Home » 2015 » July » 09

Daily Archives: July 9, 2015

त्रिसर्गः mNs

Today we will look at the form त्रिसर्गः mNs from श्रीमद्भागवतम् 1.1.1.

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ।। १-१-१ ।।

श्रीधर-स्वामि-टीका
अथ नानापुराणशास्त्रप्रबन्धैश्चित्तप्रसत्तिमलभमानस्तत्र तत्रापरितुष्यन्नारदोपदेशतः श्रीमद्भगवद्गुणानुवर्णनप्रधानं भागवतशास्त्रं प्रारिप्सुर्वेदव्यासस्तत्प्रत्यूहनिवृत्त्यादिसिद्धये तत्प्रतिपाद्यपरदेवतानुस्मरणलक्षणं मङ्गलमाचरति – जन्माद्यस्येति । परं परमेश्वरं धीमहि । ध्यायतेर्लिङि छान्दसम् । ध्यायेमेत्यर्थः । बहुवचनं शिष्याभिप्रायम् । तमेव स्वरूपतटस्थलक्षणाभ्यामुपलक्षयति । तत्र स्वरूपलक्षणं सत्यमिति । सत्यत्वे हेतुः – यत्र यस्मिन्ब्रह्मणि त्रयाणां मायागुणानां तमोरजःसत्त्वानां सर्गो भूतेन्द्रियदेवतारूपोऽमृषा सत्यः । यत्सत्यतया मिथ्यासर्गोऽपि सत्यवत्प्रतीयते तं परं सत्यमित्यर्थः अत्र दृष्टान्तः – तेजोवारिमृदां यथा विनिमय इति । विनिमयो व्यत्ययोऽन्यस्मिन्नन्यावभासः । स यथाऽधिष्ठानसत्तया सद्वत्प्रतीयत इत्यर्थः । तत्र तेजसि वारिबुद्धिर्मरीचितोये प्रसिद्धा । मृदि काचादौ वारिबुद्धिर्वारिणि च काचादिबुद्धिरित्यादि यथायथमूह्यम् । यद्वा तस्यैव परमार्थसत्यत्वप्रतिपादनाय तदितरस्य मिथ्यात्वमुक्तम् । यत्र मृषैवायं त्रिसर्गो न वस्तुतः सन्निति । यत्रेत्यनेन प्रतीतमुपाधिसंबन्धं वारयति । स्वेनैधाम्ना महसा निरस्तं कुहकं कपटं मायालक्षणं यस्मिंस्तम् । तटस्थलक्षणमाह – जन्मादीति । अस्य विश्वस्य जन्मस्थितिभङ्गा यतो भवन्ति तं धीमहीति । तत्र हेतुः – अन्वयादितरतश्चअर्थेष्वाकाशादिकार्येषु परमेश्वरस्य सद्रूपेणान्वयादकार्येभ्यश्च खपुष्पादिभ्यस्तद्व्यतिरेकात् । यद्वा अन्वयशब्देनानुवृत्तिः, इतरशब्देन व्यावृत्तिः । अनुवृत्तत्वात्सद्रूपं ब्रह्म कारणं मृत्सुवर्णादिवत् । व्यावृत्तत्वाद्विश्वं कार्यं घटकुण्डलादिवदित्यर्थः । यद्वा सावयवत्वादन्वयव्यतिरेकाभ्यां यदस्य जन्मादिद्यतो भवतीति संबन्धः । तथा च श्रुतिः – ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति’ इत्याद्या । स्मृतिश्च – ‘यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये’ इत्याद्या । तर्हि किं प्रधानं जगत्कारणत्वाद्ध्येयमभिप्रेतं नेत्याह । अभिज्ञो यस्तम् । ‘स ईक्षत लोकान्नु सृजा इति । स इमाँल्लोकानसृजत’ इति श्रुतेः । ‘ईक्षतेर्नाशब्दम्’ इति न्यायाच्च । तर्हि किं जीवो ध्येयः स्यान्नेत्याह । स्वराट् स्वेनैव राजते यस्तम् । स्वतःसिद्धज्ञानमित्यर्थः । तर्हि किं ब्रह्मा ध्येयः ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति श्रुतेः । नेत्याह – तेन इति । आदिकवये ब्रह्मणेऽपि ब्रह्म वेदं यस्तेने प्रकाशितवान् । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ इति श्रुतेः । ननु ब्रह्मणोऽन्यतो वेदाध्ययनमप्रसिद्धम् । सत्यम्, तत्तु हृदा मनसैव तेने विस्तृतवान् । अनेन बुद्धिवृत्तिप्रवर्तकत्वेन गायत्र्यर्थो दर्शितः । वक्ष्यति हि – ‘प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि ।। स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्’ इति । ननु ब्रह्मा स्वयमेव सुप्तप्रतिबुद्धन्यायेन वेदमुपलभतां नेत्याह । यद्यस्मिन्ब्रह्मणि सूरयोऽपि मुह्यन्तीति । तस्माद्ब्रह्मणोऽपि पराधीनज्ञानत्वात्स्वतःसिद्धज्ञानः परमेश्वर एव जगत्कारणम् । अत एव सत्योऽसतः सत्ताप्रदत्वाच्च परमार्थसत्यः सर्वज्ञत्वेन च निरस्तकुहकस्तम् । धीमहीति गायत्र्या प्रारम्भेण च गायत्र्याख्यब्रह्मविद्यारूपमेतत्पुराणमिति दर्शितम् । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे – ‘यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तारः ।। वृत्रासुरवधोपेतं तद्भागवतमिष्यते ।। लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्’ ।। पुराणान्तरे च – ‘ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसंमितः ।। हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।। गायत्र्या च समारम्भस्तद्वै भागवतं विदुः’ ।। पद्मपुराणेऽम्बरीषं प्रति गौतमोक्तिः – ‘अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु ।। पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम्’ इति । अत एव भागवतं नामान्यदित्यपि न शङ्कनीयम् ।। १ ।।

Gita Press translation – We meditate on that transcendent Reality (God) from whom this universe springs up, in whom it abides and into whom it returns – because He is invariably present in all existing things and is distinct from all non-entities – who is self-conscious and self-effulgent, who revealed to Brahmā (the very first seer) by His mere will the Vedas that cause bewilderment even to the greatest sages, in whom this threefold creation (consisting of Sattva, Rajas and Tamas), though unreal, appears as real (because of the reality of its substratum) – even as the sun’s rays (which are made up of the elemental of fire) are mistaken for water (in a mirage), water for earth and earth for water – and who ever excludes Māyā by His own self-effulgent glory (1).

त्र्यवयव: सर्ग: = त्रिसर्ग: – threefold creation.
Note: त्र्यवयव: itself is a बहुव्रीहि-समास: explained as follows – त्रयोऽवयवा यस्य स: = त्र्यवयव: – threefold. The compound ‘त्र्यवयव’ is then used in the following derivation –

अलौकिक-विग्रह: –
(2) त्र्यवयव सुँ + सर्ग सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्र्यवयव सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘त्र्यवयव सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्र्यवयव सुँ + सर्ग सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्र्यवयव + सर्ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) त्रिसर्ग । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘अवयव’ of the compound ‘त्र्यवयव’ is elided in order to explain the compound ‘त्रिसर्ग’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘त्रिसर्ग’ is masculine since the latter member ‘सर्ग’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम् ।

(6) त्रिसर्ग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) त्रिसर्ग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) त्रिसर्ग: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you spot a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) in verses 23-25 of Chapter Ten of the गीता?

2. In which word in the verses does the सूत्रम् 3-1-136 आतश्चोपसर्गे find application?

3. Which सूत्रम् justifies the use of a third case affix in the words हृदा and धाम्ना (as well as स्वेन) in the verses?

4. Which कृत् affix is used to construct the प्रातिपदिकम् ‘ध्येय’ (seen in the forms ध्येयम् (नपुंसकलिङ्गे प्रथमा-एकवचनम्) and ध्येय: (पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary)?

5. In which two words in the commentary has the verbal root √रभ् (रभँ राभस्ये १. ११२९) been used?

6. How would you say this in Sanskrit?
“I have read only fifteen chapters of the BhagawadGītā.” Form a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) for fifteen = five + ten = पञ्चाधिका दश।

Easy questions:

1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

2. The form धीमहि (विधिलिँङ्, उत्तमपुरुष:, बहुवचनम्) is a आर्ष-प्रयोग: (irregular grammatical usage.) What is the grammatically correct form? Hint: The verbal root is √ध्यै (ध्यै चिन्तायाम् १. १०५६).

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics