Home » 2012 (Page 19)

Yearly Archives: 2012

अस्राक्षीत् 3As-लुँङ्

Today we will look at the form अस्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.7.4.

अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ।। ३-७-५ ।।

श्रीधर-स्वामि-टीका
यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।। एतच्च जीवस्याविद्याश्रयत्वे घटेत, नतु तत्संभवतीत्याह – देशत इति । योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः, ब्रह्मस्वरूपत्वात् । स कथमजयाऽविद्यया युज्येत । तत्र देशतो दीपप्रभाया इव लोपो नास्ति, सर्वगतत्वात् । न कालतः, विद्युत इव नित्यत्वात् । नावस्थातः, स्मृतिवदविक्रियत्वात्, न स्वतः, स्वप्नवत्सत्यत्वात् । नान्यतः, घटादिवदद्वितीयत्वात् । एवमेतैर्यस्य बोधो न लुप्यते स कथमजया युज्येत । अजा चात्राविद्यैव न माया, तस्या अवबोधेन विरोधाभावात् ।। ५ ।।

Gita Press translation – It was through his own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and shall finally withdraw it (4). How can He whose – knowledge – which is His very nature – is never obscured by space, time or circimstance either by itself or through any other external cause, be associated with Māyā? (5)

अस्राक्षीत् is derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).
Note: There is also a धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः #४. ७५)। But it is आत्मनेपदी and hence cannot be used in this example.

The ending अकार: (which is a इत्) of “सृजँ” has a उदात्त-स्वरः। Thus √सृज् (तुदादि-गणः) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सृज् (तुदादि-गणः) takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) सृज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सृज् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सृज् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) सृज् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) सृज् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) सृज् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) सृज् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(10) सृज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) सृ अम् ज् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।

(12) सृ अ ज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) स्रज् + स् + ईत् । By 6-1-77 इको यणचि

(14) स्राज् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(15) अट् स्राज् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ स्राज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अ स्रा ष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(18) अस्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(19) अस्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In which two consecutive verses of the गीता has √सृज् been used in a तिङन्तं पदम्?

2. Where has विधि-लिँङ् been used in the verses?

3. Where has विधि-लिँङ् been used in the commentary?

4. Which सूत्रम् is used for the “पुक्”-आगमः in the form संस्थापयति?

5. In which two words in the commentary has the affix “उ” (ref: 3-1-79 तनादिकृञ्भ्य उः) been used?

6. How would you say this in Sanskrit?
“The little girl cried for no reason.” Paraphrase this to “Without reason, the little girl shed tears.” Use √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) for “to shed” and the स्त्रीलिङ्ग-प्रातिपदिकम् “बालिका” for “little girl.”

Easy Questions:

1. In which word in the verses has the प्रातिपदिकम् “अदस्” been used?

2. In which three words in the verses has the सूत्रम् 7-3-105 आङि चापः been used?

अश्रौष्म 1Ap-लुँङ्

Today we will look at the form अश्रौष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 12.6.4.

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ।। १२-६-३ ।।
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ।। १२-६-४ ।।

श्रीधर-स्वामि-टीका
करुणात्मतामभिनन्दति द्वाभ्याम् – नात्यद्भुतमिति ।। ३ ।। अश्रौष्म श्रुतवन्तः । भवतः सकाशात् ।। ४ ।।

Gita Press translation – I do not consider it surprising that the grace of exalted souls, who have given their mind to Śrī Hari (the immortal Lord), descends on the ignorant creatures tormented by agonies (3). We have heard from you the compilation in the form of this Purāṇa, in which the most illustrious Lord has been described as a matter of fact (4).

अश्रौष्म is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, √श्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √श्रु takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) श्रु + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) श्रु + म । By 3-4-99 नित्यं डितः, a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः।

(5) श्रु + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) श्रु + सिँच् + म । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) श्रु + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) श्रौ + स् + म । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix “सिँच्” which is in turn followed by a परस्मैपदम् affix.

(9) अट् श्रौ + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अ श्रौ + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अश्रौष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. The verbal root √श्रु (श्रु श्रवणे १. १०९२) has been used with लुँङ् in only one word in the गीता। Which one is it?

2. The वृत्तिः of the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु says इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। Commenting on this the तत्त्वबोधिनी says – ‘इको गुणवृद्धी’ इति परिभाषोपस्थानादाह– इगन्तेति। Please explain.

3. Can you spot the affix “श्यन्” in the verses?

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. Which सूत्रम् is used for the “नुँम्”-आगमः in the form अभिनन्दति (used in the commentary)?

6. How would you say this in Sanskrit?
“We have not heard this song before.” Use the neuter प्रातिपदिकम् “गीत” for “song” and the अव्ययम् “प्राक्” for “before.”

Easy Questions:

1. The word महताम् used in the verses is पुंलिङ्गे षष्ठी-बहुवचनम् of the प्रातिपदिकम् “महत्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”?

2. Can you spot two words in the verses wherein the “अस्मद्”-प्रातिपदिकम् has been used?

अकार्षीत् 3As-लुँङ्

Today we will look at the form अकार्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

Note: नाम तयोरकार्षीत् literally means “made their names.” The translation has “gave them names.”

अकार्षीत् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातुः is उभयपदी। In this verse, √कृ has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) कृ + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) कृ + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) कृ + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) कृ + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
As per 1-1-46 आद्यन्तौ टकितौ the “ईट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) कृ + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) कार् + स् + ईत् । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(12) अट् कार् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।

(13) अ कार् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अकार्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 11) been used in the गीता?

2. Which लकारः (लँङ् or लुँङ्) has been used in the form असूत?

3. Which सूत्रम् is used for the “जा”-आदेशः in the form अजायत?

4. What is the optional form for विदुः?

5. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

6. How would you say this in Sanskrit?
“Who committed (did) this crime?” Use the masculine प्रातिपदिकम् “अपराध” for “crime.”

Easy Questions:

1. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?

2. Why doesn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in the form अयम् (used in the commentary)?

मा भैष्ट 2Ap-लुँङ्

Today we will look at the form मा भैष्ट 2Ap-लुँङ् from श्रीमद्भागवतम् 10.34.28.

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ।। १०-३४-२८ ।।
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् । विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ।। १०-३४-२९ ।।

श्रीधर-स्वामि-टीका
मा भैष्ट भयं न प्राप्नुतेत्यभयवाचौ ।।२८।। ।।२९।।

Gita Press translation – Shouting Their assurance of safety in the words “Do not be afraid!” with a sal tree in hand, the two nimble-footed Brothers ran with quick steps and speedily overtook that vile Guhyaka (Yakṣa). (28) Shuddering to perceive the two Brothers, close upon his heels like Kāla (the Time-Spirit) and Death personified, the fool abandoned the womenfolk and ran post-haste with intent to save his life.(29)

‘मा भैष्ट’ is derived from the धातुः √भी (ञिभी भये, जुहोत्यादि-गणः, धातु-पाठः # ३. २)

The “ञि” at the beginning of “ञिभी” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोप: by 1-3-9 तस्य लोपः

√भी is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भी takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) माङ् भी + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”। See question 2.

(2) मा भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा भी + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) मा भी + त । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively.

(5) मा भी + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) मा भी + सिँच् + त । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) मा भी + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) मा भै + स् + त । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(9) मा भैष्त । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(10) मा भैष्ट । By 8-4-41 ष्टुना ष्टुः, when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “ष्” or a letter of the ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”) then it is replaced respectively by “ष्”, ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”).

Questions:

1. Where has 3-3-175 माङि लुङ् (used in step 1) been used in Chapter 11 of the गीता?

2. Commenting on the सूत्रम् 3-3-175 माङि लुङ्, the तत्वबोधिनी says – मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः। Please explain.

3. Commenting on the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 8), the काशिका says – परस्मैपदेषु इति किम्? अच्योष्ट। Please explain.

4. In the verses where has लिँट् been used?

5. Where has the सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः (used in step 4) been used in the commentary?

6. How would you say this in Sanskrit?
Śrī Kṛṣṇa said to Arjuna “Do not fear.”

Easy Questions:

1. In the verses can you spot a सुबन्तं पदम् derived from the सर्वनाम-प्रातिपदिकम् “तद्” and the विवक्षा is पुंलिङ्गे, द्वितीया-द्विवचनम्?

2. Why has 6-1-77 इको यणचि not been applied between कालमृत्यू + इव in the verses?

अद्राक्षीत् 3As-लुँङ्

Today we will look at the form अद्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 9.2.8.

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ।। ९-२-७ ।।
मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत्स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ।। ९-२-८ ।।

श्रीधर-स्वामि-टीका
गां कामतो न जघानेति ख्यापयितुं वृक्णश्रवण इत्याद्युक्तम् ।। ७ ।। व्युष्टायां प्रभातायाम् ।। ८ ।।

Gita Press translation “The tiger too, that had been struck with the end of the sword and had one of its ears severed, escaped from that place in extreme fear, dropping blood on the way. (7) Pṛṣadhra, the slayer of the hostile warriors, who believed the tiger to be dead, was filled with grief when he saw at the close of the night the cow killed by himself. (8)”

अद्राक्षीत् is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दृश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) दृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) दृश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृश् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दृश् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दृश् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) दृश् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) दृश् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(10) दृश् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) दृ अम् श् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(12) दृ अ श् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) द्रश् + स् + ईत् । By 6-1-77 इको यणचि

(14) द्राश् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

See questions 2 and 3.

(15) अट् द्राश् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ द्राश् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अ द्राष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(18) अद्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(19) अद्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the last ten verses of chapter 4 of the गीता where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 18) been used in a तिङन्तं पदम्?

2. In the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, why does पाणिनिः specially include √वद् and √व्रज् (which end in a consonant) in addition to stipulating हलन्तस्य? The काशिका gives the answer as follows – विकल्पबाधनार्थं वदिव्रजिग्रहणम्। Please explain.

3. Commenting on the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, the तत्त्वबोधिनी says – अच इति तु इक्परिभाषाया अनुपस्थानार्थम्। अन्यथा अभैत्सीदित्यत्र स्यान्न त्वपाक्षीदित्यादौ। Please explain.

4. Does the सूत्रम् 7-3-76 क्रमः परस्मैपदेषु apply in the form निश्चक्राम used in the verses?

5. Which सूत्रम् is used for the घकारादेशः in the form जघान (in the commentary)?

6. How would you say this in Sanskrit?
“My friend saw you in the temple in the morning.”

Easy Questions:

1. The form पथि (used in the verses) is derived from which प्रातिपदिकम् ?

2. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the commentary?

अभूवन् 3Ap-लुँङ्

Today we will look at the form अभूवन् 3Ap-लुँङ् from श्रीमद्भागवतम् 10.42.24.

गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान्नु भजतश्चकमेऽयनं श्रीः ।। १०-४२-२४ ।।
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ।। १०-४२-२५ ।।

श्रीधर-स्वामि-टीका
मुकुन्दस्य विगमे व्रजान्निर्गमनसमये या आशिष आशासत – ‘सुखं प्रभाता रजनीयम्’, ‘अद्य ध्रुवं तत्र दृशो भविष्यते’ इत्यादि यदुक्तवत्यस्ता ऋताः सत्या बभूवुः । पुरुषभूषणस्य श्रीकृष्णस्य गात्रस्य देहस्य लक्ष्मीं शोभाम् । कथंभूतस्य गात्रस्य । नु अहो इतरान्ब्रह्मादीन् हित्वादयनमाश्रयं श्रीः कामयामास । यां गात्रलक्ष्मीमिति वा ।। २४ ।। अवनिक्तं क्षालितमङ्घ्रियुगलं ययोस्तौ । क्षीरमिश्रमन्नं भुक्त्वा सुखं न्यवसताम् ।। २५ ।।

Gita Press translation “In the case of those who gazed in Mathurā (the city founded by the demon Madhu) on the elegance of the personality of Śrī Kṛṣṇa (the Jewel among men) – which lo! Śrī (the goddess of beauty and prosperity) coveted as Her abode, leaving (all) others who sought Her – the predictions that the cowherd women, afflicted at the thought of their separation (from Śrī Kṛṣṇa), had made at the time of departure (from Vraja) of Śrī Kṛṣṇa came to be (literally) true. (24) With Their feet duly washed and partaking of rice cooked in milk (with sugar), and having come to know what Kaṁsa intended to do (the next day), the two Brothers passed that night happily.”

अभूवन् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

See question 2.

(4) भू + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) भू + च्लि + झ् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + सिँच् + झ् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) भू + झ् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).

Note: By 1-2-4 सार्वधातुकमपित्, the affix “झ्” becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 1-1-5 क्क्ङिति च to prohibit 7-3-84 सार्वधातुकार्धधातुकयोः

(8) भू + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) भू वुक् + अन्त् । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

(10) भू व् + अन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(11) अट् भू व् + अन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(12) अभूवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अभूवन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. Where has लुँङ् been used for the first time in the गीता?

2. Why doesn’t the सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश्च  apply in this example?

3. Can you identify where the वुक्-आगमः has been used in the commentary?

4. Is there an alternate form for the word चकमे (in the verses)?

5. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in the verses?

6. Use some words from the verses/commentary to construct the following sentence in Sanskrit:
“All your blessings came to be true.”

Easy Questions:

1. Along with the  स्त्रीलिङ्ग-प्रातिपदिकम् “श्री” used in the form श्रीः, there are a few other ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Please list them.

2. Where has the सूत्रम् 7-2-110 यः सौ been used in the commentary?

अभूत् 3As-लुँङ्

Today we will look at the form अभूत् 3As-लुँङ् from श्रीमद्भागवतम् 2.7.5.

तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्स्वतपसः स चतुःसनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग्जगाद मुनयो यदचक्षतात्मन् ।। २-७-५ ।।
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतपःप्रभावः ।
दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ।। २-७-६ ।।

श्रीधर-स्वामि-टीका
कुमारावतारमाह । मे मया आदौत्तपस्तप्तं तस्मात्स्वतपसो मत्तपसो हेतोः हरिश्चतुःसनोऽभूत् । सनत्कुमारः सनकः सनन्दनः सनातन इति चत्वारः सनशब्दा नाम्नि यस्य सः । कथंभूतात्स्वतपसः सनादखण्डितात् । यद्वा स्वतपसः सनाद्दानात् समर्पणादित्यर्थः । षणु दाने । स च पूर्वकल्पस्य संप्लवे प्रलये विनष्टमुच्छिन्नसंप्रदायमात्मतत्त्वमिहास्मिन्कल्पे सम्यग्जगादोक्तवान् । सम्यक्त्वं दर्शयति । यद्गदितमात्रमेव मुनय आत्मन् आत्मनि मनस्यचक्षत साक्षादपश्यन् ।। ५ ।। नरनारयणावतारमाह । धर्मस्य पत्न्यां दक्षदुहितरि मूर्तिसंज्ञायां नारायणो नर इति मूर्तिद्वयेन जातः । कथंभूतः । स्वोऽसाधारस्तपःप्रभावो यस्य । तदेवाह । अनङ्गस्य पृतनाः देव्योऽप्सरसो भगवतः सकाशादात्मनः स्वप्रतिरूपा उर्वश्याद्याः स्त्रीर्दृष्ट्वा तस्य नियमावलोपं व्रतभङ्गं घटितुं साधयितुं शेकुरिति । एतच्चाख्यानमेकादशे भविष्यति ।। ६ ।।

Gita Press translation “At the dawn of creation I (Brahmā) practiced austerity for the purpose of creating the various worlds. As a result of that penance of mine the eternal Lord appeared in the form of the four brothers (Sanatkumāra, Sanaka, Sanandana and Sanātana), all of whom bear the word ‘Sana’ as a part of their names, and fully expounded in the present Kalpa the truth of the Spirit, which had been lost during the Dissolution at the end of the preceding Kalpa, and which the sages forthwith perceived in their heart (as a result of that exposition). (5) Of Mūrti, a daughter of Dakṣa and the wife of Dharma (the god of virtue), He was born as the twin sages Nārāyaṇa and Nara, who were unequalled in the glory of their austere penance. The celestial nymphs who accompanied the god of love as his army to conquer them beheld there other nymphs, as charming as themselves, evolved by dint of their Yogic power, and could not violate the sanctity of their vow.(6)”

अभूत् is derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, there are no इत् letters with the verbal root √भू. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्,  in कर्तरि प्रयोग: this verbal root takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) भू + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

See question 2.

(9) अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has लुँङ् been used in the last ten verses of the गीता?

2. After step 8, why doesn’t the अङ्गम् “भू” take the गुणादेशः by 7-3-84 सार्वधातुकार्धधातुकयोः?

3. Can you identify another लुँङ् form in the verses?

4. Which सूत्रम् is used for the जकारादेशः in the form जगाद?

5. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

6. How would you say this in Sanskrit?
“The teacher was amazed to hear my answer.” Paraphrase this to “Having heard my answer, the teacher was amazed.” Use the अव्ययम् “श्रुत्वा” for “having heard” and the adjective प्रातिपदिकम् “विस्मित” for “amazed.”

Easy Questions :

1. Can you spot a “आम्” augment in a सुबन्तं पदम् in the commentary?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

ईयुः 3Ap-लिँट्

Today we will look at the form ईयुः 3Ap-लिँट् from श्रीमद्भागवतम् 10.25.33.

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन्स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।

श्रीधर-स्वामि-टीका
ततो गोवर्धनस्थानात् । अस्य श्रीकृष्णस्य तथाविधानि गोवर्धनोद्धरणादिरूपाणि कृतानि कर्माणि गायन्त्य ईयुर्ययुः । कथंभूताः । एवं प्रेम्णा हृदि स्पृशन्तीति हृदिस्पृशस्ताः । यद्वा कथंभूतस्य । प्रेष्ठत्वेन तासां हृदि स्पृशतीति हृदिस्पृक् तस्य ।। ३३ ।।

Gita Press translation “Prompted by the gods, conchs and kettledrums sounded in the heavens; while Gandharva chiefs – the foremost of whom was Tumburu – sang, O protector of men! (32) Surrounded by loving cowherds and accompanied by Balarāma, O king, the said Śrī Hari went back from that place to Vraja. Full of delight the cowherd women (too) returned (to their respective homes) celebrating such exploits (as the uplifting of Govardhana) of Śrī Kṛṣṇa (who had captivated their heart).(33)”

ईयुः is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) इ इ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is a कित् here. This allows 1-1-5 क्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-81 इणो यण्

(6) ई इ + उस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।

(7) ई य् + उस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(8) ईयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has √इ (इण् गतौ #२. ४०) been used in a तिङन्तं पदम् for the last time in the गीता?

2. In which of the nine forms in the conjugation table of √इ (इण् गतौ #२. ४०) with लँट् is 6-4-81 इणो यण् (used in step 7 of this example) used?

3. The form जगुः used in the verses is derived from which verbal root?

4. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

5. Can you spot the affix “श” in the commentary?

6. How would you say this in Sanskrit?
“Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods were extremely amazed.” Paraphrase this to “Seeing Śrī Kṛṣṇa’s (amorous) sport, even the gods went to extreme amazement.” Use the अव्ययम् “दृष्ट्वा” for “seeing/having seen”, the feminine प्रातिपदिकम् “लीला” for “(amorous) sport”, the adjective प्रातिपदिकम् “परम” for “extreme” and the masculine प्रातिपदिकम् “विस्मय” for “amazement.”

Easy Questions:

1. Consider the सन्धि-कार्यम् between अव्रजत् + हरिः = अव्रजद्धरिः। What would be an optional form (instead of अव्रजद्धरिः)?

2. Can you spot two places in the verses where 6-1-113 अतो रोरप्लुतादप्लुते has been used?

गोप्तास्मि 1As-लुँट्

Today we will look at the form गोप्तास्मि 1As-लुँट् from श्रीमद्भागवतम् 8.17.18.

त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान्गोप्तास्मि मारीचतपस्यधिष्ठितः ।। ८-१७-१८ ।।
उपधाव पतिं भद्रे प्रजापतिमकल्मषम् । मां च भावयती पत्यावेवंरूपमवस्थितम् ।। ८-१७-१९ ।।

श्रीधर-स्वामि-टीका
मारीचस्य तपस्यधिष्ठाय स्थितः सन् गोप्तास्मि पालयिष्यामि ।। १८ ।। अतः पतिमुपधाव भजस्व ।। १९ ।।

Gita Press translation “Worshipped in the proper way for the protection of your sons through (the observance of the vow called) Payovrata and duly extolled by you, I shall assume the role of a son to you, entering by a part of My Being the procreative energy of the sage Kaśyapa (a son of Marīcī), and protect your progeny.(18) (Therefore,) seek your consort, the faultless Kaśyapa (a lord of created beings), O blessed lady, visualizing Me as present in this (very) form (standing before you) in the person of your husband.(19)”

गोप्तास्मि is derived from the धातुः √गुप् (गुपूँ रक्षणे, भ्वादि-गणः, धातु-पाठः #१. ४६१)

The ending ऊकारः (which is an इत्) of “गुपूँ” has a उदात्त-स्वरः। Thus √गुप् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गुप् takes परस्मैपद-प्रत्यया: by default.

By 3-1-31 आयादय आर्धधातुके वा – When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally.

In the present example the affix “आय” (which is optional by 3-1-31) has not been added to √गुप्। See question 2.

The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) गुप् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) गुप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गुप् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) गुप् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गुप् + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) गुप् + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

Note: “गुपूँ” is an ऊदित् (has ऊकारः as a इत्)। By 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०).
In the present example the augment “इट्” has not been added. See question 3.

(7) गोप्तास्मि । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Questions:

1. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5 of the example) been used for the last time in the गीता?

2. What would be the final form in this example if the optional affix “आय” were to be added to √गुप्?

3. What would be the final form in this example if the optional augment “इट्” were to be added to the affix “तास्” after step 6?

4. Which सूत्रम् has been used for the elision of the affix “हि” in the form उपधाव used in the verses?

5. Where has 3-4-91 सवाभ्यां वामौ been used in the commentary?

6. How would you say this in Sanskrit?
“Dharma alone will protect you.”

Easy Questions:

1. Where has the सूत्रम् 7-3-118 औत्‌ been used in the verses?

2. Which term used in the verses has the नदी-सञ्ज्ञा?

इयाय 3As-लिँट्

Today we will look at the form इयाय 3As-लिँट् from श्रीमद्भागवतम् 6.3.24.

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ।। ६-३-२३ ।।
एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ।। ६-३-२४ ।।

श्रीधर-स्वामि-टीका
न चात्र प्रमाणं वक्तव्यं दृष्टत्वादित्याह – नामोच्चारणेति । येनैव केवलेन सकृदुच्चारितेन ।। २३ ।। ननु नामाभासेन कथं सर्वपापक्षयः स्यात् । श्रद्धाभक्त्यावृत्त्यादेरपि विधानात् । तथाहि ‘सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते’ इति, ‘अनुदिनमिदमादरेण शृण्वन्’ इति, ‘श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।। जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ।।’ इत्याद्यस्मिन्नेव पुराणे तत्र तत्र पठ्यते । पुराणान्तरे च ‘पापक्षयश्च भवति स्मरतां तमहर्निशम्’ इति । अत्रैव च ‘तस्मात्संकीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।। महतामपि कौरव्य विद्ध्येकान्तिकनिष्कृतम् ।।’ इत्यादिना सम्यक्कीर्तनादेव मुच्यते । किंच तथा सति किमिति मन्वादयो द्वादशाब्दादीनि स्मरेयुः । तस्मादिदमनुपपन्नमिव तत्राह – एतावतेति । भगवतो गुणानां कर्मणां च नाम्नां च सम्यक्कीर्तनमिति यदेतावता पुंसामघनिर्हरणाय पापक्षयमात्रायालमुपयोगो नास्ति । अलंशब्दोऽत्र वारणे । यथाहामरसिंहः – ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इति । उपयोगाभावमेवाह । अजामिलो महापातक्यपि नारायणेति विक्रुश्य नतु सम्यक्कीर्तयित्वा । तच्च पुत्रं विक्रुश्य नतु हरिम् । अघवानशुचिरपि म्रियमाणोऽस्वस्थचित्तोऽपि मुक्तिमवाप न त्वघनिर्हरणमात्रम्, अतो नामाभासेनापि सर्वपापक्षय इत्येव तत्त्वम् । आवृत्तिश्रद्धादिविधयस्तु पापवासनाक्षयार्था इत्युक्तमेव ‘हरेर्गुणानुवादः खलु सत्त्वभावनः’ इत्यत्र ।। २४ ।।

Gita Press translation “Realize, my boys, the glory of uttering the name of Śrī Hari, by which alone (pronounced unintentionally once only) even (a vile sinner like) Ajāmila was liberated from the noose of Death! (23) To celebrate duly the virtues and exploits of the Lord and to chant His name – this much is not needed for (merely) wiping out the sins of men! For even the (most) sinful Ajāmila attained liberation by (simply) calling his son at the pitch of his voice (and not with proper intonation) as Nārāyaṇa (and that too) while on the verge of death (when neither his body nor his mind was in a sound condition).(24) “

इयाय is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) इ इ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-115 अचो ञ्णिति

(7) इ ऐ + अ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(8) इयँङ् ऐ + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: The resulting meaning is that if the इवर्ण: (इकार:/ईकार:) belonging to a अभ्यास: is followed by any vowel other than a इवर्ण: (इकार:/ईकार:) it gets substituted by “इयँङ्”। Similarly, if the उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास: is followed by any vowel other than a उवर्ण: (उकार:/ऊकार:) it gets substituted by “उवँङ्”।
See question 2.

(9) इयै + अ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) इयाय । By 6-1-78 एचोऽयवायावः

Questions:

1. In the first ten verses of Chapter 4 of the गीता can you spot a तिङन्तं पदम् derived from the verbal root √इ (इण् गतौ #२. ४०)?

2. In step 8 why is 6-4-78 अभ्यासस्यासवर्णे required? (Why cannot 6-4-77 अचि श्नुधातुभ्रुवां be used?)

3. Where has लोँट् been used in the verses?

4. Which सूत्रम् is used for the substitution “धि” in the form विद्धि in the commentary?

5. Where has 3-4-108 झेर्जुस् been used in the commentary?

6. How would you say this in Sanskrit?
“Śrī Hanumān went to Lañkā to search for Sītā.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for.”

Easy Questions:

1. Where in the verses has the सूत्रम् 6-4-134 अल्लोपोऽनः been used?

2. Which प्रातिपदिकम् has been used in the word अस्मिन् in the commentary?

Recent Posts

November 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics