + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) वध + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) वध + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) वध + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) वध + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ does not apply here, because “वध” is अनेकाच् (has more than one vowel) in उपदेशः।

(10) वध + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) वध + इ स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(12) वध + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) वध् + इ स् + ईत् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

See question 2.

(14) अट् वध् + इ स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ वध् + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ वध् + इ + ईत् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

(17) अवधीत् । By the वार्त्तिकम् under 8-2-3 सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

Questions:

1. Where has √हन् (हनँ हिंसागत्योः २. २) been used in a तिङन्तं पदम् for the first time in the गीता?

2. Why doesn’t 7-2-7 अतो हलादेर्लघोः apply after step 13?

3. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोगः (irregular grammatical form)?

4. Which सूत्रम् is used for the एकारादेशः in the form चकम्पे?

5. Why doesn’t 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form चचाल? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“How many enemies did the our army commander kill?” Use the प्रातिपदिकम् “कति” for “how many” and “सेनानी” for “army commander.”

Easy Questions:

1. Where  has the सूत्रम् 7-3-104 ओसि च been used in the verses?

2. Which सूत्रम् is used for the augment “सुँट्” in the form येषाम्?

अरोदीः 2As-लुँङ्

Today we will look at the form अरोदीः 2As-लुँङ् from श्रीमद्भागवतम् 3.12.10.

इति तस्य वचः पाद्मो भगवान्परिपालयन् । अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ।। ३-१२-९ ।।
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः । ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ।। ३-१२-१० ।।

श्रीधर-स्वामि-टीका
बालक इव ।। १० ।।

Gita Press translation – Intending to comply with this prayer of the boy, the worshipful Brahmā (who was born of the lotus) replied in kind tones: “Do not cry, I shall presently do it for you (9). Since you wept as a frightened child, O chief of the gods, hence people will call you by the name of Rudra (lit., one who weeps)” (10).

अरोदीः is derived from the धातुः √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२)

In the धातु-पाठः, √रुद् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √रुद् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √रुद् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √रुद् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) रुद् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रुद् + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) रुद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रुद् + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रुद् + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) रुद् + सिँच् + स् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) रुद् + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रुद् + इट् स् + स् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) रुद् + इ स् + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) रुद् + इस् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
As per 1-1-46 आद्यन्तौ टकितौ the “ईट्”-आगमः attaches to the beginning of the प्रत्ययः।

(12) रुद् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) रोद् + इस् + ईस् । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(14) अट् रोद् + इस् + ईस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।

(15) अ रोद् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ रोद् + इ + ईस् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

(17) अरोदीस् । By the वार्त्तिकम् under 8-2-3 सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

(18) अरोदीः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has लुँङ् been used in Chapter 16 of the गीता?

2. Commenting on the सूत्रम् 8-2-28 इट ईटि (used in step 16) the तत्त्वबोधिनी says – इटः किम्? अहार्षीत्। Please explain.

3. In the verses can you spot a word in which 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been prohibited?

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. The word करोमि is derived from the धातुः √कृ (डुकृञ् करणे ८. १०). The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ is उभयपदी। A परस्मैपदम् affix has been used in the form करोमि। What would be the form if आत्मनेपदम् were to be used?

6. How would you say this in Sanskrit?
“Why did you cry?”

Easy Questions:

1. Which सूत्रम् is used for the अकार-लोपः in the form नाम्ना?

2. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verses?

अदात् 3As-लुँङ्

Today we will look at the form अदात् 3As-लुँङ् from श्रीमद्भागवतम् 9.6.31.

कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् । मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ।। ९-६-३१ ।।
न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ।। ९-६-३२ ।।

श्रीधर-स्वामि-टीका
अयं कं धास्यति पास्यतीति दुःखितैर्विप्रैरुक्ते सति तस्यामिष्ट्यामाराधित इन्द्रो मां धाता पाता हे वत्स, मा रोदीरिति ब्रुवन् देशिनीं तर्जनीमदादित्यर्थः ।। ३१ ।। तस्य पिता युवनाश्चो भिन्नकुक्षिरपि न ममार किंतु कालान्तरे तपसा सिद्धिमन्वगात् ।। ३२ ।।

Gita Press translation – When the babe cried much (for being suckled) and the Brāhmaṇas anxiously inquired: “Whom will this prince suck?”, Indra put into the babe’s mouth his index finger (dripping with nectar), saying “The babe will suck me (Mām Dhātā); do not cry, my child!” (Hence the babe became known as Māndhātā) (31). The father of the babe did not die by the grace of the Brāhmaṇas and the gods (even though he had his pelvic region split up). (Nay,) he forthwith attained perfection (final beatitude) in that very hermitage through asceticism (32).

अदात् is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

√दा has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √दा is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) दा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) दा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) दा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् दा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अदात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In which three consecutive verses of the गीता has the verbal root √दा (डुदाञ् दाने ३. १०) been used in a तिङन्तं पदम्?

2. Can you recall a सूत्रम् by which the use of a परस्मैपदम् affix is justified in the form ममार?

3. The form धास्यति used in the verses has been derived from which verbal root? Hint: The answer is not √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the verses?

5. In which तिङन्तं पदम् in the verses has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
“Do not give this book to one who does not study grammar.” Use an appropriate form of the pronouns “यद्” and “तद्”। Use चतुर्थी विभक्तिः with “तद्”। Use √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) with the उपसर्ग: “अधि” for “to study.”

Easy Questions:

1. By which सूत्रम् does the verbal root √दा (डुदाञ् दाने ३. १०) get the घु-सञ्ज्ञा (required for applying the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु in step 8)?

2. Can you spot an augment “स्याट्” in the commentary?

अगात् 3As-लुँङ्

Today we will look at the form अगात् 3As-लुँङ् from श्रीमद्भागवतम् 3.18.27.

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् । शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ।। ३-१८-२७ ।।
दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ।। ३-१८-२८ ।।

श्रीधर-स्वामि-टीका
अभिजिन्मध्याह्नः । स एव मौहूर्तिको योगः सन् । मुहूर्तः शुभदः कालः अगाद्गतप्रायः । अतो यावन्मुहूर्तशेषोऽस्ति तावदेव सुदुस्तरमेनं निस्तर जहि ।। २७ ।। त्वां मृत्युं त्वयैव शापानुग्रहकाले विहितं निर्मितम् । आसादितः प्राप्तः । शर्मणि सुखे आधेहि स्थापय ।। २८ ।।

Gita Press translation – The auspicious period, known by the name of Abhijit (so opportune for victory), which commenced at midday, has now all but passed. Therefore, in the interest of us, Your friends, pray, dispose of this formidable foe quickly (27). This fellow has, luckily enough for us, come of his own accord to You, his death, ordained (by Yourself). Therefore, exhibiting Your prowess, kill him in this duel and establish the worlds in peace (28).

अगात् is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ (इण् गतौ २. ४०) takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ (इण् गतौ २. ४०) can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) गा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past. By 2-4-45 इणो गा लुङि – When the intention is to add the affix “लुँङ्”, there is a substitution of “गा” in the place of √इ (इण् गतौ २. ४०).

(2) गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) गा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) गा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) गा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) गा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् गा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment “अट्” which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment “अट्” at the beginning of the अङ्गम्।

(10) अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (used in step 8) is used in the गीता in only one word. Which one is it?

2. Commenting on the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, the सिद्धान्त-कौमुदी says “गापाविहेणादेशपिबती गृह्येते।” Please explain.

3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the verses?

4. Why doesn’t the सूत्रम् 6-4-105 अतो हेः apply in the form जहि?

5. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the commentary?

6.  How would you say this in Sanskrit?
“My daughter went to school in the morning.” Use the (compound) feminine प्रातिपदिकम् “पाठशाला” for “school.”

Easy Questions:

1. Is there an alternate form (by the सूत्रम् 6-4-136 विभाषा ङिश्योः) for the word शर्मणि (नपुंसकलिङ्ग-प्रातिपदिकम् “शर्मन्”, सप्तमी-एकवचनम्)?

2. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?

अस्राक्षीत् 3As-लुँङ्

Today we will look at the form अस्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.7.4.

अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ।। ३-७-५ ।।

श्रीधर-स्वामि-टीका
यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।। एतच्च जीवस्याविद्याश्रयत्वे घटेत, नतु तत्संभवतीत्याह – देशत इति । योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः, ब्रह्मस्वरूपत्वात् । स कथमजयाऽविद्यया युज्येत । तत्र देशतो दीपप्रभाया इव लोपो नास्ति, सर्वगतत्वात् । न कालतः, विद्युत इव नित्यत्वात् । नावस्थातः, स्मृतिवदविक्रियत्वात्, न स्वतः, स्वप्नवत्सत्यत्वात् । नान्यतः, घटादिवदद्वितीयत्वात् । एवमेतैर्यस्य बोधो न लुप्यते स कथमजया युज्येत । अजा चात्राविद्यैव न माया, तस्या अवबोधेन विरोधाभावात् ।। ५ ।।

Gita Press translation – It was through his own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and shall finally withdraw it (4). How can He whose – knowledge – which is His very nature – is never obscured by space, time or circimstance either by itself or through any other external cause, be associated with Māyā? (5)

अस्राक्षीत् is derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).
Note: There is also a धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः #४. ७५)। But it is आत्मनेपदी and hence cannot be used in this example.

The ending अकार: (which is a इत्) of “सृजँ” has a उदात्त-स्वरः। Thus √सृज् (तुदादि-गणः) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सृज् (तुदादि-गणः) takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) सृज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सृज् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सृज् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) सृज् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) सृज् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) सृज् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) सृज् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(10) सृज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) सृ अम् ज् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।

(12) सृ अ ज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) स्रज् + स् + ईत् । By 6-1-77 इको यणचि

(14) स्राज् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(15) अट् स्राज् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ स्राज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अ स्रा ष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(18) अस्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(19) अस्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In which two consecutive verses of the गीता has √सृज् been used in a तिङन्तं पदम्?

2. Where has विधि-लिँङ् been used in the verses?

3. Where has विधि-लिँङ् been used in the commentary?

4. Which सूत्रम् is used for the “पुक्”-आगमः in the form संस्थापयति?

5. In which two words in the commentary has the affix “उ” (ref: 3-1-79 तनादिकृञ्भ्य उः) been used?

6. How would you say this in Sanskrit?
“The little girl cried for no reason.” Paraphrase this to “Without reason, the little girl shed tears.” Use √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) for “to shed” and the स्त्रीलिङ्ग-प्रातिपदिकम् “बालिका” for “little girl.”

Easy Questions:

1. In which word in the verses has the प्रातिपदिकम् “अदस्” been used?

2. In which three words in the verses has the सूत्रम् 7-3-105 आङि चापः been used?

अश्रौष्म 1Ap-लुँङ्

Today we will look at the form अश्रौष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 12.6.4.

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ।। १२-६-३ ।।
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ।। १२-६-४ ।।

श्रीधर-स्वामि-टीका
करुणात्मतामभिनन्दति द्वाभ्याम् – नात्यद्भुतमिति ।। ३ ।। अश्रौष्म श्रुतवन्तः । भवतः सकाशात् ।। ४ ।।

Gita Press translation – I do not consider it surprising that the grace of exalted souls, who have given their mind to Śrī Hari (the immortal Lord), descends on the ignorant creatures tormented by agonies (3). We have heard from you the compilation in the form of this Purāṇa, in which the most illustrious Lord has been described as a matter of fact (4).

अश्रौष्म is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, √श्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √श्रु takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) श्रु + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) श्रु + म । By 3-4-99 नित्यं डितः, a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः।

(5) श्रु + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) श्रु + सिँच् + म । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) श्रु + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) श्रौ + स् + म । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix “सिँच्” which is in turn followed by a परस्मैपदम् affix.

(9) अट् श्रौ + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अ श्रौ + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अश्रौष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. The verbal root √श्रु (श्रु श्रवणे १. १०९२) has been used with लुँङ् in only one word in the गीता। Which one is it?

2. The वृत्तिः of the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु says इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। Commenting on this the तत्त्वबोधिनी says – ‘इको गुणवृद्धी’ इति परिभाषोपस्थानादाह– इगन्तेति। Please explain.

3. Can you spot the affix “श्यन्” in the verses?

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. Which सूत्रम् is used for the “नुँम्”-आगमः in the form अभिनन्दति (used in the commentary)?

6. How would you say this in Sanskrit?
“We have not heard this song before.” Use the neuter प्रातिपदिकम् “गीत” for “song” and the अव्ययम् “प्राक्” for “before.”

Easy Questions:

1. The word महताम् used in the verses is पुंलिङ्गे षष्ठी-बहुवचनम् of the प्रातिपदिकम् “महत्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”?

2. Can you spot two words in the verses wherein the “अस्मद्”-प्रातिपदिकम् has been used?

Recent Posts

November 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics