सन्धिः from Bhagavatam verse
Today we will analyze सन्धिः done in the following verse from श्रीमद्भागवतम् 7.13.3
एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः ।। 7-13-3 ।।
The पदच्छेदः is as follows
एकः एव चरेत् भिक्षुः आत्मारामः अनपाश्रयः सर्वभूतसुहृत् शान्तः नारायणपरायणः
Let’s look at the सुबन्तशब्दाः first
1. भिक्षुः is declined similar to शम्भुशब्दः
भिक्षु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The विविक्षा is प्रथमा-विभक्तिः एकवचनम्
भिक्षु + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
भिक्षु + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः
भिक्षु + रुँ । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ
भिक्षु + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः
भिक्षुः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.
2. नारायणपरायणः is declined as रामशब्दः
नारायणपरायण gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च
The विविक्षा is प्रथमा-विभक्तिः एकवचनम्
नारायणपरायण + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
नारायणपरायण + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः
नारायणपरायण + रुँ । नारायणपरायण + स् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ
नारायणपरायण + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः
नारायणपरायणः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.
3. अात्मारामः and अनपाश्रयः can be similarly declined as नारायणपरायणः
We will next look at a few सन्धिकार्याणि
सन्धिकार्यम् #1
एकः + एव
The विवक्षा is प्रथमा-विभक्तिः एकवचनम्
एकस् + एव । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
एकरुँ + एव । Apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ
एकय् + एव । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि When preceded by a अवर्णः (अकारः or आकारः) and followed by a अश् letter, the letter ‘रुँ’ is replaced by a यकारः
एक एव । 8-3-19 लोपः शाकल्यस्य In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः
सन्धिकार्यम् #2
चरेत् is विधिलिङ्, प्रथमपुरुषः एकवचनम् of धातुः चर-गत्यर्थः, भ्वादि, परस्मैपदी
चरेद् भिक्षुः । चरेत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् and by 8-2-39 झलां जशोऽन्ते, the letter त् is replaced with द्
सन्धिकार्यम् #3
See above for derivation of भिक्षुः
भिक्षुः + अात्मारामः
भिक्षुस् + अात्मारामः । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ
भिक्षुरुँ + अात्मारामः । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः
भिक्षुर् + अात्मारामः
भिक्षुरात्मारामः
सन्धिकार्यम् #4
अात्मारामः + अनपाश्रयः
अात्माराम + स् + अनपाश्रयः । अात्मारामस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ
अात्माराम + रुँ + अनपाश्रयः । 6-1-113 अतो रोरप्लुतादप्लुते When preceded as well as followed by the letter ‘अ’, the letter ‘रुँ’ is substituted by the letter ‘उ’
अात्माराम + उ + अनपाश्रयः । 6-1-87 आद्गुणः In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः
अात्मारामो + अनपाश्रयः । 6-1-109 एङः पदान्तादति When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter
अात्मारामोऽनपाश्रयः
सन्धिकार्यम् #5
सर्वभूतसुहृत् + शान्तः । सर्वभूतसुहृत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्
सर्वभूतसुहृद् + शान्तः । 8-2-39 झलां जशोऽन्ते When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.
सर्वभूतसुहृज् + शान्तः । 8-4-40 स्तोः श्चुना श्चुः When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).
सर्वभूतसुहृच् + शान्तः । 8-4-55 खरि च A झल् letter is replaced by a चर् letter when a खर् letter follows.
सर्वभूतसुहृच्छान्तः
Example for मोऽनुस्वारः
Today, we will look at the application of 8-3-23 मोऽनुस्वारः applied in the following verse from Bg1-32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।१-३२
The वृत्तिः from Laghu Siddhanta Kaumudi is
मान्तस्य पदस्यानुस्वारो हलि
When the letter ‘म्’ occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)
विजयम् कृष्ण । विजयम् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्
विजयं कृष्ण । By 8-3-23 मोऽनुस्वारः, when the letter म् at the end of a पदम् is followed by a letter हल्, it gets repalced with अनुस्वारः
विजयङ् कृष्ण । 8-4-59 वा पदान्तस्य When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.
Thus we have two alternate forms, विजयं कृष्ण and विजयङ् कृष्ण
Questions:
1. In step 2, why did the अनुस्वार-आदेशः, that was ordained for the entire पदम्, replace only the final letter म्?
2. Which is the one letter in the यय् प्रत्याहारः that does not have a सवर्णः which can replace the अनुस्वार?
3. Under the sutram 8-3-23 मोऽनुस्वारः, Siddhanta Kaumudi says पदस्येति किम्? गम्यते Please explain
4. Try locating the application of this rule in the Taittiriya Upanishad extract that was attached in yesterday’s post. The image is below, and you can download the pdf here
Example for ङमो ह्रस्वादचि ङमुँण्नित्यम्
Today, we will look at the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् applied in Bg5-7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ५-७ ।।
The वृत्तिः from Laghu Siddhanta Kaumudi is
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्
When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्
कुर्वन् + अपि । कुर्वन् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्
कुर्वन् + न् अपि । 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् The न् at the end of कुर्वन् belongs to ङम् प्रत्याहारः, it follows a ह्रस्वः i.e अ and is followed by आ an अच्, so अपि gets ङमुँट्-आगमः By 1-1-46 आद्यन्तौ टकितौ, the आगमः (न्) occurs at the beginning of अपि
कुर्वन्नपि
Questions:
1. Can you spot the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् in the following snippet of a mantra from Krishna Yajur Veda 4.1.2
तमु त्वा दध्यङ्ङ्िऋषिः पुत्र ईधे अथर्वणः
2. In which of the following sentences can 8-3-32 ङमो ह्रस्वादचि be applied?
भवान् आस्ते
त्वम् अास्से
3. One of the examples in Siddhanta Kaumudi for this sutram is प्रत्यङ्ङात्मा How is this different from the word प्रत्यगात्मा?
Recent Comments